Lemma

Lemma

ಅದು (ಸ್ಮೃತಿ)

54 verses



Morphology

f.nom.sg pronnom. sg. f.nom. sg. f. dem.
  1. Verses on the Recognition of the Lord 2.4
    सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥४॥

    ಅದು (ಸ್ಮೃತಿ)

  2. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    ಅದು (ಬುದ್ಧಿ)

  3. Verses on the Recognition of the Lord 2.9
    क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥९॥

    ಅದು (ಕ್ರಿಯೆ)

  4. Verses on the Recognition of the Lord 4.7
    या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥७॥

    ಅದು (ಅವಸಾ)

  5. Verses on the Recognition of the Lord 5.14
    सा स्फुरत्ता महासत्ता देशकालाविशेषिनी सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥१४॥

    ಆ (ಚಿತಿಯೇ)

  6. Verses on the Recognition of the Lord 7.13
    धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥१३॥

    ಆ (ಬಾಧೆಯೇ)

  7. Verses on the Recognition of the Lord 8.6
    आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥६॥

    ಅದು (ಆ ಅರ್ಥಕ್ರಿಯೆ)

  8. Verses on the Recognition of the Lord 11.9
    सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥९॥

    ಅದು (ಆ ಅರ್ಥಕ್ರಿಯೆ / ಪ್ರವೃತ್ತಿ)

  9. Verses on the Recognition of the Lord 11.12
    अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥१२॥

    ಅದು (ಆ ಅರ್ಥಕ್ರಿಯೆ)

  10. Verses on the Recognition of the Lord 12.1
    एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून् भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा ॥१॥

  11. Verses on the Recognition of the Lord 12.4
    कार्यकारणता लोके सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥४॥

    ಅದು (ಕಾರ್ಯ-ಕಾರಣತೆ)

  12. Verses on the Recognition of the Lord 13.5
    अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् परताहन्तयाच्छादात् परापरदशा हि सा ॥५॥

    ಅದು (ಸದ್ವಿದ್ಯೆ)

  13. Verses on the Recognition of the Lord 13.6
    भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥६॥

    ಅದು

  14. Verses on the Recognition of the Lord 15.6
    सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोह् द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥६॥

    ಅದು (ಆ ಕ್ರಿಯೆಯೇ)

  15. The Vision of Śiva 1.3
    स यदास्ते चिदाह्लादमात्रानुभवतल्लयः । तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥३॥

  16. The Vision of Śiva 1.8
    विचित्ररचनानानाकार्यसृष्टिप्रवर्तने । भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः ॥८॥

  17. The Vision of Śiva 1.9
    सा च दृश्या हृदुद्देशे कार्यस्मरणकालतः । प्रहर्षावेदसमये दरसंदर्शनक्षणे ॥९॥

    ಆ (ಉನ್ಮುಖತೆ)

  18. The Vision of Śiva 1.16
    किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥

  19. The Vision of Śiva 1.17
    औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता । नैचान्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥१७॥

  20. The Vision of Śiva 1.19
    यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया । तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥१९॥

  21. The Vision of Śiva 1.21
    ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥

  22. The Vision of Śiva 1.24
    घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥

  23. The Vision of Śiva 1.26
    बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा । न च तस्य तया योग इति चेदपरस्थितौ ॥२६॥

  24. The Vision of Śiva 1.27
    सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥

  25. The Vision of Śiva 1.46
    एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥४६॥

  26. The Vision of Śiva 2.1
    अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥१॥

  27. The Vision of Śiva 2.2
    इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥२॥

  28. The Vision of Śiva 2.24
    बहिर्भावान्विसृज्यादौ पश्चात्पश्यति साथ किम् ॥२४॥

    ಅದು

  29. The Vision of Śiva 2.29
    स्वधर्मत्वेऽस्या मालिन्यं परधर्मेऽपि कस्य सा । परस्य शास्त्रानिष्टस्य स्वतन्त्रा वा तथापि सा ॥२९॥

    ಅದು

  30. The Vision of Śiva 2.38
    तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया । सा जन्या हेतुना केन शबलां जनयेदसौ ॥३८॥

    ಅವಳು

  31. The Vision of Śiva 2.43
    प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता ॥४३॥

    ಅವಳು

  32. The Vision of Śiva 2.45
    अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ॥४५॥

    ಅವಳು

  33. The Vision of Śiva 2.51
    आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः । किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥५१॥

    ಅವಳು

  34. The Vision of Śiva 2.52
    अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः । भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥५२॥

    ಅವಳು

  35. The Vision of Śiva 2.56
    पश्यन्तं सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥५६॥

    ಅವಳು

  36. The Vision of Śiva 2.64
    प्रतिभा कथिता या वा सानुमानं न तच्च ते ॥६४॥

    ಅದು

  37. The Vision of Śiva 2.65
    स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥६५॥

    ಅವಳು

  38. The Vision of Śiva 2.68
    येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥६८॥

    ಅವಳು

  39. The Vision of Śiva 2.85
    सा स्थिता पूर्वतस्तस्या इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥८५॥

    ಅವಳು (ಪೂರ್ವ ಭಾಗವಾದ ಪಶ್ಯಂತೀ)

  40. The Vision of Śiva 2.87
    स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः । इष्यते ब्रह्मरूपत्वं घटादेरपि कथ्यताम् ॥८७॥

    ಅವಳು

  41. The Vision of Śiva 2.88
    यथा सर्वपदार्थानां भगवच्छिवरूपता । तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा ॥८८॥

  42. The Vision of Śiva 2.89
    कण्ठादौ वदने वायौ व्यापारो वाग्रुतस्य सा । करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥८९॥

    ಅದು

  43. The Vision of Śiva 3.31
    इच्छावत्कार्यनिष्पत्त्या पुनरिच्छान्तरोद्गमे । शिवस्य हेतुर्वक्तव्यो यदर्थं सा नवोद्गता ॥३१॥

    ಆ (ಇಚ್ಛೆ)

  44. The Vision of Śiva 3.64
    तदैक्यं खेटपालोऽपि प्राह या काचन स्थिता । शक्तिः पदार्थ जातस्य देवदेवस्य साखिला ॥६४॥

    ಅದು

  45. The Vision of Śiva 4.120
    तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥१२०॥

  46. The Vision of Śiva 5.29
    तथाकारगुणत्वान्न द्रव्याच्च चलनं पृथक् । शक्तेर्नचापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥२९॥

    ಅದು (ಶಕ್ತಿ)

  47. The Vision of Śiva 5.76
    तदहर्जातकस्यापि वासना सान्यजन्मजा । तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥७६॥

    ಅದು

  48. The Vision of Śiva 5.94
    अग्रकव्यवधानादेरथ चेत्कार्यनाशिता । पदार्थवित्प्रक्रियया प्रक्रिया प्रक्रियैव सा ॥९४॥

  49. The Vision of Śiva 6.19
    न चाविद्या बाधिकास्य यतः साधनमस्य सा । प्रोक्तं भगवतो वीर्येणेत्याद्यैस्तत्त्वदर्शनैः ॥१९॥

    ಅದು

  50. The Vision of Śiva 6.29
    प्रकृत्यादीश्वरत्वेन सर्वदैव तदात्मता । संवित्तिशून्यब्रह्मत्ववादिनां जडतैव सा ॥२९॥

    ಆ (ಬ್ರಹ್ಮ)

  51. The Vision of Śiva 7.116
    रूपयौवनसौभाग्यबन्धुरा सा गता दृशम् । दृष्ट्वा तां लक्षणैर्युक्तां योग्यां कन्यामथात्मनः ॥११६॥

    ಅವಳು

  52. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    ಅದು (ಅವಸ್ಥೆ) — ಸ್ತ್ರೀ.ಕರ್ತ.ಏಕ.

  53. Stanzas on the Divine Pulsation 3.8
    ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ॥८॥

    ಅದು (ಗ್ಲಾನಿ) — ಸ್ತ್ರೀ.ಕರ್ತ.ಏಕ.

  54. Stanzas on the Divine Pulsation 3.16
    सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥१६॥

    ಅವಳು — ಸ್ತ್ರೀ.ಕರ್ತ.ಏಕ.