Lemma
api
also, as well
Morphology
indecl.particleptcl.
Occurrences
Read in context →- Verses on the Recognition of the Lord 1.1कथं चिद् आसाद्य महेश्वरस्य दास्यं जनस्याप्य् उपकारम् इच्छन् समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयामि ॥१॥
also, as well
- Verses on the Recognition of the Lord 1.3किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥३॥
even, although
- Verses on the Recognition of the Lord 1.5तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥५॥
also, even
- Verses on the Recognition of the Lord 2.1ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥१॥
even, moreover
- Verses on the Recognition of the Lord 2.2नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥२॥
moreover, indeed
- Verses on the Recognition of the Lord 2.4सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥४॥
even
- Verses on the Recognition of the Lord 2.9क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥९॥
also
- Verses on the Recognition of the Lord 2.11द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् पारतन्त्र्याद्ययोगाच् च तेन कर्तापि कल्पितः ॥११॥
too, also
- Verses on the Recognition of the Lord 3.1सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् ॥१॥
although
- Verses on the Recognition of the Lord 3.3अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥३॥
even
- Verses on the Recognition of the Lord 4.1स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥१॥
even
- Verses on the Recognition of the Lord 4.5योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा ॥५॥
even
- Verses on the Recognition of the Lord 4.6स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः ॥६॥
even, although
- Verses on the Recognition of the Lord 4.7या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥७॥
also
- Verses on the Recognition of the Lord 4.8तन् मया दृश्यते दृष्टो ऽयं स इत्य् आमृशत्य् अपि ग्राह्यग्राहकताभिन्नाव् अर्थौ भातः पमातरि ॥८॥
also, even
- Verses on the Recognition of the Lord 5.5न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥
also
- Verses on the Recognition of the Lord 5.11स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा प्रकाशो ऽर्थोपरक्तो ऽपि स्फटिकादिजडोपमः ॥११॥
even
- Verses on the Recognition of the Lord 5.19साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥१९॥
even
- Verses on the Recognition of the Lord 6.1अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥
although
- Verses on the Recognition of the Lord 6.7तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥७॥
even
- Verses on the Recognition of the Lord 7.6बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनाम् ज्ञानानाम् उदियाद् एकप्रमातृपरिनिष्ठितेः ॥६॥
also
- Verses on the Recognition of the Lord 7.8नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥८॥
even
- Verses on the Recognition of the Lord 7.11पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥
even
- Verses on the Recognition of the Lord 7.13धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥१३॥
also, moreover
- Verses on the Recognition of the Lord 8.3सुखादिषु च सौख्यादिहेतुष्व् अपि च वस्तुषु अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः ॥३॥
even
- Verses on the Recognition of the Lord 8.6आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥६॥
even, also
- Verses on the Recognition of the Lord 8.7चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥७॥
also
- Verses on the Recognition of the Lord 9.4क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥४॥
moreover
- Verses on the Recognition of the Lord 9.5मूर्तिवैचित्र्यतो देशक्रमम् आभासयत्य् असौ क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः ॥५॥
also
- Verses on the Recognition of the Lord 9.6सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥६॥
even
- Verses on the Recognition of the Lord 9.7देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु ॥७॥
too
- Verses on the Recognition of the Lord 10.5जातिद्रव्यावभासानाम् बहिर् अप्य् एकरूपताम् व्यक्त्येकदेशभेदं चाप्य् आलम्बन्ते विकल्पनाः ॥५॥
even
- Verses on the Recognition of the Lord 11.3यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते ॥३॥
even
- Verses on the Recognition of the Lord 11.9सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥९॥
even
- Verses on the Recognition of the Lord 11.11भिन्नावभासच्छायानाम् अपि मुख्यावभासतः एकप्रत्यवमर्शाख्याद् एकत्वम् अनिवारितम् ॥११॥
even
- Verses on the Recognition of the Lord 11.12अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥
too
- Verses on the Recognition of the Lord 11.13रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥१३॥
even
- Verses on the Recognition of the Lord 12.3यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता सतो ऽपि न पुनः सत्तालाभेनार्थो ऽथ चोच्यते ॥३॥
even
- Verses on the Recognition of the Lord 12.8अत एवाङ्कुरे ऽपीष्टो निमित्तं परमेश्वरः तद् अन्यस्यापि बीजादेर् हेतुता नोपपद्यते ॥८॥
even
- Verses on the Recognition of the Lord 12.10योगिनाम् अपि मृद्बीजे विनैवेच्छावशेन तत् घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥१०॥
even
- Verses on the Recognition of the Lord 12.12भूयस् तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् ॥१२॥
even
- Verses on the Recognition of the Lord 12.14अस्मिन् सतीदम् अस्तीति कार्यकारणतापि या साप्य् अपेक्षाविहीनानां जाडानां नोपपद्यते ॥१४॥
too
- Verses on the Recognition of the Lord 12.15न हि स्वात्मैकनिष्ठानाम् अनुसन्धानवर्जिनाम् सदसत्तापदे ऽप्य् एष सप्तम्यर्थः प्रकल्प्यते ॥१५॥
even
- Verses on the Recognition of the Lord 12.17परस्परस्वभावत्वे कार्यकारणयोर् अपि एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता ॥१७॥
even
- Verses on the Recognition of the Lord 12.20वास्तवे ऽपि चिदेकत्वे न स्याद् आभासभिन्नयोः चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया ॥२०॥
even
- Verses on the Recognition of the Lord 13.6भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥६॥
even
- Verses on the Recognition of the Lord 14.4स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता द्विधाणवं मलम् इदं स्वस्वरूपापहानितः ॥४॥
also, and
- Verses on the Recognition of the Lord 14.6शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥६॥
even
- Verses on the Recognition of the Lord 14.7बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥७॥
even
- Verses on the Recognition of the Lord 14.8शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥८॥
also
- Verses on the Recognition of the Lord 14.9बोधानाम् अपि कर्तृत्वजुषां कार्ममलक्षतौ भिन्नवेद्यजुषां मायामलो विद्येश्वराश् च ते ॥९॥
even
- Verses on the Recognition of the Lord 14.16मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥१६॥
even
- Verses on the Recognition of the Lord 15.6सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोह् द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥६॥
also
- Verses on the Recognition of the Lord 15.7ये ऽप्य् असामयिकेदन्तापरामर्शभुवः प्रभोः ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥७॥
even, also
- Verses on the Recognition of the Lord 15.9तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी सैषाप्य् अज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥९॥
too
- Verses on the Recognition of the Lord 15.12सर्वो ममायं विभव इत्येवं परिजानतः विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता ॥१२॥
even
- Verses on the Recognition of the Lord 15.17तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥
even
- Karpūrādi Stotra 1.2ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनमपि च चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे ॥ २॥
also
- Karpūrādi Stotra 1.3ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति । द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ॥ ३॥
even
- Karpūrādi Stotra 1.6प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥
also
- Karpūrādi Stotra 1.7गतासूनां बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनाम् । श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७॥
even
- Karpūrādi Stotra 1.8शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥
even
- Karpūrādi Stotra 1.9वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥
even
- Karpūrādi Stotra 1.12प्रसूते संसारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च । अतस्त्वं धात्रीसि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥
also
- Karpūrādi Stotra 1.14धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलम् । प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः ॥ १४॥
also
- Karpūrādi Stotra 1.15श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥
even
- Karpūrādi Stotra 1.16गृहे सम्मार्ज्यन्या परिगलितवीर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने । समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥
even
- Karpūrādi Stotra 1.17स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् । स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी- नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥
even
- Karpūrādi Stotra 1.18त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥
also
- Karpūrādi Stotra 1.19सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मैषं नरमहिषयोश्छागमपि वा । बलिं ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥
also
- Karpūrādi Stotra 1.21इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥
even
- Karpūrādi Stotra 1.22कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥
even
- The Great Liberation Tantra 1.14श्रीसदाशिव उवाच । किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे । यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥ १४ ॥
even
- The Great Liberation Tantra 1.15तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् । किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥
even
- The Great Liberation Tantra 1.27भूमयः सर्वशस्याढ्याः पर्ज्जन्याः कालवर्षिणः । गावोऽपि दुग्धसम्पन्नाः पादपाः फलशालिनः ॥ २७ ॥
too
- The Great Liberation Tantra 1.35ततोऽपि द्वापरे प्राप्ते स्मृत्युक्तसुकृतोज्झिते । धमार्द्धलोपे मनुजे आधिव्याधिसमाकुले । संहिताद्युपदेशेन त्वयैवोद्धारिता नराः ॥ ३५ ॥
also
- The Great Liberation Tantra 1.51बद्धपद्मासनादीनि गदितान्यपि भूरिशः । पशुवीरदिव्यभावा देवता मन्त्रसिद्धिदाः ॥ ५१ ॥
also
- The Great Liberation Tantra 1.62ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि । पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥ ६२ ॥
even
- The Great Liberation Tantra 1.63केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि । केचिन्मौना मृतप्राया अपरे बहुजल्पकाः ॥ ६३ ॥
even
- The Great Liberation Tantra 2.12अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् । निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥
even
- The Great Liberation Tantra 2.23जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि । देवा नानाविधाः प्रोक्ता देव्योऽपि बहुधाः प्रिये ॥ २३ ॥
also
- The Great Liberation Tantra 2.44यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् । वर्षन्ति तोयदाः काले पुष्पन्ति तरवो वने ॥ ४४ ॥
even
- The Great Liberation Tantra 3.31मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः । शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥
even
- The Great Liberation Tantra 3.80गङ्गातोये शिलादौ च स्पृष्टदोषोऽपि वर्तते । परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टं न विद्यते ॥ ८० ॥
even
- The Great Liberation Tantra 3.91यदि स्यान्नीचजातीयमन्नं ब्रह्मणि भावितम् । तदन्नं ब्राह्मणैर्ग्राह्यमपि वेदान्तपारगैः ॥ ९१ ॥
even
- The Great Liberation Tantra 3.127विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न । स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥
even
- Parātrīśikā 1.13अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि । प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् ॥१३॥
even, also
- Parātrīśikā 1.27न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् । एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् ॥२७॥
also, even
- The Heart of Recognition 1.4चितिसंकोचात्मा चेतनोऽपि सङ्कुचितविश्वमयः ॥४॥
even, also
- The Heart of Recognition 1.14चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति ॥१४॥
even
- The Heart of Recognition 1.16चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥१६॥
even
- Śiva Sūtras 3.32तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥३२॥
even
- The Vision of Śiva 1.5न परं तदवस्थायां व्यवस्थैषा व्यवस्थिता । यावत्समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि ॥५॥
even
- The Vision of Śiva 1.24घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥
even
- The Vision of Śiva 1.49एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥
even
- The Vision of Śiva 2.13इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥१३॥
even
- The Vision of Śiva 2.21यद्याभासान्बहिर्भूतांस्तत्सतोऽप्यसतोऽपि वा ॥२१॥
even
- The Vision of Śiva 2.23सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥२३॥
even
- The Vision of Śiva 2.29स्वधर्मत्वेऽस्या मालिन्यं परधर्मेऽपि कस्य सा । परस्य शास्त्रानिष्टस्य स्वतन्त्रा वा तथापि सा ॥२९॥
even
- The Vision of Śiva 2.33नचानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥३३॥
even
- The Vision of Śiva 4.71विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि । मुखे हि शब्दो भूमौ च विद्यतेऽर्थः क्व संगमः ॥७१॥
even
- The Vision of Śiva 4.80वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः । इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥८०॥
too
- The Vision of Śiva 4.92तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥
also
- The Vision of Śiva 4.94स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥९४॥
even
- The Vision of Śiva 4.114चैतन्येनाप्यमूर्तेन मिश्रतान्यस्य कीदृशी । किं स्वयं तत्प्रमेयत्वमस्य चेदतिरेकतः ॥११४॥
even
- The Vision of Śiva 5.99सर्वज्ञत्वादशेषस्य तदहर्जातदारके । क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥९९॥
even
- The Vision of Śiva 6.99व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् । परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥९९॥
also
- The Vision of Śiva 7.86अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते । संकल्पाञ्जनयन्नस्मि स्थितः शब्दानतो मुखे ॥८६॥
too
- Stanzas on the Divine Pulsation 1.3जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥३॥
even, though
- Stanzas on the Divine Pulsation 1.5न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥
even
- Stanzas on the Divine Pulsation 3.2तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥२॥
also
- Stanzas on the Divine Pulsation 3.4यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥४॥
even
- Stanzas on the Divine Pulsation 3.6दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥६॥
even
- Vijñāna Bhairava Tantra 1.55सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः । न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः ॥५५॥
even