Lemma

Lemma

atha

তারপর

67 verses



Morphology

indecl.particle
  1. Bhagavad Gītā (Kashmirian recension) 1.20
    अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२० ॥

    তারপর

  2. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    অথ, এখন (যদি আপত্তি হয়)

  3. Verses on the Recognition of the Lord 2.4
    सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥४॥

    অথ, তবে

  4. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    অথ, এখন (আরও)

  5. Verses on the Recognition of the Lord 3.3
    अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥३॥

    অথ, এখন (যদি বলা হয়)

  6. Verses on the Recognition of the Lord 4.2
    भासयेच् च स्वकाले ऽर्थात् पूर्वाभासितम् आमृशन् स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥२॥

    অথ, অথবা

  7. Verses on the Recognition of the Lord 6.4
    चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा ॥४॥

    অথ, অথবা

  8. The Great Liberation Tantra 3.105
    अथ सन्ध्याविधिं वक्ष्ये ब्रह्ममन्त्रस्य शाम्भवि । यां कृत्वा ब्रह्मसम्पत्तिं लभन्ते भुवि मानवाः ॥ १०५ ॥

    অথ, এখন

  9. Parātrīśikā 1.5
    अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः । तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥५॥

    এখন, তবে (মঙ্গল-সূচক আরম্ভ)

  10. The Vision of Śiva 2.1
    अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥१॥

    এখন

  11. The Vision of Śiva 2.18
    अथोच्यते प्रकिर्यासौ सांख्यादिरचिता न सा । तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥१८॥

    এখন (যদি)

  12. The Vision of Śiva 2.37
    अथ मध्यमया बाह्या भावा ग्राह्या ह्यविद्यया । तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥३७॥

    এখন (যদি)

  13. The Vision of Śiva 2.48
    अथ साधारणं ज्ञानं तादृक्किंचन पश्यति ॥४८॥

    এখন (যদি)

  14. The Vision of Śiva 2.52
    अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः । भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥५२॥

    এখন (যদি)

  15. The Vision of Śiva 2.63
    अथ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः । एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥६३॥

    এখন (যদি)

  16. The Vision of Śiva 2.65
    स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥६५॥

    এখন

  17. The Vision of Śiva 2.76
    अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः । अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥७६॥

    এখন

  18. The Vision of Śiva 2.80
    अथ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः । ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥८०॥

    অধিকন্তু

  19. The Vision of Śiva 3.1
    अथ शक्तेः परावस्था यैर्भक्त्या परिगीयते । युक्त्या प्रकाशितो देवस्ततः शक्तिदशा यतः ॥१॥

    এখন

  20. The Vision of Śiva 3.10
    शैवे वाच इन्द्रियत्वमथ नादादिनोदिता । तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥१०॥

    তদনন্তর

  21. The Vision of Śiva 3.33
    तदात्मनो हि स्थूलस्य सूक्ष्मस्याथ विकारिता ॥३३॥

    এবং

  22. The Vision of Śiva 3.46
    तथैव स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥४६॥

    এখন (যদি)

  23. The Vision of Śiva 3.54
    निमित्तं कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥५४॥

    তখন

  24. The Vision of Śiva 3.57
    अङ्गाररूपे किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था न क्रिया ज्ञानरूपिणी ॥५७॥

    অথবা

  25. The Vision of Śiva 3.60
    अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥६०॥

    এখন (যদি)

  26. The Vision of Śiva 3.87
    पश्यन्त्याथो शिवावस्था क्रियाफलसमाप्तितः । क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥८७॥

    তবে

  27. The Vision of Śiva 4.2
    अथैकस्याधिका शक्तिर्न्यूनशक्तिनिबन्धिनी ॥२॥

    এখন (যদি)

  28. The Vision of Śiva 4.17
    अथानुभवगा बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥१७॥

    এখন (যদি)

  29. The Vision of Śiva 4.21
    अथ चेद्देशबाधो वा तद्देशे रजतं नहि ॥२१॥

    এখন (যদি)

  30. The Vision of Śiva 4.23
    ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते । न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥२३॥

    এখন (যদি)

  31. The Vision of Śiva 4.35
    सत्कार्यं नोपपन्नं चेत्सतः किं करणेन यत् । अभिव्यक्तिरथास्यात्र क्रियते सापि किं सती ॥३५॥

    এখন যদি (বল)

  32. The Vision of Śiva 4.44
    घटान्तरं पूर्वदृष्टमाकलययाथ चेष्टनम् ॥४४॥

    তখন

  33. The Vision of Śiva 4.88
    धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च । इतरेतरदोषोऽत्र दुर्निवारः प्रसज्यते ॥८८॥

    এখন

  34. The Vision of Śiva 4.90
    आप्तवाक्यादथास्तीह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥९०॥

    এখন (যদি)

  35. The Vision of Śiva 4.103
    मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते । प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥१०३॥

    এখন

  36. The Vision of Śiva 4.107
    अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥१०७॥

    এখন যদি (বল)

  37. The Vision of Śiva 4.108
    करणे ज्ञानसम्बन्धाद्बाह्यार्थे किं न कल्प्यते । बुद्धेर्गुणत्वं मनसि प्राप्नुयादथ चेतसा ॥१०८॥

    এখন

  38. The Vision of Śiva 4.112
    मनसावेदितार्थस्य तद्देशित्वमथोच्यते । वर्णिते योगिता कस्य यदि वा तत्स्वरूपतः ॥११२॥

    এখন

  39. The Vision of Śiva 5.15
    कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता । प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥१५॥

    অথবা

  40. The Vision of Śiva 5.27
    प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् । मनसो नच बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥२७॥

    তবে

  41. The Vision of Śiva 5.31
    विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता । चक्षुषा चेदर्पितं मे मनसात्मन्यथार्प्यते ॥३१॥

    তবে

  42. The Vision of Śiva 5.40
    व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ । यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥४०॥

    এখন

  43. The Vision of Śiva 5.52
    सन्निधानादथाग्नेश्च चुल्ल्यादेः सन्निधिर्न किम् । धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥५२॥

    অথবা

  44. The Vision of Śiva 5.75
    प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते । काकतालीयरूपत्वादश्वादेस्तरणादथ ॥७५॥

    অধিকন্তু

  45. The Vision of Śiva 5.77
    व्यापकत्वाच्छिवत्वस्य सर्वज्ञत्वाद्भवेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥७७॥

    তবে

  46. The Vision of Śiva 5.84
    ज्ञेया अवयवेनैते यावद्यावददर्शनाः । अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥८४॥

    এখন

  47. The Vision of Śiva 5.85
    सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता । तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥८५॥

    তবে

  48. The Vision of Śiva 5.96
    तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ । क्षण एको नचैवं तच्चेश्वरेच्छाविरोधकृत् ॥९६॥

    এখন

  49. The Vision of Śiva 6.1
    अथ शक्तेः शक्तिमतो न भेदो द्रव्यकर्मवत् । स्थापितो द्रव्यतो भिन्ना क्रिया नो नच नास्ति सा ॥१॥

    এখন

  50. The Vision of Śiva 6.44
    क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः । दृष्ट्वा तां संपरिच्छेदे क्षणद्वैधमथोच्यते ॥४४॥

    তবে

  51. The Vision of Śiva 6.47
    अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता । कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥४७॥

    এখন (যদি)

  52. The Vision of Śiva 6.50
    अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् । उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥५०॥

    এখন (যদি বল)

  53. The Vision of Śiva 6.112
    तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥११२॥

    এখন

  54. The Vision of Śiva 7.1
    अथ स्थिते सर्वदिक्के शिवतत्त्वेऽधुनोच्यते । तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥१॥

    এক্ষণে

  55. The Vision of Śiva 7.84
    अत एव शिवः सर्वमिति योगोऽथ चेतसि । सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥८४॥

    তৎপর

  56. The Vision of Śiva 7.115
    स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥

    তখন

  57. The Essence of the Tantra 2.1
    अथ अनुपायम् एव तावत् व्याख्यास्यामः

    এখন (আরম্ভ-সূচক অব্যয়)

  58. The Essence of the Tantra 6.9
    अथ तिथ्युदयः

    এখন (প্রসঙ্গ-সূচক)

  59. The Essence of the Tantra 6.11
    अथ मासोदयः

    এখন (প্রসঙ্গ-সূচক)

  60. The Essence of the Tantra 6.20
    अथ वर्षोदयः

    এখন (প্রসঙ্গ-সূচক)

  61. The Essence of the Tantra 6.59
    अथ समाने कालोदयः

    এখন (প্রসঙ্গ-সূচক)

  62. The Essence of the Tantra 6.73
    अथ वर्णोदयः

    এখন (প্রসঙ্গ-সূচক)

  63. The Essence of the Tantra 20.25
    अथ पर्वविधिः

    এখন

  64. The Essence of the Tantra 20.39
    अथ पवित्रकविधिः

    এখন

  65. The Essence of the Tantra 20.51
    अथ व्याख्याविधिः

    এখন

  66. The Essence of the Tantra 20.57
    अथ समयनिष्कृतिः

    এখন

  67. The Essence of the Tantra 20.61
    अथ गुरुपूजाविधिः

    এখন