Lemma
tasya
his (Duryodhana's)
Morphology
gen. sg.gen. sg. f.gen. sg. m.gen. sg. m. dem.gen. sg. n.gen. sg. n. dem.m.gen.sg pron
Occurrences
Read in context →- Bhagavad Gītā (Kashmirian recension) 1.12तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२ ॥
his (Duryodhana's)
- Verses on the Recognition of the Lord 2.2नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥२॥
of that (seer)
- Verses on the Recognition of the Lord 5.5न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥
of that
- Verses on the Recognition of the Lord 7.8नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥८॥
of it (the ground)
- Verses on the Recognition of the Lord 7.10किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥१०॥
of it
- Verses on the Recognition of the Lord 12.4कार्यकारणता लोके सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥४॥
of that
- Verses on the Recognition of the Lord 13.7तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका विद्याशक्तिः तिरोधानकरी मायाभिधा पुनः ॥७॥
of that
- Verses on the Recognition of the Lord 13.10त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम् तस्याविभागरूप्य् एकं प्रधानं मूलकारणम् ॥१०॥
of it
- Verses on the Recognition of the Lord 15.9तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी सैषाप्य् अज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥९॥
of him (the individual)
- Karpūrādi Stotra 1.10समन्तादापीनस्तनजघनधृग्यौवनवती- रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् । विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १०॥
his
- Karpūrādi Stotra 1.11समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥
for him
- Karpūrādi Stotra 1.21इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥
his
- Karpūrādi Stotra 1.22कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥
his
- The Great Liberation Tantra 2.9कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते । न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥
for him
- The Great Liberation Tantra 2.42स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया । त्वं परा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ ४२ ॥
his
- The Great Liberation Tantra 3.3केनोपायेन भगवन् परमात्मा प्रसीदति । किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥
his
- The Great Liberation Tantra 3.20धन्या माता पिता तस्य पवित्रं तत्कुलं शिवे । पितरस्तस्य सन्तुष्टा मोदन्ते त्रिदशैः सह । गायन्ति गायनीं गाथां पुलकाञ्चितविग्रहाः ॥ २० ॥
his
- The Great Liberation Tantra 3.25किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः । पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः । तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥ २५ ॥
his
- The Great Liberation Tantra 3.28न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः । सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च । को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥
for him
- The Great Liberation Tantra 3.31मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः । शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥
his
- The Great Liberation Tantra 3.97किं तस्य वैदिकाचारैस्तान्त्रिकैर्वाऽपि तस्य किम् । ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः ॥ ९७ ॥
for him
- Parātrīśikā 1.25तथा हृदयबीजस्थं जगद् एतच् चराचरम् । एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ॥२५॥
for him, his
- The Vision of Śiva 1.6एवं न जातुचित्तस्य वियोगस्त्रितयात्मना ॥६॥
of him
- The Vision of Śiva 1.7यदा तु तस्य चिद्धर्मविभवामोदजृम्भया ॥७॥
of him
- The Vision of Śiva 1.16किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥
his
- The Vision of Śiva 1.25औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना । द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥२५॥
of him
- The Vision of Śiva 1.26बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा । न च तस्य तया योग इति चेदपरस्थितौ ॥२६॥
of him (Śiva)
- The Vision of Śiva 1.27सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥
his
- The Vision of Śiva 1.49एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥
its
- The Vision of Śiva 2.68येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥६८॥
of that (pramāṇa)
- The Vision of Śiva 3.47न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥
its
- The Vision of Śiva 3.51एवं प्रवर्तने तस्य न निमित्तसमुद्गमः ॥५१॥
his
- The Vision of Śiva 3.61अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥६१॥
his
- The Vision of Śiva 3.76वादित्वप्रतिवादित्वे कस्माच्चेत्तस्य तत्स्थिते ॥७६॥
his
- The Vision of Śiva 3.79धर्माधर्मैश्च संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः ॥७९॥
his
- The Vision of Śiva 4.18तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥१८॥
of it
- The Vision of Śiva 4.30व्यतिरेके न युज्येत विज्ञानं हि घटादिषु । मूर्तामूर्तधर्मयोगो घटस्तस्य न गोचरः ॥३०॥
of it (cognition)
- The Vision of Śiva 4.79वाच्यवाचकरूपश्चेत्स एष नियमः कुतः । यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥७९॥
of this one
- The Vision of Śiva 4.105यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥१०५॥
of it
- The Vision of Śiva 4.107अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥१०७॥
of it
- The Vision of Śiva 5.45धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥
of it
- The Vision of Śiva 5.57वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं जज्जन्यं तस्य दृष्टवत् ॥५७॥
of it
- The Vision of Śiva 6.23अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम् । पक्षे द्वितीये ताद्रूप्यं जडत्वादिह तस्य कः ॥२३॥
of it
- The Vision of Śiva 6.46प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते । विद्यारूपादनाशित्वं नहि तत्त्वं विनश्वरम् ॥४६॥
of it
- The Vision of Śiva 6.51नच नश्यदवस्थायां स्वाकार्यं तस्य युज्यते । कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥५१॥
of it
- The Vision of Śiva 6.70किं विधाय घटं नो वा स मृत्पिण्डोऽभिधीयताम् । अकृत्वाकरणं कुम्भे कृत्वा तस्य स्वरूपिता ॥७०॥
of it (the clay)
- The Vision of Śiva 6.74कपालादिकजन्यत्वमभावस्तस्य संगता । सत्यस्य कारणापेक्षा घटादिजनने यथा ॥७४॥
of it
- The Vision of Śiva 6.106तस्याधिकमहेशित्वे मोक्षे न्यूनाधिके स्थितिः । बहूनां नायकत्वेऽपि नायकत्वं विहन्यते ॥१०६॥
of him (one Śiva)
- The Vision of Śiva 6.113निजं तस्य न हीयेत तद्वत् परमकारणे । यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥११३॥
of him (the king)
- The Vision of Śiva 7.19तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः । भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥१९॥
of it (the will)
- The Vision of Śiva 7.115स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥
of him
- Stanzas on the Divine Pulsation 1.2यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥२॥
for him
- Stanzas on the Divine Pulsation 1.7लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥७॥
his (that aspirant's)
- Stanzas on the Divine Pulsation 1.11तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥११॥
for him
- Stanzas on the Divine Pulsation 1.16न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्योपलब्धिलोपोऽस्ति तदा ह्यन्योऽनुपलम्भकः ॥१६॥
of that (inward principle)
- Stanzas on the Divine Pulsation 1.17तस्योपलब्धा सततं त्रिपदाव्यभिचारिणः । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥१७॥
of that (inward principle)
- Stanzas on the Divine Pulsation 2.6अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥६॥
of that
- Stanzas on the Divine Pulsation 3.14परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥१४॥
of him (the paśu)
- Stanzas on the Divine Pulsation 3.19यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥
his
- Vijñāna Bhairava Tantra 1.38निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् । निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते ॥३८॥
for him
- Vijñāna Bhairava Tantra 1.48यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः । तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता ॥४८॥
of him (the yogin)