Lemma

Lemma

tasya

அவனுடைய (துரியோதனனின்)

61 verses



Morphology

gen. sg.gen. sg. f.gen. sg. m.gen. sg. m. dem.gen. sg. n.gen. sg. n. dem.m.gen.sg pron
  1. Bhagavad Gītā (Kashmirian recension) 1.12
    तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२ ॥

    அவனுடைய (துரியோதனனின்)

  2. Verses on the Recognition of the Lord 2.2
    नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥२॥

    அதன் (காண்போனின்)

  3. Verses on the Recognition of the Lord 5.5
    न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥

    அதன்

  4. Verses on the Recognition of the Lord 7.8
    नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥८॥

    அதன் (தரையின்)

  5. Verses on the Recognition of the Lord 7.10
    किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥१०॥

    அதன்

  6. Verses on the Recognition of the Lord 12.4
    कार्यकारणता लोके सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥४॥

    அதன்

  7. Verses on the Recognition of the Lord 13.7
    तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका विद्याशक्तिः तिरोधानकरी मायाभिधा पुनः ॥७॥

    அதன்

  8. Verses on the Recognition of the Lord 13.10
    त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम् तस्याविभागरूप्य् एकं प्रधानं मूलकारणम् ॥१०॥

    அதன்

  9. Verses on the Recognition of the Lord 15.9
    तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी सैषाप्य् अज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥९॥

    அவனது (தனிஉயிரின்)

  10. Karpūrādi Stotra 1.10
    समन्तादापीनस्तनजघनधृग्यौवनवती- रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् । विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १०॥

    அவனுடைய

  11. Karpūrādi Stotra 1.11
    समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥

    அவனுக்கு

  12. Karpūrādi Stotra 1.21
    इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥

    அவனுடைய

  13. Karpūrādi Stotra 1.22
    कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥

    அவனுடைய

  14. The Great Liberation Tantra 2.9
    कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते । न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

    அவனுக்கு

  15. The Great Liberation Tantra 2.42
    स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया । त्वं परा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ ४२ ॥

    அவனது

  16. The Great Liberation Tantra 3.3
    केनोपायेन भगवन् परमात्मा प्रसीदति । किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥

    அவனது

  17. The Great Liberation Tantra 3.20
    धन्या माता पिता तस्य पवित्रं तत्कुलं शिवे । पितरस्तस्य सन्तुष्टा मोदन्ते त्रिदशैः सह । गायन्ति गायनीं गाथां पुलकाञ्चितविग्रहाः ॥ २० ॥

    அவனது

  18. The Great Liberation Tantra 3.25
    किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः । पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः । तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥ २५ ॥

    அவனை

  19. The Great Liberation Tantra 3.28
    न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः । सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च । को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥

    அவனுக்கு

  20. The Great Liberation Tantra 3.31
    मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः । शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥

    அவனது

  21. The Great Liberation Tantra 3.97
    किं तस्य वैदिकाचारैस्तान्त्रिकैर्वाऽपि तस्य किम् । ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः ॥ ९७ ॥

    அவனுக்கு

  22. Parātrīśikā 1.25
    तथा हृदयबीजस्थं जगद् एतच् चराचरम् । एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ॥२५॥

    அவனுக்கு, அவனுடைய

  23. The Vision of Śiva 1.6
    एवं न जातुचित्तस्य वियोगस्त्रितयात्मना ॥६॥

    அவனுடைய

  24. The Vision of Śiva 1.7
    यदा तु तस्य चिद्धर्मविभवामोदजृम्भया ॥७॥

    அவனுடைய

  25. The Vision of Śiva 1.16
    किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥

    அவனுடைய

  26. The Vision of Śiva 1.25
    औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना । द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥२५॥

    அவனுடைய

  27. The Vision of Śiva 1.26
    बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा । न च तस्य तया योग इति चेदपरस्थितौ ॥२६॥

    அவனுக்கு (சிவனுக்கு)

  28. The Vision of Śiva 1.27
    सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥

    அந்த

  29. The Vision of Śiva 1.49
    एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥

    அதன்

  30. The Vision of Śiva 2.68
    येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥६८॥

    அந்த (ப்ரமாணத்தின்)

  31. The Vision of Śiva 3.47
    न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥

    அதன்

  32. The Vision of Śiva 3.51
    एवं प्रवर्तने तस्य न निमित्तसमुद्गमः ॥५१॥

    அவனது

  33. The Vision of Śiva 3.61
    अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥६१॥

    அவனுக்கு

  34. The Vision of Śiva 3.76
    वादित्वप्रतिवादित्वे कस्माच्चेत्तस्य तत्स्थिते ॥७६॥

    அவனது

  35. The Vision of Śiva 3.79
    धर्माधर्मैश्च संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः ॥७९॥

    அவனது

  36. The Vision of Śiva 4.18
    तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥१८॥

    அதன்

  37. The Vision of Śiva 4.30
    व्यतिरेके न युज्येत विज्ञानं हि घटादिषु । मूर्तामूर्तधर्मयोगो घटस्तस्य न गोचरः ॥३०॥

    அதற்கு (அறிதலுக்கு)

  38. The Vision of Śiva 4.79
    वाच्यवाचकरूपश्चेत्स एष नियमः कुतः । यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥७९॥

    இதற்கு

  39. The Vision of Śiva 4.105
    यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥१०५॥

    அதற்கு

  40. The Vision of Śiva 4.107
    अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥१०७॥

    அதனை

  41. The Vision of Śiva 5.45
    धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥

    அதன்

  42. The Vision of Śiva 5.57
    वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं जज्जन्यं तस्य दृष्टवत् ॥५७॥

    அதன்

  43. The Vision of Śiva 6.23
    अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम् । पक्षे द्वितीये ताद्रूप्यं जडत्वादिह तस्य कः ॥२३॥

    அதன் (இணைப்பை)

  44. The Vision of Śiva 6.46
    प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते । विद्यारूपादनाशित्वं नहि तत्त्वं विनश्वरम् ॥४६॥

    அதன்

  45. The Vision of Śiva 6.51
    नच नश्यदवस्थायां स्वाकार्यं तस्य युज्यते । कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥५१॥

    அதன்

  46. The Vision of Śiva 6.70
    किं विधाय घटं नो वा स मृत्पिण्डोऽभिधीयताम् । अकृत्वाकरणं कुम्भे कृत्वा तस्य स्वरूपिता ॥७०॥

    அதன் (களிமண்ணின்)

  47. The Vision of Śiva 6.74
    कपालादिकजन्यत्वमभावस्तस्य संगता । सत्यस्य कारणापेक्षा घटादिजनने यथा ॥७४॥

    அதன்

  48. The Vision of Śiva 6.106
    तस्याधिकमहेशित्वे मोक्षे न्यूनाधिके स्थितिः । बहूनां नायकत्वेऽपि नायकत्वं विहन्यते ॥१०६॥

    அவர்களுள் ஒருவனுக்கு

  49. The Vision of Śiva 6.113
    निजं तस्य न हीयेत तद्वत् परमकारणे । यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥११३॥

    அவனுடைய (அரசனுடைய)

  50. The Vision of Śiva 7.19
    तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः । भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥१९॥

    அதன் (இச்சையின்)

  51. The Vision of Śiva 7.115
    स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥

    அவனுக்கு

  52. Stanzas on the Divine Pulsation 1.2
    यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥२॥

    அவருக்கு

  53. Stanzas on the Divine Pulsation 1.7
    लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥७॥

    அவனுடைய (சாதகனின்) — ஆ.ஆறா.எகவ.

  54. Stanzas on the Divine Pulsation 1.11
    तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥११॥

    அவனுடைய — ஆ.ஆறா.எகவ.

  55. Stanzas on the Divine Pulsation 1.16
    न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्योपलब्धिलोपोऽस्ति तदा ह्यन्योऽनुपलम्भकः ॥१६॥

    அதன் (உள்ளக தத்துவத்தின்) — ஆ.ஆறா.எகவ.

  56. Stanzas on the Divine Pulsation 1.17
    तस्योपलब्धा सततं त्रिपदाव्यभिचारिणः । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥१७॥

    அதன் (உள்ளக தத்துவத்தின்) — ஆ.ஆறா.எகவ.

  57. Stanzas on the Divine Pulsation 2.6
    अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥६॥

    அதன் — ஆ.ஆறா.எகவ.

  58. Stanzas on the Divine Pulsation 3.14
    परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥१४॥

    அவனின் (பசுவின்) — ஆ.ஆறா.எகவ.

  59. Stanzas on the Divine Pulsation 3.19
    यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥

    அவனுடைய — ஆ.ஆறா.எகவ.

  60. Vijñāna Bhairava Tantra 1.38
    निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् । निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते ॥३८॥

    அவனுக்கு (ஆறாம் வேற்றுமை)

  61. Vijñāna Bhairava Tantra 1.48
    यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः । तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता ॥४८॥

    அவனுக்கு (ஆறாம் வேற்றுமை)