Lemma

Lemma

bhavet

उत्पन्न हो (विधि, √भू)

76 verses



Morphology

3 sg. opt.3 sg. opt. (√bhū)3sg. opt.3sg. opt. √bhūverb 3.sg.opt √bhū
  1. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    उत्पन्न हो (विधि, √भू)

  2. Verses on the Recognition of the Lord 7.12
    एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥१२॥

    हो (विधि, √भू)

  3. Verses on the Recognition of the Lord 7.13
    धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥१३॥

    हो (विधि, √भू)

  4. Verses on the Recognition of the Lord 8.2
    विशेषो ऽर्थावभासस्य सत्तायां न पुनः क्व चित् विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु ॥२॥

    हो (विधि, √भू)

  5. Verses on the Recognition of the Lord 9.6
    सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥६॥

    हो (विधि, √भू)

  6. Verses on the Recognition of the Lord 11.12
    अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥

    उत्पन्न हो (विधि, √भू)

  7. Verses on the Recognition of the Lord 12.12
    भूयस् तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् ॥१२॥

    उत्पन्न हो (विधि, √भू)

  8. The Great Liberation Tantra 1.53
    पशुभावदिव्यभावौ स्वयमेव निवारितौ । कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

    हो

  9. The Great Liberation Tantra 1.56
    कलिकल्मषयुक्तानां सर्वदाऽस्थिरचेतसाम् । निद्रालस्यप्रसक्तानां भावशुद्धिः कथं भवेत् ॥ ५६ ॥

    हो

  10. The Great Liberation Tantra 2.6
    मेध्यामेध्याविचाराणां न शुद्धिः श्रौतकर्मणा । न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां भवेत् ॥ ६ ॥

    हो

  11. The Great Liberation Tantra 2.12
    अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् । निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥

    होगा

  12. The Great Liberation Tantra 2.13
    मूढो मन्मतमुत्सृज्य योऽन्यन्मतमुपाश्रयेत् । ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः ॥ १३ ॥

    हो जाता है

  13. The Great Liberation Tantra 2.31
    किं वेदैः किं पुराणैश्च किं शास्त्रैर्बहुभिः शिवे । विज्ञातेऽस्मिन् महातन्त्रे सर्वसिद्धीश्वरो भवेत् ॥ ३१ ॥

    हो

  14. The Great Liberation Tantra 2.32
    यतो जगन्मङ्गलाय त्वयाऽहं विनियोजितः । अतस्ते कथयिष्यामि यद्विश्वहितकृद्भवेत् ॥ ३२ ॥

    हो

  15. The Great Liberation Tantra 2.47
    तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् । तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ ४७ ॥

    होती है

  16. The Great Liberation Tantra 3.13
    सन्धिक्रमेण मिलितः सप्तार्णोऽयं मनुर्मतः । तारहीनेन देवेशि षड्वर्णोऽयं मनुर्भवेत् ॥ १३ ॥

    हो

  17. The Great Liberation Tantra 3.24
    मन्त्रग्रहणमात्रेण देही ब्रह्ममयो भवेत् । ब्रह्मभूतस्य देवेशि किमवाप्यं जगत्त्रये ॥ २४ ॥

    हो

  18. The Great Liberation Tantra 3.38
    तारेण तारहीनेन प्रत्येकं सकलं पदम् । युग्मयुग्मक्रमेणाऽपि मन्त्रोऽयं विविधो भवेत् ॥ ३८ ॥

    हो

  19. The Great Liberation Tantra 3.70
    यः पठेद् ब्रह्मकवचं ऋषिन्यासपुरःसरम् । स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ॥ ७० ॥

    हो

  20. The Great Liberation Tantra 3.71
    भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेत् यदि । कण्ठे वा दक्षिणे बाहो सर्वसिद्धीश्वरो भवेत् ॥ ७१ ॥

    हो

  21. The Great Liberation Tantra 3.85
    किं पुनर्मनुजादीनां वक्तव्यं देववन्दिते । परमेशस्य नैवेद्यसेवनाद् यत् फलं भवेत् ॥ ८५ ॥

    हो

  22. The Great Liberation Tantra 3.92
    जातिभेदो न कर्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥

    हो

  23. The Great Liberation Tantra 3.108
    एषा सन्ध्या मया प्रोक्ता सर्वथा ब्रह्मसाधने । यदनुष्ठानतो मन्त्री शुद्धान्तःकरणो भवेत् ॥ १०८ ॥

    हो

  24. The Great Liberation Tantra 3.118
    विना चौरगणेशादिजपञ्च कुल्लुकां विना । अकस्मात् परमब्रह्मसाक्षात्कारो भवेद् ध्रुवम् ॥ ११८ ॥

    हो

  25. The Great Liberation Tantra 3.139
    मन्त्रग्रहणमात्रेण तदात्मा तन्मयो भवेत् । ब्रह्मभूतस्य देवेशि किमन्यैर्बहुसाधनैः ॥ १३९ ॥

    हो

  26. The Vision of Śiva 2.17
    विहाय शास्त्ररचना जातुचिन्न विराजते । पाण्यादीन्द्रियवन्नैतद्ब्रह्म वागिन्द्रियं भवेत् ॥१७॥

    हो सके

  27. The Vision of Śiva 2.18
    अथोच्यते प्रकिर्यासौ सांख्यादिरचिता न सा । तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥१८॥

    होगी

  28. The Vision of Śiva 2.28
    अविद्यास्याः स्वधर्मः किं परधर्मोऽथवा भवेत् ॥२८॥

    होगी

  29. The Vision of Śiva 2.36
    सिन्धुशब्दादिवच्छब्दो न पश्यन्त्यादितो भवेत् ॥३६॥

    हो सके

  30. The Vision of Śiva 2.58
    स्फोट एव हि पश्यन्ती तदन्या वा द्वयं भवेत् । तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥५८॥

    होगा

  31. The Vision of Śiva 2.83
    पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ । न तद्द्रष्टव्यमित्येतद्विमर्शः पूर्वतो भवेत् ॥८३॥

    होगा

  32. The Vision of Śiva 3.27
    तदभावाद्देवगुरुशास्त्रोच्छेदो भवेत्तराम् । निरर्थकत्वं शास्त्रस्य करणे तन्निरूपणे ॥२७॥

    होगा

  33. The Vision of Śiva 3.30
    पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥३०॥

    होगा

  34. The Vision of Śiva 3.43
    क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् । एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥४३॥

    होगा

  35. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    हो

  36. The Vision of Śiva 3.90
    यत्रात्मानुभवानिष्ठा तत्रेच्छा च न किं भवेत् ॥९०॥

    होगी

  37. The Vision of Śiva 4.4
    नृपादिसाधनापेक्षा स्वकर्मफलता भवेत् । सर्वः शक्तोऽपि सापेक्ष ईशवन्मोहसाम्ययोः ॥४॥

    होगा

  38. The Vision of Śiva 4.15
    मिथ्यात्वं क्रियते कस्य किं काले यत्र तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥१५॥

    हो

  39. The Vision of Śiva 4.17
    अथानुभवगा बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥१७॥

    हो सके

  40. The Vision of Śiva 4.74
    शब्देन चेत्तदेवं हि सर्वसंसारनाशता । असत्यव्यवहारेण तादृगेव जगद्भवेत् ॥७४॥

    हो जाएगा

  41. The Vision of Śiva 4.86
    सादृश्यादथ चेन्नास्ति याथात्म्येन समागमः । नच वात्रानुमानत्वं धूमतः केवलाद्भवेत् ॥८६॥

    होगा

  42. The Vision of Śiva 4.89
    यावन्न वह्निकलना न योगकलना भवेत् । यावद्वा योगकलना न वह्निकलनाक्षमा ॥८९॥

    होगा

  43. The Vision of Śiva 4.101
    नचापि भेदे भावानां ग्रहणं ज्ञानमेव वा । संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥१०१॥

    हो

  44. The Vision of Śiva 4.109
    एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥१०९॥

    होगा

  45. The Vision of Śiva 5.8
    स्वल्पतेजसि दार्ढ्याद्वा सर्वत्र शिवतुल्यता । भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥८॥

    होगी

  46. The Vision of Śiva 5.14
    चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडो भवेत् ॥१४॥

    हो सके

  47. The Vision of Śiva 5.23
    नान्यथा ग्रहणं तेषां देवदत्तेन चेद्भवेत् । देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥२३॥

    हो

  48. The Vision of Śiva 5.25
    आत्मनो व्यापकत्वेन शरीरे व्यर्थता भवेत् । जडत्वादथवा शक्तस्तच्छक्त्या तद्घटो घवेत् ॥२५॥

    होगी

  49. The Vision of Śiva 5.32
    तदात्मन्यपरोक्षत्वे भवेदाप्तवचः स्फुटम् । ये विकल्पाः शक्तिगतास्तेऽप्यायान्ति मनः प्रति ॥३२॥

    होगा

  50. The Vision of Śiva 5.48
    तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् । धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥४८॥

    हो जाता

  51. The Vision of Śiva 5.49
    तद्बुध्नावयवैर्वाथ तेऽपि यान्त्यूर्ध्वतां क्षणात् । बुध्नस्तैर्नच सम्बद्धः कदाचिच्चक्षुषो भवेत् ॥४९॥

    हो सके

  52. The Vision of Śiva 5.50
    सम्बन्धो ग्रहकाले तु नचोर्ध्वावयवैर्भवेत् । वह्नेर्दूरतरस्थित्या वह्निश्लिष्टेष्वलक्ष्यता ॥५०॥

    होगा

  53. The Vision of Śiva 5.77
    व्यापकत्वाच्छिवत्वस्य सर्वज्ञत्वाद्भवेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥७७॥

    होगा

  54. The Vision of Śiva 6.4
    यत्र ब्रह्मोच्यते चित्रं कैश्चिद्वेदान्तवादिभिः । एकस्य चित्रता केन हेतुना ब्रह्मणो भवेत् ॥४॥

    हो

  55. The Vision of Śiva 6.31
    अव्याप्तिरन्तःकृत्यादेर्भवेत्षड्धामवादिनाम् । तत्र चित्पक्षपातश्चेत् प्राप्नुयात् सततं ग्रहः ॥३१॥

    होगी

  56. The Vision of Śiva 6.35
    कर्तृत्वे ज्ञप्तिमात्रत्वे आकांक्षा करणे भवेत् । द्विरूपत्वे विरुद्धत्वसंक्रमत्वं प्रवर्तते ॥३५॥

    होगी

  57. The Vision of Śiva 6.40
    नच शुद्धस्य बाह्यार्थाभासता चेदविद्यया । वासनारूपया शुद्धे नाशुद्धा वासना भवेत् ॥४०॥

    हो सके

  58. The Vision of Śiva 6.68
    किं वा नाश्यं न मृत्पिण्डं घटस्य जनकं भवेत् । तदनाशे न किंचित्स्याद्घट एव न जायते ॥६८॥

    हो सके

  59. The Vision of Śiva 6.81
    तस्याप्यवस्तुरूपत्वे न किंचित्कथितं भवेत् । एतावान् वाच्यसम्बन्धो यदन्तःस्फुरणात्मता ॥८१॥

    होगा

  60. The Vision of Śiva 6.99
    व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् । परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥९९॥

    उत्पन्न हो जाएगी

  61. The Vision of Śiva 6.105
    तद्बाधे न परव्याप्तिर्न वाव्याप्तेस्तदात्मता । मोक्षेऽपि शिवबाहुल्यान्नानानायकता भवेत् ॥१०५॥

    उत्पन्न हो जाएगी

  62. The Vision of Śiva 6.107
    तथा पञ्चविधेकृत्ये नानात्वादक्रिया भवेत् । यानन्यसदृशी भूमिः सा परा प्रान्तभूमिका ॥१०७॥

    उत्पन्न हो जाएगी

  63. The Vision of Śiva 7.4
    चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् । तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥४॥

    होगा

  64. The Vision of Śiva 7.30
    क्रियाशक्तिपरात्मत्वे क्वचित्पिण्डशिवात्मता । क्वचिदन्तःकृतौ ज्ञानाद्भवेत्पदशिवात्मता ॥३०॥

    हो जाती है

  65. The Vision of Śiva 7.53
    सर्वत्रानुभवावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥५३॥

    हो जाए

  66. The Vision of Śiva 7.73
    व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत् । विद्रुतं करभारूढं विश्वमुचाटितं भवेत् ॥७३॥

    हो जाएगा

  67. The Vision of Śiva 7.75
    व्याप्तिदार्ढ्ये नक्तमेकं चन्द्रं वात्मानमुत्थितम् । विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत् ॥७५॥

    हो जाएगा

  68. The Vision of Śiva 7.76
    चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु । अविनाश्येकपिण्डे वा स भवेदजरामरः ॥७६॥

    हो जाएगा

  69. The Vision of Śiva 7.104
    स्थिते शिवत्वे बद्धास्थो भवेत् सर्वगतः शिवः । मन्तव्ये चाभिमातव्ये बोद्धव्ये धृतिसंगमात् ॥१०४॥

    हो जाएगा

  70. Stanzas on the Divine Pulsation 1.8
    न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥८॥

    हो जाए, हो सकता है (विधिलिङ्ग, तृ.पु.एक. √भू)

  71. Stanzas on the Divine Pulsation 3.19
    यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥

    हो जाए, हो सकता है (विधिलिङ्ग, तृ.पु.एक. √भू)

  72. Vijñāna Bhairava Tantra 1.6
    न हि वर्णविभेदेन देहभेदेन वा भवेत् । परत्वं निष्कलत्वेन सकलत्वे न तद्भवेत् ॥६॥

    हो सकता है (विधि लिङ्)

  73. Vijñāna Bhairava Tantra 1.27
    शिखिपक्षैश्चित्ररूपैर्मण्डलैः शून्यपञ्चकम् । ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥२७॥

    हो जाए (विधि लिङ्)

  74. Vijñāna Bhairava Tantra 1.102
    मन्त्रार्थप्रोक्तरूपाणि अधिकारिविशेषतः । तानि साधयते कश्चित्साधयन्साधको भवेत् ॥१०२॥

    हो जाता है — विधिलिङ्, √भू

  75. Vijñāna Bhairava Tantra 1.105
    लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः । शक्त्यभावेऽपि देवेशि भवेदानन्दसम्प्लवः ॥१०५॥

    may arise

  76. Vijñāna Bhairava Tantra 1.106
    आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥१०६॥

    one becomes