Lemma

Lemma

tu

ஆனால், அப்போது

60 verses



Morphology

indecl.particle
  1. Bhagavad Gītā (Kashmirian recension) 1.2
    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥

    ஆனால், அப்போது

  2. Bhagavad Gītā (Kashmirian recension) 1.7
    अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ १-७ ॥

    ஆனால்

  3. Verses on the Recognition of the Lord 3.2
    दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥२॥

    ஆனால், மட்டும்

  4. Verses on the Recognition of the Lord 6.2
    भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥२॥

    ஆனால்

  5. Verses on the Recognition of the Lord 6.9
    किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु ॥९॥

    ஆனால், மறுபுறம்

  6. Verses on the Recognition of the Lord 7.13
    धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥१३॥

    ஆனால், மாறாக

  7. Verses on the Recognition of the Lord 8.1
    तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्व चित् आभासा अन्यथान्यत्र त्व् अन्धान्धतमसादिषु ॥१॥

    ஆனால்

  8. Verses on the Recognition of the Lord 8.4
    गाढम् उल्लिख्यमाने तु विकल्पेन सुखादिके तथा स्थितिस् तथैव स्यात् स्फुटम् अस्योपलक्षणात् ॥४॥

    ஆனால், திண்ணமாக

  9. Verses on the Recognition of the Lord 9.4
    क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥४॥

    ஆனால்

  10. Verses on the Recognition of the Lord 9.7
    देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु ॥७॥

    ஆனால், மறுபுறம்

  11. Verses on the Recognition of the Lord 11.9
    सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥९॥

    ஆனால்

  12. Verses on the Recognition of the Lord 11.16
    प्रमातरि पुराणे तु सर्वदा भातविग्रहे किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥१६॥

    ஆனால்

  13. Verses on the Recognition of the Lord 12.2
    जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥२॥

    ஆனால்

  14. Verses on the Recognition of the Lord 12.13
    कार्यम् अव्यभिचार्यस्य लिङ्गम् अन्यप्रमातृगात् तदाभासस् तदाभासाद् एव त्व् अधिपतेः परः ॥१३॥

    ஆனால்

  15. Verses on the Recognition of the Lord 12.19
    न च युक्तं जडस्यैवं भेदाभेदविरोधतः आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥१९॥

    ஆனால்

  16. Verses on the Recognition of the Lord 13.2
    किं त्व् आन्तरदशोद्रेकात् सादाख्यं तत्त्वम् आदितः बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥२॥

    ஆனால்

  17. Verses on the Recognition of the Lord 13.8
    भेदे त्व् एकरसे भाते ऽहंतयानात्मनीक्षिते शून्ये बुद्धे शरीरे वा मायाशक्तिर् विजृम्भते ॥८॥

    ஆனால்

  18. Verses on the Recognition of the Lord 14.5
    भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥५॥

    ஆனால்

  19. Verses on the Recognition of the Lord 14.8
    शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥८॥

    ஆனால்

  20. Verses on the Recognition of the Lord 14.17
    सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ॥१७॥

    ஆனால்

  21. Verses on the Recognition of the Lord 15.8
    ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥८॥

    ஆனால்

  22. Verses on the Recognition of the Lord 15.14
    सर्वथा त्व् अन्तरालीनानन्ततत्त्वौघनिर्भरः शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥१४॥

    ஆனால்

  23. Karpūrādi Stotra 1.15
    श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥

    திண்ணமாக

  24. Karpūrādi Stotra 1.21
    इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥

    திண்ணமாக

  25. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    இந்த

  26. The Great Liberation Tantra 3.35
    मन्त्रचैतन्यमेतत्तु तदधिष्ठातृदेवता । तज्ज्ञानं परमेशानि भक्तानां सिद्धिदायकम् ॥ ३५ ॥

    திண்ணமாக

  27. The Great Liberation Tantra 3.120
    सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः । न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च । महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

    திண்ணமாக

  28. The Great Liberation Tantra 3.126
    प्रातःकृत्यं प्रातरेव सन्ध्यां कुर्यात् त्रिकालतः । मध्याह्ने पूजनं कुर्यात् सर्वतन्त्रेष्वयं विधिः । परब्रह्मोपासने तु साधकेच्छाविधिः शिवे ॥ १२६ ॥

    ஆனால்

  29. The Great Liberation Tantra 3.149
    ब्रह्ममन्त्रोपासिता ये गृहस्था ब्राह्मणादयः । स्वस्ववर्णोत्तमारते तु पूज्या मान्या विशेषतः ॥ १४९ ॥

    திண்ணமாக

  30. Parātrīśikā 1.2
    एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो । हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥२॥

    ஆனால், திண்ணமாக

  31. Parātrīśikā 1.12
    मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः । स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः ॥१२॥

    ஆனால், திண்ணமாக

  32. Parātrīśikā 1.30
    तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः । सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् ॥३०॥

    மற்றும், திண்ணமாக

  33. Śiva Sūtras 3.34
    तद्विमुक्तस्तु केवली ॥३४॥

    உண்மையில்

  34. Śiva Sūtras 3.35
    मोहप्रतिसंहतस्तु कर्मात्मा ॥३५॥

    ஆனால்

  35. The Vision of Śiva 1.7
    यदा तु तस्य चिद्धर्मविभवामोदजृम्भया ॥७॥

    ஆனால்

  36. The Vision of Śiva 2.11
    अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥११॥

    ஆனால்

  37. The Vision of Śiva 2.81
    शब्दस्य विषयाख्यस्य मिश्रत्वेनेन्द्रियस्य तु । सर्वदर्शनविज्ञानशून्यता पदवेदिनाम् ॥८१॥

    திண்ணமாக

  38. The Vision of Śiva 3.11
    कथिता कालपादादौ नादाख्यं यत्परं त्विति । परापरादिभेदश्च तत्रैव प्रतिपादितः ॥११॥

    ஆனால்

  39. The Vision of Śiva 3.25
    एवं सति समग्रस्य व्यवहारस्य भङ्गिता । तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥२५॥

    ஆனால்

  40. The Vision of Śiva 3.70
    विभिन्नशिवपक्षे तु सत्ये दार्ढ्यं परत्र नो । प्रतीतिमात्रमेवात्र तावता बन्धमोक्षता ॥७०॥

    ஆனால்

  41. The Vision of Śiva 3.96
    एकस्मिन्नेव देहे तु विभेदात्परमाणुगात् ॥९६॥

    ஆனால்

  42. The Vision of Śiva 4.10
    व्यवहारस्तु दीनारैरेतैरव्यवहारगैः ॥१०॥

    ஆனால்

  43. The Vision of Śiva 4.52
    अपृथग्वा पृथक्त्वे तु पटादेः करणं न किम् । अनुपादानतैव स्यादपृथक्त्वे स एव सः ॥५२॥

    ஆனால்

  44. The Vision of Śiva 4.97
    क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपिवा । स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥९७॥

    ஆனால்

  45. The Vision of Śiva 5.19
    प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् । सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥१९॥

    ஆனால்

  46. The Vision of Śiva 5.50
    सम्बन्धो ग्रहकाले तु नचोर्ध्वावयवैर्भवेत् । वह्नेर्दूरतरस्थित्या वह्निश्लिष्टेष्वलक्ष्यता ॥५०॥

    ஆனால்

  47. The Vision of Śiva 5.93
    एतदेव हि युक्तं तु घटादेर्बाह्यमेकतः । कुड्यादिनिर्गताच्चैव योगिनां क्वापि दर्शनात् ॥९३॥

    உண்மையில்

  48. The Vision of Śiva 7.34
    प्रतीत्युद्गमकाले तु सार्वभाव्यादसौ विभुः । सृष्टानुभवदो रूढेरमूर्तज्ञानचिल्लयात् ॥३४॥

    ஆனால்

  49. The Vision of Śiva 7.80
    यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः । तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम् ॥८०॥

    உண்மையில்

  50. Stanzas on the Divine Pulsation 1.17
    तस्योपलब्धा सततं त्रिपदाव्यभिचारिणः । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥१७॥

    ஆனால், என்றாலும் (எதிர்மறை)

  51. Stanzas on the Divine Pulsation 1.18
    ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मात्रः ॥१८॥

    ஆனால், என்றாலும் (எதிர்மறை)

  52. Stanzas on the Divine Pulsation 1.20
    अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥२०॥

    ஆனால், என்றாலும் (எதிர்மறை)

  53. Stanzas on the Divine Pulsation 3.3
    अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥३॥

    ஆனால், என்றாலும் (எதிர்மறை)

  54. Stanzas on the Divine Pulsation 3.9
    एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥९॥

    ஆனால், என்றாலும் (எதிர்மறை)

  55. Stanzas on the Divine Pulsation 3.19
    यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥

    ஆனால், என்றாலும் (எதிர்மறை)

  56. The Essence of the Tantra 14.10
    असति वित्ते तु महामण्डलयागो न कर्तव्य एव

    but

  57. The Essence of the Tantra 14.17
    मुमुक्षोस् तु शुभाशुभम् उभयम् अपि

    but

  58. The Essence of the Tantra 14.18
    निर्बीजायां तु समयपाशान् अपि शोधयेत् सा च आसन्नमरणस्य अत्यन्तमूर्खस्यापि कर्तव्या इति परमेश्वराज्ञा तस्यापि तु गुरुदेवताग्निभक्तिनिष्ठत्वमात्रात् सिद्धिः

    but

  59. The Essence of the Tantra 15.4
    बुभुक्षोस् तु द्वितीया पूर्णाहुतिः

    but

  60. The Essence of the Tantra 20.33
    तिथेर् एव विशेषलाभात् अनुयागकालानुवृत्तिस् तु पर्वदिने मुख्या अनुयागप्राधान्यात् पर्वयागानाम् अनुयागो मूर्तियागः चक्रयागः इति पर्यायाः

    but