Lemma

Lemma

hi

for, indeed

73 verses



Morphology

indecl.particleptcl.
  1. Verses on the Recognition of the Lord 2.5
    यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥५॥

    for, indeed

  2. Verses on the Recognition of the Lord 4.1
    स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥१॥

    indeed, for

  3. Verses on the Recognition of the Lord 4.4
    नैव ह्य् अनुभवो भाति स्मृतौ पूर्वो ऽर्थवत् पृथक् प्राग् अन्वभूवम् अहम् इत्य् आत्मारोहणभासनात् ॥४॥

    for, indeed

  4. Verses on the Recognition of the Lord 5.4
    तत्तदाकस्मिकाभासो बाह्यं चेद् अनुमापयेत् न ह्य् अभिन्नस्य बोधस्य विचित्राभासहेतुता ॥४॥

    for

  5. Verses on the Recognition of the Lord 5.7
    चिदात्मैव हि देवो ऽन्तःस्थितम् इच्छावशाद् बहिः योगीव निरुपादानम् अर्थजातं प्रकाशयेत् ॥७॥

    indeed, for

  6. Verses on the Recognition of the Lord 5.12
    आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥१२॥

    indeed

  7. Verses on the Recognition of the Lord 6.1
    अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥

    for, indeed

  8. Verses on the Recognition of the Lord 6.2
    भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥२॥

    for, indeed

  9. Verses on the Recognition of the Lord 6.3
    तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् तन्निश्चयनमुक्तो हि विकल्पो घट इत्य् अयम् ॥३॥

    indeed

  10. Verses on the Recognition of the Lord 8.8
    विकल्पे यो ऽयम् उल्लेखः सो ऽपि बाह्यः पृथक्प्रथः प्रमात्रैकात्म्यम् आन्तर्यं ततो भेदो हि बाह्यता ॥८॥

    for, indeed

  11. Verses on the Recognition of the Lord 11.12
    अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥

    indeed

  12. Verses on the Recognition of the Lord 12.17
    परस्परस्वभावत्वे कार्यकारणयोर् अपि एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता ॥१७॥

    for

  13. Verses on the Recognition of the Lord 13.5
    अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् परताहन्तयाच्छादात् परापरदशा हि सा ॥५॥

    indeed

  14. Karpūrādi Stotra 1.13
    अनेके सेवन्ते भवदधिगिर्वाणनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥

    indeed

  15. Karpūrādi Stotra 1.16
    गृहे सम्मार्ज्यन्या परिगलितवीर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने । समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥

    indeed

  16. The Great Liberation Tantra 2.7
    सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते । विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ॥ ७ ॥

    indeed

  17. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    indeed

  18. The Great Liberation Tantra 3.39
    ऋषिः सदाशिवो ह्यस्य छन्दोऽनुष्टुवुदाहृतम् । देवता परमं ब्रह्म सर्वान्तर्यामि निर्गुणम् ॥ ३९ ॥

    indeed

  19. The Great Liberation Tantra 3.93
    वरं पापशतं कुर्याद्वरं विप्रबधं प्रिये । परब्रह्मार्पिते ह्यन्ने न कुर्यादवहेलनम् ॥ ९३ ॥

    indeed

  20. Parātrīśikā 1.20
    अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः । शाकिनीकुलसामान्यो भवेद् योगं विनापि हि ॥२०॥

    indeed, for

  21. The Vision of Śiva 1.3
    स यदास्ते चिदाह्लादमात्रानुभवतल्लयः । तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥३॥

    indeed

  22. The Vision of Śiva 1.14
    आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते । व्रजतो मुष्टितां पाणेः पूर्वः कम्पस्तदेक्ष्यते ॥१४॥

    indeed

  23. The Vision of Śiva 1.18
    गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥१८॥

    indeed

  24. The Vision of Śiva 1.19
    यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया । तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥१९॥

    indeed

  25. The Vision of Śiva 1.20
    अनन्तरं हि तत्कार्यज्ञानदर्शनशक्तिता ॥२०॥

    indeed

  26. The Vision of Śiva 1.21
    ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥

    indeed

  27. The Vision of Śiva 1.28
    न्यायादिभिर्न तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥२८॥

    for

  28. The Vision of Śiva 1.40
    सैव शाक्तशरीरादिनारकान्तं हि भूतता । प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥४०॥

    indeed

  29. The Vision of Śiva 2.2
    इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥२॥

    indeed

  30. The Vision of Śiva 2.23
    सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥२३॥

    indeed

  31. The Vision of Śiva 2.37
    अथ मध्यमया बाह्या भावा ग्राह्या ह्यविद्यया । तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥३७॥

    indeed

  32. The Vision of Śiva 2.54
    हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता । कर्ता मनः स्वावयवी नामूर्ताया इदं पुनः ॥५४॥

    indeed

  33. The Vision of Śiva 2.55
    पश्यन्त्या दर्शनं दृष्टे न च वा ह्युपपद्यते ॥५५॥

    indeed

  34. The Vision of Śiva 2.56
    पश्यन्तं सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥५६॥

    indeed

  35. The Vision of Śiva 2.58
    स्फोट एव हि पश्यन्ती तदन्या वा द्वयं भवेत् । तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥५८॥

    indeed

  36. The Vision of Śiva 2.60
    स्फोटस्यासत्यरूपैर्हि पदाद्यैर्व्यङ्ग्यता कथम् । पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥६०॥

    indeed

  37. The Vision of Śiva 2.75
    अनन्तेऽवगमः कुत्र तेजस्त्वे शान्तता कथम् । असर्वगप्रमाणं हि मूर्तिर्नो लक्ष्यते चितः ॥७५॥

    for

  38. The Vision of Śiva 2.83
    पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ । न तद्द्रष्टव्यमित्येतद्विमर्शः पूर्वतो भवेत् ॥८३॥

    indeed

  39. The Vision of Śiva 3.7
    मन्त्रस्तम्भनतायां हि नासौ वह्निस्तदोच्यते ॥७॥

    indeed

  40. The Vision of Śiva 3.33
    तदात्मनो हि स्थूलस्य सूक्ष्मस्याथ विकारिता ॥३३॥

    for

  41. The Vision of Śiva 3.39
    निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् । वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥३९॥

    indeed

  42. The Vision of Śiva 3.88
    न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥८८॥

    indeed

  43. The Vision of Śiva 4.6
    तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥

    indeed

  44. The Vision of Śiva 4.12
    तस्यापि किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥१२॥

    for

  45. The Vision of Śiva 4.30
    व्यतिरेके न युज्येत विज्ञानं हि घटादिषु । मूर्तामूर्तधर्मयोगो घटस्तस्य न गोचरः ॥३०॥

    indeed

  46. The Vision of Śiva 4.36
    क्रियते ह्यसती वाथ सत्याः किं नोपलब्धता । व्यक्त्यभावादथानन्त्यमसत्या हानिसंभवः ॥३६॥

    indeed

  47. The Vision of Śiva 4.38
    इत्यभ्युपगमोऽस्माकं नैकेनान्यत्र तुल्यता । कल्प्या वैशेषिकाणां हि कर्तृतैवेश्वरे स्थिता ॥३८॥

    for

  48. The Vision of Śiva 4.46
    असत्त्वे कारकाणं हि समूहो न भवेत्तदा । कर्माख्यस्य ह्यसत्यत्वात्तत्संबन्धोऽसता कथम् ॥४६॥

    for

  49. The Vision of Śiva 4.53
    नामसंस्थानभेदश्चेद्धस्ते मुष्ट्याद्यभेदिता । स्थितमेव हि सत्कार्यमत एवाविनाशिता ॥५३॥

    indeed

  50. The Vision of Śiva 4.71
    विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि । मुखे हि शब्दो भूमौ च विद्यतेऽर्थः क्व संगमः ॥७१॥

    for

  51. The Vision of Śiva 4.79
    वाच्यवाचकरूपश्चेत्स एष नियमः कुतः । यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥७९॥

    indeed

  52. The Vision of Śiva 4.90
    आप्तवाक्यादथास्तीह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥९०॥

    for

  53. The Vision of Śiva 4.93
    शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः । स्थिरता नोपपन्ना ते प्रत्यक्षेणापिच स्थिता ॥९३॥

    indeed

  54. The Vision of Śiva 4.100
    मूर्तचोदकवैकल्यान्मनश्चेत्प्रेर्यतास्य नो । एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥१००॥

    indeed

  55. The Vision of Śiva 4.104
    प्रक्रियामात्रमेवैतद्यतः पूर्वापरात्मता । क्रियायाः कारकाणां हि क्रमोऽस्त्येव स्वकर्मणि ॥१०४॥

    indeed

  56. The Vision of Śiva 5.11
    अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन । पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥११॥

    but

  57. The Vision of Śiva 5.14
    चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडो भवेत् ॥१४॥

    for

  58. The Vision of Śiva 5.15
    कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता । प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥१५॥

    for

  59. The Vision of Śiva 5.89
    एवमिन्द्रियशक्तीनां ज्ञानमन्तः प्रवेशनात् । सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥८९॥

    for

  60. The Vision of Śiva 6.7
    भावा भवेयुस्तत्प्राप्ता ह्यस्माकं सर्वसत्यता । अविद्यादेरयोगश्चेत्तेनैतदतिरिक्तता ॥७॥

    indeed

  61. The Vision of Śiva 6.65
    दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् । बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥६५॥

    indeed

  62. The Vision of Śiva 6.69
    विनाशे कारणानां हि विनाशः कारणात्मना । स्वयं विनश्येन्मृत्पिण्ड एवं चेत्स विनश्यति ॥६९॥

    indeed

  63. The Vision of Śiva 6.80
    निवृत्ते वाच्यसम्बन्धे प्रद्वेषो विधिगः परम् । अघटत्वं न सामान्यं किं न वा ह्यविशेषकम् ॥८०॥

    indeed

  64. The Vision of Śiva 6.85
    शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते । संवृत्यैव संवृतिर्हि निवार्या चेदसंगमः ॥८५॥

    indeed

  65. The Vision of Śiva 7.5
    सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥५॥

    indeed

  66. The Vision of Śiva 7.15
    न द्रव्यव्यतिरिक्तास्ति क्रिया नच न विद्यते । न तयापि विना कार्यं किंचनापि हि जायते ॥१५॥

    indeed

  67. The Vision of Śiva 7.61
    दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः । सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥६१॥

    indeed

  68. The Vision of Śiva 7.67
    नियमे सर्वयमनं कैवल्यं प्रलयाकले । स्वात्मनो ह्यनिरुद्धार्था निरुपाधिविभूतिका ॥६७॥

    indeed

  69. The Vision of Śiva 7.92
    तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः । पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥९२॥

    indeed

  70. Stanzas on the Divine Pulsation 1.16
    न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्योपलब्धिलोपोऽस्ति तदा ह्यन्योऽनुपलम्भकः ॥१६॥

    indeed

  71. Stanzas on the Divine Pulsation 3.4
    यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥४॥

    indeed

  72. Vijñāna Bhairava Tantra 1.19
    भैरव उवाच । ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् । उत्पत्तिद्वितयस्थाने भरणाद्भरिता स्थितिः ॥१९॥

    indeed

  73. Vijñāna Bhairava Tantra 1.54
    किञ्चिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने । न शुचिर्ह्यशुचिस्तस्मान्निर्विकल्पः सुखी भवेत् ॥५४॥

    indeed