Lemma

Lemma

api

ਵੀ, ਵੀ ਉਵੇਂ

114 verses



Morphology

indecl.particleptcl.
  1. Verses on the Recognition of the Lord 1.1
    कथं चिद् आसाद्य महेश्वरस्य दास्यं जनस्याप्य् उपकारम् इच्छन् समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयामि ॥१॥

    ਵੀ, ਵੀ ਉਵੇਂ

  2. Verses on the Recognition of the Lord 1.3
    किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥३॥

    ਵੀ, ਭਾਵੇਂ

  3. Verses on the Recognition of the Lord 1.5
    तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥५॥

    ਵੀ, ਵੀ ਉਵੇਂ

  4. Verses on the Recognition of the Lord 2.1
    ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥१॥

    ਵੀ, ਇਸ ਤੋਂ ਵੱਧ

  5. Verses on the Recognition of the Lord 2.2
    नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥२॥

    ਵੀ, ਨਿਸ਼ਚੇ ਹੀ

  6. Verses on the Recognition of the Lord 2.4
    सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥४॥

    ਵੀ, ਭਾਵੇਂ

  7. Verses on the Recognition of the Lord 2.9
    क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥९॥

    ਵੀ

  8. Verses on the Recognition of the Lord 2.11
    द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् पारतन्त्र्याद्ययोगाच् च तेन कर्तापि कल्पितः ॥११॥

    ਵੀ, ਵੀ ਉਵੇਂ

  9. Verses on the Recognition of the Lord 3.1
    सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् ॥१॥

    ਭਾਵੇਂ

  10. Verses on the Recognition of the Lord 3.3
    अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥३॥

    ਵੀ

  11. Verses on the Recognition of the Lord 4.1
    स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥१॥

    ਵੀ

  12. Verses on the Recognition of the Lord 4.5
    योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा ॥५॥

    ਵੀ

  13. Verses on the Recognition of the Lord 4.6
    स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः ॥६॥

    ਵੀ, ਭਾਵੇਂ

  14. Verses on the Recognition of the Lord 4.7
    या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥७॥

    ਵੀ

  15. Verses on the Recognition of the Lord 4.8
    तन् मया दृश्यते दृष्टो ऽयं स इत्य् आमृशत्य् अपि ग्राह्यग्राहकताभिन्नाव् अर्थौ भातः पमातरि ॥८॥

    ਵੀ, ਭਾਵੇਂ

  16. Verses on the Recognition of the Lord 5.5
    न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥

    ਵੀ

  17. Verses on the Recognition of the Lord 5.11
    स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा प्रकाशो ऽर्थोपरक्तो ऽपि स्फटिकादिजडोपमः ॥११॥

    ਵੀ

  18. Verses on the Recognition of the Lord 5.19
    साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥१९॥

    ਵੀ

  19. Verses on the Recognition of the Lord 6.1
    अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥

    ਭਾਵੇਂ

  20. Verses on the Recognition of the Lord 6.7
    तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥७॥

    ਵੀ

  21. Verses on the Recognition of the Lord 7.6
    बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनाम् ज्ञानानाम् उदियाद् एकप्रमातृपरिनिष्ठितेः ॥६॥

    ਵੀ

  22. Verses on the Recognition of the Lord 7.8
    नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥८॥

    ਵੀ

  23. Verses on the Recognition of the Lord 7.11
    पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥

    ਵੀ

  24. Verses on the Recognition of the Lord 7.13
    धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥१३॥

    ਵੀ, ਇਸ ਤੋਂ ਅੱਗੇ

  25. Verses on the Recognition of the Lord 8.3
    सुखादिषु च सौख्यादिहेतुष्व् अपि च वस्तुषु अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः ॥३॥

    ਵੀ

  26. Verses on the Recognition of the Lord 8.6
    आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥६॥

    ਵੀ

  27. Verses on the Recognition of the Lord 8.7
    चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥७॥

    ਵੀ

  28. Verses on the Recognition of the Lord 9.4
    क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥४॥

    ਵੀ, ਨਾਲ ਹੀ

  29. Verses on the Recognition of the Lord 9.5
    मूर्तिवैचित्र्यतो देशक्रमम् आभासयत्य् असौ क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः ॥५॥

    ਵੀ

  30. Verses on the Recognition of the Lord 9.6
    सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥६॥

    ਵੀ

  31. Verses on the Recognition of the Lord 9.7
    देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु ॥७॥

    ਵੀ

  32. Verses on the Recognition of the Lord 10.5
    जातिद्रव्यावभासानाम् बहिर् अप्य् एकरूपताम् व्यक्त्येकदेशभेदं चाप्य् आलम्बन्ते विकल्पनाः ॥५॥

    ਵੀ

  33. Verses on the Recognition of the Lord 11.3
    यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते ॥३॥

    ਵੀ

  34. Verses on the Recognition of the Lord 11.9
    सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥९॥

    ਵੀ

  35. Verses on the Recognition of the Lord 11.11
    भिन्नावभासच्छायानाम् अपि मुख्यावभासतः एकप्रत्यवमर्शाख्याद् एकत्वम् अनिवारितम् ॥११॥

    ਵੀ

  36. Verses on the Recognition of the Lord 11.12
    अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥

    ਵੀ

  37. Verses on the Recognition of the Lord 11.13
    रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥१३॥

    ਵੀ

  38. Verses on the Recognition of the Lord 12.3
    यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता सतो ऽपि न पुनः सत्तालाभेनार्थो ऽथ चोच्यते ॥३॥

    ਵੀ

  39. Verses on the Recognition of the Lord 12.8
    अत एवाङ्कुरे ऽपीष्टो निमित्तं परमेश्वरः तद् अन्यस्यापि बीजादेर् हेतुता नोपपद्यते ॥८॥

    ਵੀ

  40. Verses on the Recognition of the Lord 12.10
    योगिनाम् अपि मृद्बीजे विनैवेच्छावशेन तत् घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥१०॥

    ਵੀ

  41. Verses on the Recognition of the Lord 12.12
    भूयस् तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् ॥१२॥

    ਵੀ

  42. Verses on the Recognition of the Lord 12.14
    अस्मिन् सतीदम् अस्तीति कार्यकारणतापि या साप्य् अपेक्षाविहीनानां जाडानां नोपपद्यते ॥१४॥

    ਵੀ

  43. Verses on the Recognition of the Lord 12.15
    न हि स्वात्मैकनिष्ठानाम् अनुसन्धानवर्जिनाम् सदसत्तापदे ऽप्य् एष सप्तम्यर्थः प्रकल्प्यते ॥१५॥

    ਵੀ

  44. Verses on the Recognition of the Lord 12.17
    परस्परस्वभावत्वे कार्यकारणयोर् अपि एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता ॥१७॥

    ਵੀ

  45. Verses on the Recognition of the Lord 12.20
    वास्तवे ऽपि चिदेकत्वे न स्याद् आभासभिन्नयोः चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया ॥२०॥

    ਵੀ

  46. Verses on the Recognition of the Lord 13.6
    भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥६॥

    ਵੀ

  47. Verses on the Recognition of the Lord 14.4
    स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता द्विधाणवं मलम् इदं स्वस्वरूपापहानितः ॥४॥

    ਵੀ, ਅਤੇ

  48. Verses on the Recognition of the Lord 14.6
    शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥६॥

    ਵੀ

  49. Verses on the Recognition of the Lord 14.7
    बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥७॥

    ਵੀ

  50. Verses on the Recognition of the Lord 14.8
    शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥८॥

    ਵੀ

  51. Verses on the Recognition of the Lord 14.9
    बोधानाम् अपि कर्तृत्वजुषां कार्ममलक्षतौ भिन्नवेद्यजुषां मायामलो विद्येश्वराश् च ते ॥९॥

    ਵੀ

  52. Verses on the Recognition of the Lord 14.16
    मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥१६॥

    ਵੀ

  53. Verses on the Recognition of the Lord 15.6
    सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोह् द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥६॥

    ਵੀ

  54. Verses on the Recognition of the Lord 15.7
    ये ऽप्य् असामयिकेदन्तापरामर्शभुवः प्रभोः ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥७॥

    ਵੀ, ਨਾਲ ਹੀ

  55. Verses on the Recognition of the Lord 15.9
    तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी सैषाप्य् अज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥९॥

    ਵੀ

  56. Verses on the Recognition of the Lord 15.12
    सर्वो ममायं विभव इत्येवं परिजानतः विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता ॥१२॥

    ਵੀ

  57. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    ਵੀ

  58. Karpūrādi Stotra 1.2
    ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनमपि च चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे ॥ २॥

    ਵੀ

  59. Karpūrādi Stotra 1.3
    ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति । द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ॥ ३॥

    ਵੀ

  60. Karpūrādi Stotra 1.6
    प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥

    ਵੀ

  61. Karpūrādi Stotra 1.7
    गतासूनां बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनाम् । श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७॥

    ਵੀ

  62. Karpūrādi Stotra 1.8
    शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥

    ਵੀ

  63. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    ਵੀ

  64. Karpūrādi Stotra 1.12
    प्रसूते संसारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च । अतस्त्वं धात्रीसि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥

    ਵੀ

  65. Karpūrādi Stotra 1.14
    धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलम् । प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः ॥ १४॥

    ਵੀ

  66. Karpūrādi Stotra 1.15
    श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥

    ਵੀ

  67. Karpūrādi Stotra 1.16
    गृहे सम्मार्ज्यन्या परिगलितवीर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने । समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥

    ਵੀ

  68. Karpūrādi Stotra 1.17
    स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् । स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी- नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥

    ਵੀ

  69. Karpūrādi Stotra 1.18
    त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥

    ਵੀ

  70. Karpūrādi Stotra 1.19
    सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मैषं नरमहिषयोश्छागमपि वा । बलिं ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥

    ਵੀ

  71. Karpūrādi Stotra 1.21
    इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥

    ਵੀ

  72. Karpūrādi Stotra 1.22
    कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥

    ਵੀ

  73. The Great Liberation Tantra 1.14
    श्रीसदाशिव उवाच । किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे । यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥ १४ ॥

    ਵੀ

  74. The Great Liberation Tantra 1.15
    तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् । किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥

    ਵੀ

  75. The Great Liberation Tantra 1.27
    भूमयः सर्वशस्याढ्याः पर्ज्जन्याः कालवर्षिणः । गावोऽपि दुग्धसम्पन्नाः पादपाः फलशालिनः ॥ २७ ॥

    ਵੀ

  76. The Great Liberation Tantra 1.35
    ततोऽपि द्वापरे प्राप्ते स्मृत्युक्तसुकृतोज्झिते । धमार्द्धलोपे मनुजे आधिव्याधिसमाकुले । संहिताद्युपदेशेन त्वयैवोद्धारिता नराः ॥ ३५ ॥

    ਵੀ

  77. The Great Liberation Tantra 1.51
    बद्धपद्मासनादीनि गदितान्यपि भूरिशः । पशुवीरदिव्यभावा देवता मन्त्रसिद्धिदाः ॥ ५१ ॥

    ਵੀ

  78. The Great Liberation Tantra 1.62
    ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि । पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥ ६२ ॥

    ਵੀ

  79. The Great Liberation Tantra 1.63
    केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि । केचिन्मौना मृतप्राया अपरे बहुजल्पकाः ॥ ६३ ॥

    ਵੀ

  80. The Great Liberation Tantra 2.12
    अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् । निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥

    ਵੀ

  81. The Great Liberation Tantra 2.23
    जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि । देवा नानाविधाः प्रोक्ता देव्योऽपि बहुधाः प्रिये ॥ २३ ॥

    ਵੀ

  82. The Great Liberation Tantra 2.44
    यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् । वर्षन्ति तोयदाः काले पुष्पन्ति तरवो वने ॥ ४४ ॥

    ਵੀ

  83. The Great Liberation Tantra 3.31
    मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः । शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥

    ਵੀ

  84. The Great Liberation Tantra 3.80
    गङ्गातोये शिलादौ च स्पृष्टदोषोऽपि वर्तते । परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टं न विद्यते ॥ ८० ॥

    ਵੀ

  85. The Great Liberation Tantra 3.91
    यदि स्यान्नीचजातीयमन्नं ब्रह्मणि भावितम् । तदन्नं ब्राह्मणैर्ग्राह्यमपि वेदान्तपारगैः ॥ ९१ ॥

    ਵੀ

  86. The Great Liberation Tantra 3.127
    विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न । स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥

    ਵੀ

  87. Parātrīśikā 1.13
    अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि । प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् ॥१३॥

    ਵੀ, ਵੀ-ਭੀ

  88. Parātrīśikā 1.27
    न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् । एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् ॥२७॥

    ਵੀ, ਭੀ

  89. The Heart of Recognition 1.4
    चितिसंकोचात्मा चेतनोऽपि सङ्कुचितविश्वमयः ॥४॥

    ਵੀ, ਭੀ

  90. The Heart of Recognition 1.14
    चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति ॥१४॥

    ਦੇ ਬਾਵਜੂਦ

  91. The Heart of Recognition 1.16
    चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥१६॥

    ਫਿਰ ਵੀ, ਉਦੋਂ ਵੀ

  92. Śiva Sūtras 3.32
    तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥३२॥

    ਵੀ

  93. The Vision of Śiva 1.5
    न परं तदवस्थायां व्यवस्थैषा व्यवस्थिता । यावत्समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि ॥५॥

    ਵੀ

  94. The Vision of Śiva 1.24
    घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥

    ਵੀ

  95. The Vision of Śiva 1.49
    एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥

    ਵੀ

  96. The Vision of Śiva 2.13
    इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥१३॥

    ਵੀ

  97. The Vision of Śiva 2.21
    यद्याभासान्बहिर्भूतांस्तत्सतोऽप्यसतोऽपि वा ॥२१॥

    ਵੀ

  98. The Vision of Śiva 2.23
    सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥२३॥

    ਵੀ

  99. The Vision of Śiva 2.29
    स्वधर्मत्वेऽस्या मालिन्यं परधर्मेऽपि कस्य सा । परस्य शास्त्रानिष्टस्य स्वतन्त्रा वा तथापि सा ॥२९॥

    ਵੀ

  100. The Vision of Śiva 2.33
    नचानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥३३॥

    ਵੀ

  101. The Vision of Śiva 4.71
    विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि । मुखे हि शब्दो भूमौ च विद्यतेऽर्थः क्व संगमः ॥७१॥

    ਵੀ

  102. The Vision of Śiva 4.80
    वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः । इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥८०॥

    ਵੀ

  103. The Vision of Śiva 4.92
    तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥

    ਵੀ

  104. The Vision of Śiva 4.94
    स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥९४॥

    ਵੀ

  105. The Vision of Śiva 4.114
    चैतन्येनाप्यमूर्तेन मिश्रतान्यस्य कीदृशी । किं स्वयं तत्प्रमेयत्वमस्य चेदतिरेकतः ॥११४॥

    ਵੀ

  106. The Vision of Śiva 5.99
    सर्वज्ञत्वादशेषस्य तदहर्जातदारके । क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥९९॥

    ਵੀ

  107. The Vision of Śiva 6.99
    व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् । परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥९९॥

    ਵੀ

  108. The Vision of Śiva 7.86
    अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते । संकल्पाञ्जनयन्नस्मि स्थितः शब्दानतो मुखे ॥८६॥

    ਵੀ

  109. Stanzas on the Divine Pulsation 1.3
    जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥३॥

    ਵੀ, ਭਾਵੇਂ (ਅਵ੍ਯ.)

  110. Stanzas on the Divine Pulsation 1.5
    न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥

    ਵੀ, ਭਾਵੇਂ (ਅਵ੍ਯ.)

  111. Stanzas on the Divine Pulsation 3.2
    तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥२॥

    ਵੀ, ਭਾਵੇਂ (ਅਵ੍ਯ.)

  112. Stanzas on the Divine Pulsation 3.4
    यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥४॥

    ਵੀ, ਭਾਵੇਂ (ਅਵ੍ਯ.)

  113. Stanzas on the Divine Pulsation 3.6
    दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥६॥

    ਵੀ, ਭਾਵੇਂ (ਅਵ੍ਯ.)

  114. Vijñāna Bhairava Tantra 1.55
    सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः । न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः ॥५५॥

    ਵੀ