Lemma
atha
तब
Morphology
indecl.particle
Occurrences
Read in context →- Bhagavad Gītā (Kashmirian recension) 1.20अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२० ॥
तब
- Verses on the Recognition of the Lord 2.3अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥
अब, यदि (आक्षेप किया जाए)
- Verses on the Recognition of the Lord 2.4सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥४॥
और, फिर
- Verses on the Recognition of the Lord 2.8अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥
अब (आगे)
- Verses on the Recognition of the Lord 3.3अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥३॥
यदि अब (कहा जाए)
- Verses on the Recognition of the Lord 4.2भासयेच् च स्वकाले ऽर्थात् पूर्वाभासितम् आमृशन् स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥२॥
अथवा
- Verses on the Recognition of the Lord 6.4चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा ॥४॥
अथवा
- The Great Liberation Tantra 3.105अथ सन्ध्याविधिं वक्ष्ये ब्रह्ममन्त्रस्य शाम्भवि । यां कृत्वा ब्रह्मसम्पत्तिं लभन्ते भुवि मानवाः ॥ १०५ ॥
अब
- Parātrīśikā 1.5अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः । तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥५॥
अब, तब (मंगल आरम्भ)
- The Vision of Śiva 2.1अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥१॥
अब
- The Vision of Śiva 2.18अथोच्यते प्रकिर्यासौ सांख्यादिरचिता न सा । तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥१८॥
अब
- The Vision of Śiva 2.37अथ मध्यमया बाह्या भावा ग्राह्या ह्यविद्यया । तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥३७॥
अब
- The Vision of Śiva 2.48अथ साधारणं ज्ञानं तादृक्किंचन पश्यति ॥४८॥
अब
- The Vision of Śiva 2.52अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः । भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥५२॥
अब
- The Vision of Śiva 2.63अथ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः । एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥६३॥
अब
- The Vision of Śiva 2.65स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥६५॥
अब
- The Vision of Śiva 2.76अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः । अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥७६॥
अब
- The Vision of Śiva 2.80अथ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः । ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥८०॥
और (फिर)
- The Vision of Śiva 3.1अथ शक्तेः परावस्था यैर्भक्त्या परिगीयते । युक्त्या प्रकाशितो देवस्ततः शक्तिदशा यतः ॥१॥
अब
- The Vision of Śiva 3.10शैवे वाच इन्द्रियत्वमथ नादादिनोदिता । तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥१०॥
फिर
- The Vision of Śiva 3.33तदात्मनो हि स्थूलस्य सूक्ष्मस्याथ विकारिता ॥३३॥
और
- The Vision of Śiva 3.46तथैव स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥४६॥
अब (यदि)
- The Vision of Śiva 3.54निमित्तं कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥५४॥
तब
- The Vision of Śiva 3.57अङ्गाररूपे किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था न क्रिया ज्ञानरूपिणी ॥५७॥
अथवा
- The Vision of Śiva 3.60अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥६०॥
अब
- The Vision of Śiva 3.87पश्यन्त्याथो शिवावस्था क्रियाफलसमाप्तितः । क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥८७॥
तब
- The Vision of Śiva 4.2अथैकस्याधिका शक्तिर्न्यूनशक्तिनिबन्धिनी ॥२॥
अब
- The Vision of Śiva 4.17अथानुभवगा बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥१७॥
अब
- The Vision of Śiva 4.21अथ चेद्देशबाधो वा तद्देशे रजतं नहि ॥२१॥
अब
- The Vision of Śiva 4.23ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते । न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥२३॥
अब
- The Vision of Śiva 4.35सत्कार्यं नोपपन्नं चेत्सतः किं करणेन यत् । अभिव्यक्तिरथास्यात्र क्रियते सापि किं सती ॥३५॥
अथवा यदि
- The Vision of Śiva 4.44घटान्तरं पूर्वदृष्टमाकलययाथ चेष्टनम् ॥४४॥
फिर
- The Vision of Śiva 4.88धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च । इतरेतरदोषोऽत्र दुर्निवारः प्रसज्यते ॥८८॥
अब
- The Vision of Śiva 4.90आप्तवाक्यादथास्तीह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥९०॥
अब
- The Vision of Śiva 4.103मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते । प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥१०३॥
फिर
- The Vision of Śiva 4.107अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥१०७॥
अब यदि
- The Vision of Śiva 4.108करणे ज्ञानसम्बन्धाद्बाह्यार्थे किं न कल्प्यते । बुद्धेर्गुणत्वं मनसि प्राप्नुयादथ चेतसा ॥१०८॥
फिर
- The Vision of Śiva 4.112मनसावेदितार्थस्य तद्देशित्वमथोच्यते । वर्णिते योगिता कस्य यदि वा तत्स्वरूपतः ॥११२॥
फिर
- The Vision of Śiva 5.15कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता । प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥१५॥
अथवा
- The Vision of Śiva 5.27प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् । मनसो नच बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥२७॥
तब
- The Vision of Śiva 5.31विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता । चक्षुषा चेदर्पितं मे मनसात्मन्यथार्प्यते ॥३१॥
फिर
- The Vision of Śiva 5.40व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ । यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥४०॥
अब
- The Vision of Śiva 5.52सन्निधानादथाग्नेश्च चुल्ल्यादेः सन्निधिर्न किम् । धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥५२॥
अथवा
- The Vision of Śiva 5.75प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते । काकतालीयरूपत्वादश्वादेस्तरणादथ ॥७५॥
मोरेओवर
- The Vision of Śiva 5.77व्यापकत्वाच्छिवत्वस्य सर्वज्ञत्वाद्भवेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥७७॥
फिर
- The Vision of Śiva 5.84ज्ञेया अवयवेनैते यावद्यावददर्शनाः । अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥८४॥
अब
- The Vision of Śiva 5.85सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता । तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥८५॥
फिर
- The Vision of Śiva 5.96तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ । क्षण एको नचैवं तच्चेश्वरेच्छाविरोधकृत् ॥९६॥
किन्तु
- The Vision of Śiva 6.1अथ शक्तेः शक्तिमतो न भेदो द्रव्यकर्मवत् । स्थापितो द्रव्यतो भिन्ना क्रिया नो नच नास्ति सा ॥१॥
अब
- The Vision of Śiva 6.44क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः । दृष्ट्वा तां संपरिच्छेदे क्षणद्वैधमथोच्यते ॥४४॥
तब
- The Vision of Śiva 6.47अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता । कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥४७॥
अब यदि (आक्षेप)
- The Vision of Śiva 6.50अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् । उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥५०॥
अब यदि (कहो)
- The Vision of Śiva 6.112तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥११२॥
अब
- The Vision of Śiva 7.1अथ स्थिते सर्वदिक्के शिवतत्त्वेऽधुनोच्यते । तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥१॥
अब
- The Vision of Śiva 7.84अत एव शिवः सर्वमिति योगोऽथ चेतसि । सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥८४॥
तब
- The Vision of Śiva 7.115स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥
तब
- The Essence of the Tantra 2.1अथ अनुपायम् एव तावत् व्याख्यास्यामः
अब, अथ (आरम्भ-सूचक अव्यय)
- The Essence of the Tantra 6.9अथ तिथ्युदयः
अब (विषय-सूचक)
- The Essence of the Tantra 6.11अथ मासोदयः
अब (विषय-सूचक)
- The Essence of the Tantra 6.20अथ वर्षोदयः
अब (विषय-सूचक)
- The Essence of the Tantra 6.59अथ समाने कालोदयः
अब (विषय-सूचक)
- The Essence of the Tantra 6.73अथ वर्णोदयः
अब (विषय-सूचक)
- The Essence of the Tantra 20.25अथ पर्वविधिः
अब (विषय-सूचक)
- The Essence of the Tantra 20.39अथ पवित्रकविधिः
अब (विषय-सूचक)
- The Essence of the Tantra 20.51अथ व्याख्याविधिः
अब
- The Essence of the Tantra 20.57अथ समयनिष्कृतिः
अब
- The Essence of the Tantra 20.61अथ गुरुपूजाविधिः
अब