Lemma

Lemma

tathā

തഥാ — അപ്രകാരം

79 verses



Morphology

adv.indecl.
  1. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    തഥാ — അപ്രകാരം

  2. Verses on the Recognition of the Lord 7.7
    विविक्तभूतलज्ञानं घटाभावमतिर् यथा तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥७॥

    തഥാ — അപ്രകാരം

  3. Verses on the Recognition of the Lord 8.3
    सुखादिषु च सौख्यादिहेतुष्व् अपि च वस्तुषु अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः ॥३॥

    തഥാ — അവ്വണ്ണം (അതീതരൂപത്തിൽ)

  4. Verses on the Recognition of the Lord 9.8
    किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः तथा विज्ञातृविज्ञेयभेदो यद् अवभास्यते ॥८॥

    തഥാ — അവ്വണ്ണം, എന്നവിധത്തിൽ

  5. Verses on the Recognition of the Lord 11.7
    पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा अविरुद्धावभासानाम् एककार्या तथैक्यधीः ॥७॥

    തഥാ — അവ്വണ്ണം

  6. Verses on the Recognition of the Lord 12.18
    एकात्मनो विभेदश् च क्रिया कालक्रमानुगा तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥१८॥

    തഥാ — അവ്വണ്ണം

  7. Verses on the Recognition of the Lord 12.21
    इत्थं तथा घटपटाद्याभासजगदात्मना तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया ॥२१॥

    തഥാ — അവ്വണ്ണം

  8. Verses on the Recognition of the Lord 14.7
    बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥७॥

    തഥാ — അപ്രകാരം

  9. Verses on the Recognition of the Lord 15.7
    ये ऽप्य् असामयिकेदन्तापरामर्शभुवः प्रभोः ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥७॥

    തഥാ — അപ്രകാരം (അവ്യയം)

  10. Verses on the Recognition of the Lord 15.15
    एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा जानन् यथेप्सितान् पश्यञ् जानाति च करोति च ॥१५॥

    തഥാ — അപ്രകാരം (അവ്യയം)

  11. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    തഥാ — അവ്വണ്ണംതന്നെ (അവ്യയം)

  12. Karpūrādi Stotra 1.4
    ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च । जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्थाः प्रकटितरदने सिद्धयस्त्र्यम्बकस्य ॥ ४॥

    അപ്രകാരം

  13. The Great Liberation Tantra 1.57
    वीरसाधनकर्माणि पञ्चतत्त्वोदितानि च । मद्यं मांसं तथा मत्स्यमुद्रामैथुनमेव च । एतानि पञ्चतत्त्वानि त्वया प्रोक्तानि शङ्कर ॥ ५७ ॥

    തഥാ — അപ്രകാരം

  14. The Great Liberation Tantra 2.30
    यथा नरेषु तन्त्रज्ञाः सरितां जान्हवी यथा । यथाऽहं त्रिदिवेशानामागमानामिदं तथा ॥ ३० ॥

    തഥാ — അപ്രകാരം

  15. The Great Liberation Tantra 2.48
    तरोर्मूलाभिषेकेण यथा तद्भुजपल्लवाः । तृप्यन्ति तदनुष्ठानात् तथा सर्वेऽमरादयः ॥ ४८ ॥

    തഥാ — അപ്രകാരം

  16. The Great Liberation Tantra 2.49
    यथा तवार्चनाद्ध्यानात् पूजनाज्जपनात् प्रिये । भवन्ति तुष्टाः सुन्दर्यस्तथा जानीहि सुव्रते ॥ ४९ ॥

    തഥാ — അപ്രകാരം

  17. The Great Liberation Tantra 2.50
    यथा गच्छन्ति सरितोऽवशेनापि सरित्पतिम् । तथार्चादीनि कर्माणि तदुद्देश्यानि पार्वति ॥ ५० ॥

    തഥാ — അപ്രകാരം

  18. The Great Liberation Tantra 3.6
    ज्ञेयं भवति तद्ब्रह्म सच्चिद्विश्वमयं परम् । तथा तत्त्वस्वरूपेण लक्षणैर्वा महेश्वरि ॥ ६ ॥

    തഥാ — അപ്രകാരം

  19. The Great Liberation Tantra 3.15
    न तिथिर्न च नक्षत्रं न राशिगणनं तथा । कुलाकुलादिनियमो न संस्कारोऽत्र विद्यते । सर्वथा सिद्धमन्त्रोऽयं नात्र कार्या विचारणा ॥ १५ ॥

    തഥാ — അപ്രകാരം

  20. The Great Liberation Tantra 3.141
    शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा । विप्रा विप्रेतराश्चैव सर्वेऽप्यत्राधिकारिणः ॥ १४१ ॥

    തഥാ — അപ്രകാരം

  21. The Great Liberation Tantra 3.147
    स्वमन्त्रदाने यो दोषस्तथा पित्रादिदीक्षया । सिद्धे ब्रह्ममहामन्त्रे तद्दोषो नैव विद्यते ॥ १४७ ॥

    തഥാ — അപ്രകാരം

  22. Parātrīśikā 1.25
    तथा हृदयबीजस्थं जगद् एतच् चराचरम् । एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ॥२५॥

    അപ്രകാരംതന്നെ, അതുപോലെ

  23. Śiva Sūtras 3.14
    यथा तत्र तथान्यत्र ॥१४॥

    അങ്ങനെ

  24. The Vision of Śiva 1.10
    अनालोचनतो दृष्टे विसर्गप्रसरास्पदे । विसर्गोक्तिप्रसङ्गे च वाचने धावने तथा ॥१०॥

    അപ്രകാരം

  25. The Vision of Śiva 1.34
    तथा नानाशरीराणि भुवनानि तथा तथा । विसृज्य रूपं गृह्णाति प्रोत्कृष्टाधममध्यमम् ॥३४॥

    അപ്രകാരം

  26. The Vision of Śiva 1.36
    क्रीडया दुःखवेद्यानि कर्मकारीणि तत्फलेः । संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥३६॥

    അപ്രകാരം

  27. The Vision of Śiva 1.38
    क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः । तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥३८॥

    അപ്രകാരം

  28. The Vision of Śiva 1.47
    नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता । सचित्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥४७॥

    അപ്രകാരം

  29. The Vision of Śiva 1.49
    एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥

    അപ്രകാരം

  30. The Vision of Śiva 2.2
    इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥२॥

    ഉം

  31. The Vision of Śiva 2.49
    तथापि तद्विभेदन भेदता तदभेदतः । न किंचन गृहीतं स्यात्तथान्या संहृतक्रमा ॥४९॥

    അപ്രകാരം

  32. The Vision of Śiva 2.79
    तथा रूपानुरूपत्वात्प्रसूतेः शिवरूपतः । सत्यत्वाच्च न तुल्यत्वमतोऽस्मात्प्रविरम्यताम् ॥७९॥

    അപ്രകാരം

  33. The Vision of Śiva 3.3
    शिवः शक्तस्तथा भावानिच्छया कर्तुमीहते । शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ॥३॥

    അപ്രകാരം

  34. The Vision of Śiva 3.14
    स्वायम्भुवस्य टीकायां बाढमित्यादिना गुरुः । तथा मतङ्गटीकायां व्याख्यानिगुरुणोदितम् ॥१४॥

    അപ്രകാരം

  35. The Vision of Śiva 3.20
    तथेच्छया समाविष्टस्तथा शक्तित्रयेण च । तथा तथा स्थितो भावैरतः सर्वं शिवात्मकम् ॥२०॥

    അപ്രകാരം

  36. The Vision of Śiva 3.22
    नानाविकाररूपेण जडतैवमवस्थिता । तथा सावयवत्वं च पराधीनत्वमेव च ॥२२॥

    അപ്രകാരം

  37. The Vision of Śiva 3.23
    न्यूनत्वादि विनाशित्वं तथोल्लङ्घननिष्कृतिः ॥२३॥

    അപ്രകാരം

  38. The Vision of Śiva 3.25
    एवं सति समग्रस्य व्यवहारस्य भङ्गिता । तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥२५॥

    അപ്രകാരം

  39. The Vision of Śiva 3.41
    न तथा जडता क्वापि तथाग्रे सुविचारितैः । वर्णयिष्याम एवात्र न च सावयवः क्वचित् ॥४१॥

    യഥാർഥത്തിൽ

  40. The Vision of Śiva 3.47
    न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥

    അപ്രകാരംതന്നെ

  41. The Vision of Śiva 3.48
    व्यवहारोऽप्यविद्या नो तथात्वेनेश्वरस्थितिः । तेनैव वा तथा कॢप्तस्तथा तदनुवर्तनम् ॥४८॥

    അപ്രകാരം

  42. The Vision of Śiva 3.73
    किमर्थं गुरुशास्त्रादि चेत्तथा तदवस्थितेः । देवस्य शास्त्राद्बोधेन किं प्रयोजनमेव च ॥७३॥

    അപ്രകാരം

  43. The Vision of Śiva 3.75
    स एव बुद्धरूपत्वे तथा भवति तत्क्षणम् । स एव संप्रजायेत तदनुष्ठानतत्परः ॥७५॥

    അപ്രകാരം

  44. The Vision of Śiva 3.78
    सर्वमेकेन रूपेण यद्विचार्यं तथाग्रतः ॥७८॥

    അപ്രകാരം

  45. The Vision of Śiva 3.79
    धर्माधर्मैश्च संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः ॥७९॥

    അപ്രകാരം

  46. The Vision of Śiva 4.6
    तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥

    അപ്രകാരം

  47. The Vision of Śiva 4.27
    तथा सर्वविकल्पानां सत्यरूपत्वदर्शनात् । गरुडादिशरीरेषु विषभूतापहारतः ॥२७॥

    അപ്രകാരം

  48. The Vision of Śiva 4.43
    यथा सतः क्रियाव्यक्तिर्व्यक्तेः सत्त्वे तथा कृतिः । एकेनापरतुल्यत्वान्नच वाऽसत उद्भवः ॥४३॥

    അപ്രകാരം

  49. The Vision of Śiva 4.62
    तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् । अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥६२॥

    അപ്രകാരം

  50. The Vision of Śiva 4.65
    मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता । सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥६५॥

    അപ്രകാരം

  51. The Vision of Śiva 4.72
    तथात्मादेरदृष्टस्य तच्छब्दैर्योगिता कथम् ॥७२॥

    അപ്രകാരം

  52. The Vision of Śiva 4.75
    तथाभिनवजातस्य तानाम्ना संगमः कथम् । तत्संगमस्यासत्यत्वे यन्त्रवश्यादिकं कथम् ॥७५॥

    അപ്രകാരം

  53. The Vision of Śiva 4.83
    तेन ज्ञेयमेकमेव वस्तु भिन्ने ग्रहः कुतः । तथानुमानं न भवेद्धूमाग्न्योरन्वये क्वचित् ॥८३॥

    അപ്രകാരം

  54. The Vision of Śiva 4.96
    ततोऽप्येतच्छिवात्मत्वं भावानामुपपद्यते । तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥९६॥

    അപ്രകാരം

  55. The Vision of Śiva 4.99
    तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥९९॥

    അപ്രകാരം

  56. The Vision of Śiva 4.118
    तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् । तथा स्मरणयोगाच्च स्मर्यते किं तथाविधम् ॥११८॥

    അപ്രകാരം

  57. The Vision of Śiva 4.120
    तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥१२०॥

    അപ്രകാരം

  58. The Vision of Śiva 5.3
    न जातुचिद्विभेदित्वं तथा तदुपकर्ण्यताम् । चित्त्वात् सर्वपदार्थानां विशेषः केन कथ्यताम् ॥३॥

    അപ്രകാരം

  59. The Vision of Śiva 5.10
    दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा । निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥१०॥

    അപ്രകാരം

  60. The Vision of Śiva 5.12
    नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि । नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥१२॥

    അപ്രകാരം

  61. The Vision of Śiva 5.35
    तदैक्यात्तच्चक्षुषैव प्रक्रिया चेत् कथं स्थिता । तथा शिवस्य सर्गाद्वा प्रक्रियायास्तथात्मनः ॥३५॥

    അപ്രകാരം

  62. The Vision of Śiva 5.36
    अन्धादेरन्यदृष्ट्यात्र घटः किं प्रथते न चेत् । शिवत्वस्य तथा व्यक्तेर्घटस्येच्छा तथास्ति वा ॥३६॥

    അപ്രകാരം

  63. The Vision of Śiva 5.73
    प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् । स्वातन्त्र्यं नच शब्दस्य रचनात्वेन युज्यते ॥७३॥

    അപ്രകാരം

  64. The Vision of Śiva 5.76
    तदहर्जातकस्यापि वासना सान्यजन्मजा । तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥७६॥

    അപ്രകാരം

  65. The Vision of Śiva 5.78
    जानन्नवस्थितो दूरे स्वर्गादौ निरयेऽथवा । प्रत्यक्षादिप्रक्रियायास्तथा शिवकृतस्थितेः ॥७८॥

    അപ്രകാരം

  66. The Vision of Śiva 5.82
    तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः । तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥८२॥

    അപ്രകാരം

  67. The Vision of Śiva 5.83
    तद्देशत्वं पुनः कस्मादिति चेत्तत्तथाग्रतः । भावा मूर्ताः सर्व एव सूक्ष्मसूक्ष्मतरादिना ॥८३॥

    അപ്രകാരം

  68. The Vision of Śiva 5.92
    अविद्यायोगतो वापि शाक्तरूपत्वतोऽपिवा । ज्ञानस्यापि बहीरूपे शब्दरूपेऽपिवा तथा ॥९२॥

    അപ്രകാരം

  69. The Vision of Śiva 5.98
    स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥

    അപ്രകാരം

  70. The Vision of Śiva 6.13
    देहे देहे पृथक्त्वे तु तथा भेदो भवात्मकः । जलधारांशुमन्न्यायो येषां वा समवस्थितः ॥१३॥

    അപ്രകാരം

  71. The Vision of Śiva 6.15
    सर्वेषामप्यविद्यैव कल्प्या ब्रह्मणि संगता । तथा भावेष्वसत्यत्वमित्यवश्यमवस्थितम् ॥१५॥

    അപ്രകാരം

  72. The Vision of Śiva 6.22
    तथा जघन्यरूपायाः सम्बन्धोऽस्य विरुध्यते । तथा जगत्समुत्पत्तौ निमित्तान्तरकल्पना ॥२२॥

    അപ്രകാരം

  73. The Vision of Śiva 6.107
    तथा पञ्चविधेकृत्ये नानात्वादक्रिया भवेत् । यानन्यसदृशी भूमिः सा परा प्रान्तभूमिका ॥१०७॥

    അവ്വണ്ണം

  74. The Vision of Śiva 7.39
    अन्यदेहे तथावृत्तेस्तथा बुद्धिविशिष्टता । भावनातीतनिर्मूलसत्कार्यादिविसर्गवत् ॥३९॥

    അവ്വണ്ണം

  75. The Vision of Śiva 7.44
    तथा सकलरूपाणां भावनैव तथा स्वयम् । निजान्तः सृष्टिबाह्यस्थस्थूलसन्निधियोगतः ॥४४॥

    അവ്വണ്ണം

  76. Stanzas on the Divine Pulsation 3.2
    तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥२॥

    അപ്രകാരം, അതുപോലെ

  77. Stanzas on the Divine Pulsation 3.5
    तथा यत्परमार्थेन येन यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥५॥

    അപ്രകാരം, അതുപോലെ

  78. Stanzas on the Divine Pulsation 3.6
    दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥६॥

    അപ്രകാരം, അതുപോലെ

  79. Stanzas on the Divine Pulsation 3.7
    अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥७॥

    അപ്രകാരം, അതുപോലെ