Lemma

Lemma

na

ന — അല്ല

160 verses



Morphology

indecl.neg.
  1. Verses on the Recognition of the Lord 2.1
    ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥१॥

    ന — അല്ല

  2. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    ന — അല്ല

  3. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    ന — ഇല്ല

  4. Verses on the Recognition of the Lord 2.9
    क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥९॥

    ന — അല്ല

  5. Verses on the Recognition of the Lord 3.1
    सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् ॥१॥

    ന — അല്ല

  6. Verses on the Recognition of the Lord 3.2
    दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥२॥

    ന — അല്ല

  7. Verses on the Recognition of the Lord 3.5
    भ्रान्तित्वे चावसायस्य न जडाद् विषयस्थितिः ततो ऽजाड्ये निजोल्लेखनिष्ठान् नार्थस्थितिस् ततः ॥५॥

    ന — ഇല്ല

  8. Verses on the Recognition of the Lord 3.7
    न चेद् अन्तःकृतानन्तविश्वरूपो महेश्वरः स्याद् एकश् चिद्वपुर् ज्ञानस्मृत्यपोहनशक्तिमान् ॥७॥

    ന — അല്ല (അങ്ങനെ സംഭവിക്കും)

  9. Verses on the Recognition of the Lord 4.3
    न च युक्तं स्मृतेर् भेदे स्मर्यमाणस्य भासनम् तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥३॥

    ന — അല്ല

  10. Verses on the Recognition of the Lord 4.5
    योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा ॥५॥

    ന — ഇല്ല

  11. Verses on the Recognition of the Lord 5.3
    भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् प्रकाशात्मा प्रकाश्यो ऽर्थो नाप्रकाशश् च सिद्ध्यति ॥३॥

    ന — അല്ല

  12. Verses on the Recognition of the Lord 5.4
    तत्तदाकस्मिकाभासो बाह्यं चेद् अनुमापयेत् न ह्य् अभिन्नस्य बोधस्य विचित्राभासहेतुता ॥४॥

    ന — അല്ല (അങ്ങനെയല്ല)

  13. Verses on the Recognition of the Lord 5.5
    न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥

    ന — അല്ല

  14. Verses on the Recognition of the Lord 5.10
    स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम् अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ॥१०॥

    ന — ഇല്ല

  15. Verses on the Recognition of the Lord 5.17
    नाहन्तादिपरामर्शभेदाद् अस्यानयतात्मनः अहंमृश्यतयाइवास्य सृष्तेस् तिङ्वाच्यकर्मवत् ॥१७॥

    ന — ഇല്ല (ഭംഗമില്ല)

  16. Verses on the Recognition of the Lord 6.1
    अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥

    ന — അല്ല

  17. Verses on the Recognition of the Lord 6.2
    भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥२॥

    ന — ഇല്ല

  18. Verses on the Recognition of the Lord 7.11
    पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥

    ന — അല്ല

  19. Verses on the Recognition of the Lord 8.5
    भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥

    ന — അല്ല

  20. Verses on the Recognition of the Lord 8.6
    आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥६॥

    ന — അല്ല

  21. Verses on the Recognition of the Lord 10.7
    एवम् एवर्थसिद्धिः स्यान् मातुर् अर्थक्रियार्थिनः भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी ॥७॥

    ന — ഇല്ല

  22. Verses on the Recognition of the Lord 11.12
    अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥

    ന — അല്ല

  23. Verses on the Recognition of the Lord 11.13
    रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥१३॥

    ന — ഇല്ല

  24. Verses on the Recognition of the Lord 12.2
    जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥२॥

    ന — ഇല്ല

  25. Verses on the Recognition of the Lord 12.3
    यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता सतो ऽपि न पुनः सत्तालाभेनार्थो ऽथ चोच्यते ॥३॥

    ന — ഇല്ല

  26. Verses on the Recognition of the Lord 14.6
    शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥६॥

    ന — ഇല്ല

  27. Karpūrādi Stotra 1.8
    शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥

    ഇല്ല

  28. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    ഇല്ല

  29. Karpūrādi Stotra 1.13
    अनेके सेवन्ते भवदधिगिर्वाणनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥

    ഇല്ല

  30. Karpūrādi Stotra 1.14
    धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलम् । प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः ॥ १४॥

    ഇല്ല

  31. The Great Liberation Tantra 1.16
    मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम । सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

    ന — ഇല്ല

  32. The Great Liberation Tantra 1.25
    न मिथ्याभाषिणः केचित् न प्रमादरताः क्वचित् । न चौरा न परद्रोहकारका न दुराशयाः ॥ २५ ॥

    ന — ഇല്ല

  33. The Great Liberation Tantra 1.26
    न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः । सदन्तःकरणाः सर्वे सर्वदाऽनन्दमानसाः ॥ २६ ॥

    ന — ഇല്ല

  34. The Great Liberation Tantra 1.28
    नाऽकालमृत्युस्तत्रासीत् न दुर्भिक्षं न वा रुजः । हृष्टाः पुष्टाः सदारोग्यास्तेजोरूपगुणान्विताः । स्त्रियो न व्यभिचारिण्यः पतिभक्तिपरायणः ॥ २८ ॥

    ന — ഇല്ല

  35. The Great Liberation Tantra 1.30
    कृते व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम् । वेदोक्तकर्मभिर्मर्त्या न शक्ताः स्वेष्टसाधने ॥ ३० ॥

    ന — ഇല്ല

  36. The Great Liberation Tantra 1.31
    बहुक्लेशकरं कर्म वैदिकं भूरिसाधनम् । कर्तुं न योग्या मनुजाश्चिन्ताव्याकुलमानसाः ॥ ३१ ॥

    ന — ഇല്ല

  37. The Great Liberation Tantra 1.32
    त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः । वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले ॥ ३२ ॥

    ന — ഇല്ല

  38. The Great Liberation Tantra 1.37
    न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः । नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम् ॥ ३७ ॥

    ന — ഇല്ല

  39. The Great Liberation Tantra 1.49
    सत्कथालापमात्रञ्च न तेषां मनसि क्वचित् । त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे ॥ ४९ ॥

    ന — ഇല്ല

  40. The Great Liberation Tantra 1.53
    पशुभावदिव्यभावौ स्वयमेव निवारितौ । कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

    ന — ഇല്ല

  41. The Great Liberation Tantra 1.54
    पत्रं पुष्पं फलं तोयं स्वयमेवाहरेत् पशुः । न शूद्रदर्शनं कुर्ययात् मनसा न स्त्रियं स्मरेत् ॥ ५४ ॥

    ന — ഇല്ല

  42. The Great Liberation Tantra 1.58
    कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः । लोभात्तत्र पतिष्यन्ति न करिष्यन्ति साधनम् ॥ ५८ ॥

    ന — ഇല്ല

  43. The Great Liberation Tantra 1.60
    परस्त्रीधर्षकाः केचिद्दस्यवो - बहवो भुवि । न करिष्यन्ति ते मत्ताः पापायोनिविचारणम् ॥ ६० ॥

    ന — ഇല്ല

  44. The Great Liberation Tantra 2.2
    श्रीसदाशिव उवाच । साधु पृष्टं महाभागे जगतां हितकारिणि । एतादृशः शुभः प्रश्नो न केनापि कृतः पुरा ॥ २ ॥

    ന — ഇല്ല

  45. The Great Liberation Tantra 2.5
    यथातत्त्वं यथान्यायं यथायोग्यं न संशयः । कलिकल्मषदीनानां द्विजादीनां सुरेश्वरि ॥ ५ ॥

    ന — ഇല്ല

  46. The Great Liberation Tantra 2.6
    मेध्यामेध्याविचाराणां न शुद्धिः श्रौतकर्मणा । न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां भवेत् ॥ ६ ॥

    ന — ഇല്ല

  47. The Great Liberation Tantra 2.9
    कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते । न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

    ന — ഇല്ല

  48. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    ന — ഇല്ല

  49. The Great Liberation Tantra 2.28
    त्वया यादृक्कृताः प्रश्ना न केनापि पुरा कृताः । तव स्नेहेन वक्ष्यामि सारात्सारं परात्परं ॥ २८ ॥

    ന — ഇല്ല

  50. The Great Liberation Tantra 2.37
    लोकातीतो लोकहेतुरवाङ्मनसगोचरः । स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ ३७ ॥

    ന — ഇല്ല

  51. The Great Liberation Tantra 2.43
    तेनान्तर्यामिरूपेण तत्तद्विषययोजिताः । स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ ४३ ॥

    ന — ഇല്ല

  52. The Great Liberation Tantra 2.53
    नाऽयासो नोपवासश्च कायक्लेशो न विद्यते । नैवाऽचारादिनियमो नोपचाराश्च भूरिशः ॥ ५३ ॥

    ന — ഇല്ല

  53. The Great Liberation Tantra 2.54
    न दिक्कालविचारोऽस्ति न मुद्रान्याससंहतिः । यत्साधने कुलेशानि तं विना कोऽन्यमाश्रयेत् ॥ ५४ ॥

    ന — ഇല്ല

  54. The Great Liberation Tantra 3.5
    रहस्यमेतत् कल्याणि न कुत्रापि प्रकाशितम् । तव स्नेहेन वक्ष्यामि मम प्राणाधिकं परम् ॥ ५ ॥

    ന — ഇല്ല

  55. The Great Liberation Tantra 3.15
    न तिथिर्न च नक्षत्रं न राशिगणनं तथा । कुलाकुलादिनियमो न संस्कारोऽत्र विद्यते । सर्वथा सिद्धमन्त्रोऽयं नात्र कार्या विचारणा ॥ १५ ॥

    ന — ഇല്ല

  56. The Great Liberation Tantra 3.28
    न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः । सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च । को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥

    ന — ഇല്ല

  57. The Great Liberation Tantra 3.31
    मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः । शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥

    ന — ഇല്ല

  58. The Great Liberation Tantra 3.80
    गङ्गातोये शिलादौ च स्पृष्टदोषोऽपि वर्तते । परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टं न विद्यते ॥ ८० ॥

    ന — ഇല്ല

  59. The Great Liberation Tantra 3.81
    पक्वं वाऽपि न पक्वं वा मन्त्रेणानेन मन्त्रितम् । साधको ब्रह्मसात् कृत्वा भुञ्जीयात् स्वजनैः सह ॥ ८१ ॥

    ന — ഇല്ല

  60. The Great Liberation Tantra 3.82
    नात्र वर्णविचारोऽस्ति नोच्छिष्टादिविवेचनम् । न कालनियमोऽप्यत्र शौचाशौचं तथैव च ॥ ८२ ॥

    ന — ഇല്ല

  61. The Great Liberation Tantra 3.92
    जातिभेदो न कर्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥

    ന — ഇല്ല

  62. The Great Liberation Tantra 3.93
    वरं पापशतं कुर्याद्वरं विप्रबधं प्रिये । परब्रह्मार्पिते ह्यन्ने न कुर्यादवहेलनम् ॥ ९३ ॥

    ന — ഇല്ല

  63. The Great Liberation Tantra 3.98
    कृतेनास्य फलं नास्ति नाकृतेनापि किल्विषम् । न विघ्नः प्रत्यवायो,अस्य ब्रह्ममन्त्रस्य साधनात् ॥ ९८ ॥

    ന — ഇല്ല

  64. The Great Liberation Tantra 3.102
    न मिथ्याभाषणं कुर्यान्न परानिष्टचिन्तनम् । परस्त्रीगमनञ्चैव ब्रह्ममन्त्री विवर्जयेत् ॥ १०२ ॥

    ന — ഇല്ല

  65. The Great Liberation Tantra 3.115
    भक्ष्याभक्ष्यविचारोऽत्र त्याज्यं ग्राह्यं न विद्यते । न कालशुद्धिनियमो न वा स्थाननिरूपणम् ॥ ११५ ॥

    ന — ഇല്ല

  66. The Great Liberation Tantra 3.120
    सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः । न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च । महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

    ന — ഇല്ല

  67. The Great Liberation Tantra 3.127
    विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न । स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥

    ന — ഇല്ല

  68. The Great Liberation Tantra 3.148
    ब्रह्मज्ञानिमुखात् श्रुत्वा येन केन विधानतः । ब्रह्मभूतो नरः पूतः पुण्यपापैर्न लिप्यते ॥ १४८ ॥

    ന — ഇല്ല

  69. Parātrīśikā 1.4
    कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् । कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः ॥४॥

    ഇല്ല, അല്ല

  70. Parātrīśikā 1.18
    यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति । मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा ॥१८॥

    അല്ല

  71. Parātrīśikā 1.35
    यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् । अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः ॥३५॥

    ഇല്ല, അല്ല

  72. The Vision of Śiva 1.5
    न परं तदवस्थायां व्यवस्थैषा व्यवस्थिता । यावत्समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि ॥५॥

    അല്ല

  73. The Vision of Śiva 1.6
    एवं न जातुचित्तस्य वियोगस्त्रितयात्मना ॥६॥

    അല്ല

  74. The Vision of Śiva 1.17
    औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता । नैचान्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥१७॥

    അല്ല

  75. The Vision of Śiva 1.18
    गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥१८॥

    അല്ല

  76. The Vision of Śiva 1.22
    एवं सर्वसमुत्पत्तिकाले शक्तित्रयात्मता । न निवृत्ता, नचौन्मुख्यं निवृत्तं, नापि निर्वृतिः ॥२२॥

    അല്ല

  77. The Vision of Śiva 1.23
    यदेकतरनिर्याणे कार्यं जातु न जायते । तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम् ॥२३॥

    അല്ല

  78. The Vision of Śiva 1.28
    न्यायादिभिर्न तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥२८॥

    അല്ല

  79. The Vision of Śiva 2.10
    न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥१०॥

    അല്ല

  80. The Vision of Śiva 2.25
    ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥२५॥

    അല്ല

  81. The Vision of Śiva 2.36
    सिन्धुशब्दादिवच्छब्दो न पश्यन्त्यादितो भवेत् ॥३६॥

    അല്ല

  82. The Vision of Śiva 2.54
    हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता । कर्ता मनः स्वावयवी नामूर्ताया इदं पुनः ॥५४॥

    അല്ല

  83. The Vision of Śiva 2.62
    भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता ॥६२॥

    അല്ല

  84. The Vision of Śiva 2.64
    प्रतिभा कथिता या वा सानुमानं न तच्च ते ॥६४॥

    അല്ല

  85. The Vision of Śiva 2.72
    भवतामप्रस्तुतेन न केवलमिहोदितम् ॥७२॥

    അല്ല

  86. The Vision of Śiva 2.79
    तथा रूपानुरूपत्वात्प्रसूतेः शिवरूपतः । सत्यत्वाच्च न तुल्यत्वमतोऽस्मात्प्रविरम्यताम् ॥७९॥

    അല്ല

  87. The Vision of Śiva 2.83
    पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ । न तद्द्रष्टव्यमित्येतद्विमर्शः पूर्वतो भवेत् ॥८३॥

    അല്ല

  88. The Vision of Śiva 2.85
    सा स्थिता पूर्वतस्तस्या इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥८५॥

    അല്ല

  89. The Vision of Śiva 2.90
    तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्त्मात्सर्वं शिवात्मकम् ॥९०॥

    അല്ല

  90. The Vision of Śiva 3.2
    न शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥२॥

    അല്ല

  91. The Vision of Śiva 3.12
    नैतन्न वाचः कथितं पतिशब्दस्य वर्णितम् ॥१२॥

    അല്ല

  92. The Vision of Śiva 3.19
    न भूषणे कुडलादौ यथा तत्र स्वशक्तितः । रूपकत्वं गतं हेम न शक्त्यैव स्वतन्त्रया ॥१९॥

    അല്ല (മാത്രമല്ല)

  93. The Vision of Śiva 3.24
    यत्रोपरि न हस्तादि नेयमीश्वरसंनिधौ । तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥२४॥

    അല്ല

  94. The Vision of Śiva 3.28
    सर्वेषामेव मुक्तत्वे स्थिते कस्योपदेश्यता । धर्माधर्मौ नसं बद्धौ शिवस्य न तयोः कृतिः ॥२८॥

    അല്ല

  95. The Vision of Śiva 3.35
    इच्छया सर्वभावत्वमनेकात्मत्वमेव च । नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥३५॥

    അല്ല

  96. The Vision of Śiva 3.36
    यथा न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥३६॥

    അല്ല

  97. The Vision of Śiva 3.38
    तत्र विचित्वमापन्नं न जलं जलमुच्यते । न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥३८॥

    അല്ല

  98. The Vision of Śiva 3.40
    अत एव परेच्छातो न जडत्वमवस्थितम् । पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥४०॥

    അല്ല

  99. The Vision of Śiva 3.41
    न तथा जडता क्वापि तथाग्रे सुविचारितैः । वर्णयिष्याम एवात्र न च सावयवः क्वचित् ॥४१॥

    അല്ല

  100. The Vision of Śiva 3.45
    स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता । चण्डालसद्मगो वह्निर्न वह्निरिति कथ्यते ॥४५॥

    അല്ല

  101. The Vision of Śiva 3.47
    न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥

    അല്ല

  102. The Vision of Śiva 3.49
    हेमपिण्डे हेमतैव स्याच्चेन्न मुकुटादिके ॥४९॥

    അല്ല

  103. The Vision of Śiva 3.51
    एवं प्रवर्तने तस्य न निमित्तसमुद्गमः ॥५१॥

    ഇല്ല

  104. The Vision of Śiva 3.56
    तत्र का शान्तता ब्रूहि शक्तेः किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥५६॥

    അല്ല

  105. The Vision of Śiva 3.57
    अङ्गाररूपे किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था न क्रिया ज्ञानरूपिणी ॥५७॥

    അല്ല

  106. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    അല്ല

  107. The Vision of Śiva 3.60
    अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥६०॥

    ഇല്ല

  108. The Vision of Śiva 3.62
    जलाहरणशक्तश्च घटो यदि न भण्यते । घटः केवल एवात्र तदेवंविधमुच्यताम् ॥६२॥

    അല്ല

  109. The Vision of Śiva 3.67
    साऽरोदीदिति वेदेऽस्ति नार्थवादो निरर्थकः । विध्यङ्गत्वेन चेत्सत्ता नासत्यस्याङ्गता स्थिता ॥६७॥

    അല്ല

  110. The Vision of Śiva 3.68
    बन्धमोक्षौ न भिद्येते सर्वत्रैव शिवत्वतः ॥६८॥

    അല്ല

  111. The Vision of Śiva 3.71
    नासत्ये सत्यबुद्धित्वखण्डनात्रास्ति काचन । कथनं सर्वसाम्याय विवादिहननाय च ॥७१॥

    അല്ല

  112. The Vision of Śiva 3.72
    तदात्मत्वे नास्ति बन्धस्तदभावान्न मोक्षणम् ॥७२॥

    അല്ല

  113. The Vision of Śiva 3.77
    व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः । स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥७७॥

    അല്ല

  114. The Vision of Śiva 3.80
    निमित्तसमवाययादिवैचित्र्यं तद्विचित्रता । कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥८०॥

    അല്ല

  115. The Vision of Śiva 3.82
    न पृथिव्यादिके तस्मिन् कल्पना संप्रवर्तते ॥८२॥

    അല്ല

  116. The Vision of Śiva 3.85
    शिवतत्त्वे सानुभवे पश्यन्त्या न समानता ॥८५॥

    അല്ല

  117. The Vision of Śiva 3.86
    सत्यानि स्वात्मरूपाणि पश्यतो न समानता ॥८६॥

    അല്ല

  118. The Vision of Śiva 3.90
    यत्रात्मानुभवानिष्ठा तत्रेच्छा च न किं भवेत् ॥९०॥

    അല്ല

  119. The Vision of Śiva 3.97
    एकाधिष्ठानतो वापि तेषामपि न दूषणम् ॥९७॥

    ഇല്ല

  120. The Vision of Śiva 3.99
    पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥

    അല്ല

  121. The Vision of Śiva 4.1
    अथेदानीं प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥१॥

    അല്ല

  122. The Vision of Śiva 4.3
    स्वकार्यविषये सर्वः शक्त एव निबन्धनम् । शक्तस्य शक्यते कर्तुमेवं ४चेन्नान्यशक्तता ॥३॥

    ഇല്ല

  123. The Vision of Śiva 4.14
    नाभाष्य व्यवहारार्थमेवं वस्त्विति निश्चितम् । तथैवास्तु शिवावस्था केनासौ विनिवारिता ॥१४॥

    അല്ല

  124. The Vision of Śiva 4.17
    अथानुभवगा बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥१७॥

    അല്ല

  125. The Vision of Śiva 4.28
    प्रतिष्ठादेवकर्मादिध्यानादिफलयोगतः । सत्येऽपि न फलं दृष्टं क्वचिदज्ञानिसेवितात् ॥२८॥

    ഇല്ല

  126. The Vision of Śiva 4.50
    नासंबद्धस्य करणं सत्कार्याच्चेत्स विद्यते । सन्नप्यसावसंवेद्यो व्यञ्जकस्याप्यभावतः ॥५०॥

    ഇല്ല

  127. The Vision of Śiva 4.59
    इतोऽपि नाशो नास्त्यस्य घटस्य करणात्पुनः । नाभावप्राप्तरूपस्य करणं युज्यते पुनः ॥५९॥

    ഇല്ല

  128. The Vision of Śiva 4.78
    संयोगश्चेन्न दूरेषु मूर्तामूर्तेषु युज्यते । शब्दस्योच्चारितध्वंसान्नष्टानष्टद्वये नच ॥७८॥

    ഇല്ല

  129. The Vision of Śiva 4.89
    यावन्न वह्निकलना न योगकलना भवेत् । यावद्वा योगकलना न वह्निकलनाक्षमा ॥८९॥

    ഇല്ല

  130. The Vision of Śiva 4.92
    तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥

    അല്ല

  131. The Vision of Śiva 4.99
    तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥९९॥

    അല്ല (മറ്റുവിധം)

  132. The Vision of Śiva 4.106
    शाशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः । गुणिनो नीयतेऽन्यत्र तृषार्तैश्चाकृतिं प्रति? ॥१०६॥

    അല്ലയോ

  133. The Vision of Śiva 4.121
    द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् । अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥१२१॥

    ഇല്ല

  134. The Vision of Śiva 5.7
    घटादीनां समस्तानामिच्छादेरल्पतास्ति चेत् । अन्यत्र देहे सर्पादौ दीपादौ नाग्निताल्पके ॥७॥

    ഇല്ല (കുറവില്ല)

  135. The Vision of Śiva 5.14
    चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडो भवेत् ॥१४॥

    അല്ല

  136. The Vision of Śiva 5.16
    जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् । अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥१६॥

    അല്ല

  137. The Vision of Śiva 5.17
    स्वकर्मणि ममैतत्तदित्यज्ञानान्न चेष्टनम् । कूलं पिपतिषति गोर्व्यवहारः प्रसिद्ध्यति ॥१७॥

    ഇല്ല

  138. The Vision of Śiva 5.29
    तथाकारगुणत्वान्न द्रव्याच्च चलनं पृथक् । शक्तेर्नचापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥२९॥

    ഇല്ല

  139. The Vision of Śiva 5.30
    अन्तर्विंशति चेच्छक्तिरन्तरप्युपलम्भनम् । अप्रवेशान्न मनसः सम्बन्ध उपपद्यते ॥३०॥

    അല്ല

  140. The Vision of Śiva 5.38
    नानिर्वृतौ प्रवर्तेत स्फुटे ज्ञानक्रिये स्थिते । कर्मप्रभवनत्वात्तत्प्रभुत्वमवधार्यते ॥३८॥

    അല്ല

  141. The Vision of Śiva 5.48
    तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् । धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥४८॥

    ഇല്ല

  142. The Vision of Śiva 5.55
    स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥५५॥

    അല്ല

  143. The Vision of Śiva 5.60
    तस्मात्तद्व्यपदेशे न वह्निः स्वं विनिवेदयेत् । वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥६०॥

    ഇല്ല

  144. The Vision of Śiva 5.68
    न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते । तस्माद्वर्णनिकैवेयं परस्यान्ध्याय कल्पिता ॥६८॥

    അല്ല

  145. The Vision of Śiva 5.70
    न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः । विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥७०॥

    അല്ല

  146. The Vision of Śiva 5.80
    भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः । गमागमेन वायवादेः कान्या भवति चेतना ॥८०॥

    അല്ല

  147. The Vision of Śiva 5.88
    ज्ञानस्वरूपग्रहाणां तद्ग्रहात्तद्ग्रहः किल । अतत्स्वरूपरूपत्वे नान्यस्यान्यग्रहाद्ग्रहः ॥८८॥

    അല്ല

  148. The Vision of Śiva 6.6
    घटादीनां द्विरूपत्वं न घटादेः सदास्थितेः । निमित्तकल्पना कल्प्या तर्ह्यविद्या तदुद्गमात् ॥६॥

    ഇല്ല

  149. The Vision of Śiva 6.37
    अहं वेद्मि स मां वेत्ति न कर्तृकरणादिता । ज्ञानस्यैकक्षणे युक्ता तद्द्वित्वेन क्षणक्षयः ॥३७॥

    ഇല്ല

  150. The Vision of Śiva 6.45
    उत्पद्यमाने विज्ञाने नार्थनिष्पन्नता मता । नचार्थजातेऽवस्तुत्वं नावस्तुग्रहणादरः ॥४५॥

    അല്ല

  151. The Vision of Śiva 6.53
    भावस्य भावजनने युक्तत्वं न क्षणस्थितेः । न घटाद्घटसम्भूतिः समवायाद्यपेक्षया ॥५३॥

    ഇല്ല

  152. The Vision of Śiva 6.59
    अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके । तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥५९॥

    അല്ല

  153. The Vision of Śiva 6.97
    तदर्थमुक्तमीशेन न परार्थविवक्षया । अनेकेषामणूनां च कथमेकत्र संस्थितिः ॥९७॥

    അല്ല

  154. Stanzas on the Divine Pulsation 1.5
    न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥

    അല്ല, ഇല്ല (നിഷേധാവ്യയം)

  155. Stanzas on the Divine Pulsation 1.12
    नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥१२॥

    അല്ല, ഇല്ല (നിഷേധാവ്യയം)

  156. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    അല്ല, ഇല്ല (നിഷേധാവ്യയം)

  157. Stanzas on the Divine Pulsation 3.15
    स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥१५॥

    അല്ല, ഇല്ല (നിഷേധാവ്യയം)

  158. The Essence of the Tantra 20.32
    भग्रहयोगे च न वेला प्रधानम्

    അല്ല

  159. Vijñāna Bhairava Tantra 1.2
    अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥२॥

    ഇല്ല (നിഷേധാർത്ഥ അവ്യയം)

  160. Vijñāna Bhairava Tantra 1.14
    न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते । केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने ॥१४॥

    ഇല്ല (നിഷേധാർത്ഥ അവ്യയം)