Lemma

Lemma

ಅಥವಾ, ಇಲ್ಲವೇ

96 verses



Morphology

conj.indecl.particle
  1. Verses on the Recognition of the Lord 1.2
    कर्तरि ज्ञातरि स्वात्मन्य् आदिसिद्धे महेश्वरे अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥२॥

    ಅಥವಾ, ಇಲ್ಲವೇ

  2. Verses on the Recognition of the Lord 4.7
    या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥७॥

    ಅಥವಾ

  3. Verses on the Recognition of the Lord 6.4
    चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा ॥४॥

    ಇಲ್ಲವೇ (ಆತ್ಮಭಾವದಿಂದ)

  4. Verses on the Recognition of the Lord 7.10
    किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥१०॥

    ಅಥವಾ ಉಷ್ಣ ಮೊದಲಾದ

  5. Verses on the Recognition of the Lord 9.3
    कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥३॥

    ಅಥವಾ

  6. Verses on the Recognition of the Lord 12.11
    योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥११॥

    ಅಥವಾ

  7. Verses on the Recognition of the Lord 13.8
    भेदे त्व् एकरसे भाते ऽहंतयानात्मनीक्षिते शून्ये बुद्धे शरीरे वा मायाशक्तिर् विजृम्भते ॥८॥

    ಅಥವಾ, ಇಲ್ಲವೇ

  8. Karpūrādi Stotra 1.4
    ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च । जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्थाः प्रकटितरदने सिद्धयस्त्र्यम्बकस्य ॥ ४॥

    ಅಥವಾ

  9. Karpūrādi Stotra 1.6
    प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥

    ಅಥವಾ

  10. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    ನಿಜವಾಗಿ

  11. Karpūrādi Stotra 1.19
    सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मैषं नरमहिषयोश्छागमपि वा । बलिं ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥

    ಅಥವಾ

  12. Karpūrādi Stotra 1.21
    इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥

    ಅಥವಾ

  13. The Great Liberation Tantra 1.13
    त्वदन्यः संशयस्याऽस्य कस्त्रिलोक्यां महेश्वर । छेत्ता भवितुमर्हो वा सर्वज्ञः सर्वशास्त्रवित् ॥ १३ ॥

    ಅಥವಾ, ನಿಜವಾಗಿ

  14. The Great Liberation Tantra 1.28
    नाऽकालमृत्युस्तत्रासीत् न दुर्भिक्षं न वा रुजः । हृष्टाः पुष्टाः सदारोग्यास्तेजोरूपगुणान्विताः । स्त्रियो न व्यभिचारिण्यः पतिभक्तिपरायणः ॥ २८ ॥

    ಅಥವಾ

  15. The Great Liberation Tantra 1.65
    मन्ये तानि महादेव विपरीतानि मानवे । के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा ॥ ६५ ॥

    ಅಥವಾ

  16. The Great Liberation Tantra 3.3
    केनोपायेन भगवन् परमात्मा प्रसीदति । किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥

    ಅಥವಾ

  17. The Great Liberation Tantra 3.28
    न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः । सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च । को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥

    ತಾನೆ

  18. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    ತಾನೆ

  19. The Great Liberation Tantra 3.44
    प्राणायामं ततः कुर्यान् मूलेन प्रणवेन वा । मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्वति ॥ ४४ ॥

    ಅಥವಾ

  20. The Great Liberation Tantra 3.71
    भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेत् यदि । कण्ठे वा दक्षिणे बाहो सर्वसिद्धीश्वरो भवेत् ॥ ७१ ॥

    ಅಥವಾ

  21. The Great Liberation Tantra 3.75
    वाचिकं कायिकं वाऽपि मानसं वा यथामति । आराधने परेशस्य भावशुद्धिर्विधीयते ॥ ७५ ॥

    ಅಥವಾ

  22. The Great Liberation Tantra 3.78
    अस्नातो वा कृतस्नानो भुक्तो वाऽपि बुभुक्षितः । पूजयेत् परमात्मानं सदा निर्मलमानसः ॥ ७८ ॥

    ಅಥವಾ

  23. The Great Liberation Tantra 3.81
    पक्वं वाऽपि न पक्वं वा मन्त्रेणानेन मन्त्रितम् । साधको ब्रह्मसात् कृत्वा भुञ्जीयात् स्वजनैः सह ॥ ८१ ॥

    ಅಥವಾ

  24. The Great Liberation Tantra 3.86
    महापातकयुक्तो वा युक्तो वाप्यन्यपातकैः । सकृत् प्रसादग्रहणात् मुच्यते नात्र संशयः ॥ ८६ ॥

    ಅಥವಾ

  25. The Great Liberation Tantra 3.115
    भक्ष्याभक्ष्यविचारोऽत्र त्याज्यं ग्राह्यं न विद्यते । न कालशुद्धिनियमो न वा स्थाननिरूपणम् ॥ ११५ ॥

    ಅಥವಾ

  26. The Great Liberation Tantra 3.116
    अभुक्तो वाऽपि भुक्तो वा स्नातो वाऽस्नात एव वा । साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः ॥ ११६ ॥

    ಅಥವಾ

  27. Parātrīśikā 1.16
    आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः । यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् ॥१६॥

    ವಾ — ಅಥವಾ

  28. Parātrīśikā 1.29
    पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा । चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ॥२९॥

    ವಾ — ಅಥವಾ

  29. Śiva Sūtras 1.16
    शुद्धतत्त्वसन्धानाद्वापशुशक्तिः ॥१६॥

    ಅಥವಾ

  30. The Vision of Śiva 1.19
    यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया । तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥१९॥

    ಅಥವಾ

  31. The Vision of Śiva 1.32
    आत्मप्रच्छादनक्रीडां कुर्वतो वा कथंचन । मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥३२॥

    ಅಥವಾ

  32. The Vision of Śiva 1.42
    तद्रूपत्वेन वा पश्यन्स्थितः शान्त इव क्वचित् । केवलेशदृधत्वेन क्वचित्केवलशंभुता ॥४२॥

    ಅಥವಾ

  33. The Vision of Śiva 1.47
    नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता । सचित्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥४७॥

    ಅಥವಾ

  34. The Vision of Śiva 2.21
    यद्याभासान्बहिर्भूतांस्तत्सतोऽप्यसतोऽपि वा ॥२१॥

    ಅಥವಾ

  35. The Vision of Śiva 2.22
    गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥२२॥

    ಅಥವಾ

  36. The Vision of Śiva 2.23
    सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥२३॥

    ಅಥವಾ

  37. The Vision of Śiva 2.25
    ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥२५॥

    ಅಥವಾ

  38. The Vision of Śiva 2.26
    तानि दृष्ट्वानुसृजति सृष्ट्वा वानुप्रपश्यति ॥२६॥

    ಅಥವಾ

  39. The Vision of Śiva 2.29
    स्वधर्मत्वेऽस्या मालिन्यं परधर्मेऽपि कस्य सा । परस्य शास्त्रानिष्टस्य स्वतन्त्रा वा तथापि सा ॥२९॥

    ಅಥವಾ

  40. The Vision of Śiva 2.30
    तत्वान्यत्वैरवाच्या वा यद्यविद्याभिधीयते ॥३०॥

    ಅಥವಾ

  41. The Vision of Śiva 2.34
    सत्या वा स्यादसत्या वा न मध्यायाः समन्वयः । विद्या न भवतीत्येवं तत्तल्या काचिदापतेत् ॥३४॥

    ಅಥವಾ

  42. The Vision of Śiva 2.39
    नहि तस्या निमित्तं वा कारणं समवायि वा । निमित्तत्त्वे पृथक्त्वं स्यात्समवाये तदात्मता ॥३९॥

    ಅಥವಾ

  43. The Vision of Śiva 2.41
    पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥४१॥

    ಅಥವಾ

  44. The Vision of Śiva 2.43
    प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता ॥४३॥

    ಅಥವಾ

  45. The Vision of Śiva 2.50
    संहृतः क्रम इत्यस्यां संहर्ता जायते परः । यया क्रमः संहृतो वा किमात्मन्यपरत्र वा ॥५०॥

    ಅಥವಾ

  46. The Vision of Śiva 2.55
    पश्यन्त्या दर्शनं दृष्टे न च वा ह्युपपद्यते ॥५५॥

    ಅಥವಾ

  47. The Vision of Śiva 2.56
    पश्यन्तं सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥५६॥

    ಅಥವಾ

  48. The Vision of Śiva 2.57
    किंञ्चित्पश्यति वा सूक्ष्मं तदस्मद्दर्शनान्वयः । कर्मत्वे पारतन्त्र्यं स्यात्तस्या एव निजात्मनि ॥५७॥

    ಅಥವಾ

  49. The Vision of Śiva 2.58
    स्फोट एव हि पश्यन्ती तदन्या वा द्वयं भवेत् । तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥५८॥

    ಅಥವಾ

  50. The Vision of Śiva 2.59
    आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥५९॥

    ಅಲ್ಲದೆ

  51. The Vision of Śiva 2.61
    पश्यन्ती वा प्रमाणेन केनासौ प्रतिपाद्यते ॥६१॥

    ಅಲ್ಲದೆ

  52. The Vision of Śiva 2.64
    प्रतिभा कथिता या वा सानुमानं न तच्च ते ॥६४॥

    ಅಥವಾ

  53. The Vision of Śiva 2.68
    येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥६८॥

    ಅಥವಾ

  54. The Vision of Śiva 3.4
    सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥४॥

    ಅಥವಾ

  55. The Vision of Śiva 3.15
    तत्र वा तदुपायत्वात्परत्वेनोपचारिता ॥१५॥

    ಅಥವಾ

  56. The Vision of Śiva 3.18
    पिण्डे वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥१८॥

    ಅಥವಾ

  57. The Vision of Śiva 3.43
    क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् । एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥४३॥

    ಅಥವಾ

  58. The Vision of Śiva 3.48
    व्यवहारोऽप्यविद्या नो तथात्वेनेश्वरस्थितिः । तेनैव वा तथा कॢप्तस्तथा तदनुवर्तनम् ॥४८॥

    ಅಥವಾ

  59. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    ಅಥವಾ

  60. The Vision of Śiva 3.63
    नानावादैर्नो विरोधः कथनीयमिहाग्रतः । उक्तं वा कालपादादावागोपालाङ्गनादिना ॥६३॥

    ಅಥವಾ

  61. The Vision of Śiva 3.77
    व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः । स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥७७॥

    ಅಥವಾ

  62. The Vision of Śiva 3.87
    पश्यन्त्याथो शिवावस्था क्रियाफलसमाप्तितः । क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥८७॥

    ಅಥವಾ

  63. The Vision of Śiva 3.88
    न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥८८॥

    ನಿಜವಾಗಿ

  64. The Vision of Śiva 3.94
    ईश्वरस्य स्वतन्त्रस्य केनेच्छा वा विकल्प्यते ॥९४॥

    ಆದರೆ

  65. The Vision of Śiva 3.98
    तावदेकचित्स्वरूपशिवप्रसरणेन वा ॥९८॥

    ಅಥವಾ

  66. The Vision of Śiva 4.16
    अकाले जननं किंचिद्बाध्यते वा जनिक्रिया । कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥१६॥

    ಅಥವಾ

  67. The Vision of Śiva 4.18
    तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥१८॥

    ಅಥವಾ

  68. The Vision of Śiva 4.20
    कूटकार्षापणादौ वा व्यवहारोऽपि दृश्यते । तावता व्यवहारो वा यदात्माह्लादमात्रकम् ॥२०॥

    ಅಥವಾ

  69. The Vision of Śiva 4.21
    अथ चेद्देशबाधो वा तद्देशे रजतं नहि ॥२१॥

    ಅಥವಾ

  70. The Vision of Śiva 4.24
    सहानवस्थितिर्नास्ति विरोधः प्राग्विनाशतः । अन्योन्यपरिहारो वा ज्ञानाज्ञानात्मकः स्थितः ॥२४॥

    ಅಥವಾ

  71. The Vision of Śiva 4.42
    १दीपेन क्रियते व्यक्तिर्घटादेः सत एव वा ॥४२॥

    ಅಥವಾ

  72. The Vision of Śiva 4.55
    किं शिवत्वेन तद्व्याप्तमव्याप्तं वाभिधीयताम् ॥५५॥

    ಅಥವಾ

  73. The Vision of Śiva 4.67
    सामान्यरूपता वास्ति सा चाभिन्ना विशेषतः । भिन्नाभिन्नात्मकः क्वापि पदार्थस्तादृगिष्यते ॥६७॥

    ಅಥವಾ

  74. The Vision of Śiva 5.24
    गोलकं न प्रयातीह शक्तेरव्यतिरेकतः । शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥२४॥

    ಅಥವಾ

  75. The Vision of Śiva 5.91
    मायीयत्वे जगति वा प्राकृते वान्यथापिवा । अमूर्तकारणैर्योगात्तन्मूर्तत्वं निवार्यते ॥९१॥

    ಅಥವಾ

  76. The Vision of Śiva 5.103
    सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः । प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापिवा ॥१०३॥

    ಅಥವಾ

  77. The Vision of Śiva 5.104
    तत्तद्रूढिवशाद्वापि सर्वज्ञत्वप्रवर्तनात् । सर्वे सर्वात्मभावेन सर्वज्ञा वा व्यवस्थिताः ॥१०४॥

    ನಿಜವಾಗಿ

  78. The Vision of Śiva 5.105
    सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः । मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥१०५॥

    ಅಥವಾ

  79. The Vision of Śiva 6.14
    अविद्यां वेत्त्यविद्यैव बध्नात्यात्मानमेव वा । सैवेति वादो येषां वा तेषां वेदान्तवादिनाम् ॥१४॥

    ಅಥವಾ

  80. The Vision of Śiva 6.44
    क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः । दृष्ट्वा तां संपरिच्छेदे क्षणद्वैधमथोच्यते ॥४४॥

    ಅಥವಾ

  81. The Vision of Śiva 6.60
    घटो नश्यत्यात्मनेति किंचित्कुर्वन् किमात्मना । नश्यत्यात्मन्यकुर्वन् वा तदेवं स्थित एव सः ॥६०॥

    ಅಥವಾ

  82. The Vision of Śiva 6.79
    शून्यतां वा शून्यतायां व्यर्थता शब्दगोचरे । युगपद्वा घटाद्यर्था जगत्यानन्त्यमागताः ॥७९॥

    ಅಥವಾ

  83. The Vision of Śiva 6.119
    स्थितेऽपि वार नानात्वे कैवल्ये न विशेषता । एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥११९॥

    ಅಥವಾ

  84. The Vision of Śiva 6.124
    युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् । तावता विश्वसम्पत्तेः सर्वज्ञत्वादचित्रता ॥१२४॥

    ಅಥವಾ

  85. The Vision of Śiva 7.36
    संविद्देहतद्गतत्वे संवित्स्वातन्त्र्यमापतेत् । तोषे निर्वृतियोगो वा दार्ढ्यात् स्वातन्त्र्यमेतयोः ॥३६॥

    ಅಥವಾ

  86. The Vision of Śiva 7.76
    चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु । अविनाश्येकपिण्डे वा स भवेदजरामरः ॥७६॥

    ಅಥವಾ

  87. Stanzas on the Divine Pulsation 1.22
    अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥२२॥

    ಅಥವಾ, ಇಲ್ಲವೇ (ವಿಕಲ್ಪ)

  88. Stanzas on the Divine Pulsation 2.5
    इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥५॥

    ಅಥವಾ, ಇಲ್ಲವೇ (ವಿಕಲ್ಪ)

  89. Vijñāna Bhairava Tantra 1.3
    किं वा नवात्मभेदेन भैरवे भैरवाकृतौ । त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥३॥

    ಅಥವಾ

  90. Vijñāna Bhairava Tantra 1.4
    नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः । चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् ॥४॥

    ಅಥವಾ

  91. Vijñāna Bhairava Tantra 1.6
    न हि वर्णविभेदेन देहभेदेन वा भवेत् । परत्वं निष्कलत्वेन सकलत्वे न तद्भवेत् ॥६॥

    ಅಥವಾ

  92. Vijñāna Bhairava Tantra 1.22
    कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् । तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥२२॥

    ಅಥವಾ

  93. Vijñāna Bhairava Tantra 1.47
    यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा । तत्र तत्र शिवावस्था व्यापकत्वात्क्व यास्यति ॥४७॥

    ಅಥವಾ

  94. Vijñāna Bhairava Tantra 1.49
    क्षुताद्यन्ते भये शोके गह्वरे वा रणाद्द्रुते । कुतूहले क्षुधाद्यन्ते ब्रह्मसत्तासमीपगा ॥४९॥

    ಅಥವಾ

  95. Vijñāna Bhairava Tantra 1.85
    इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् । भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोदयः ॥८५॥

    ಅಥವಾ

  96. Vijñāna Bhairava Tantra 1.95
    आधारेष्वथवाशक्त्या ज्ञानाद्वा देशकल्पनात् । उज्जाते शक्तिसंशोभे शान्ते पश्चात्तदा भवेत् ॥९५॥

    ಅಥವಾ