Lemma

Lemma

atra

here

58 verses



Morphology

adv.indecl.
  1. Bhagavad Gītā (Kashmirian recension) 1.4
    अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४ ॥

    here

  2. Verses on the Recognition of the Lord 2.2
    नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥२॥

    here, in this (cognition)

  3. Verses on the Recognition of the Lord 5.5
    न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥

    here, in this case

  4. Verses on the Recognition of the Lord 7.8
    नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥८॥

    here

  5. Verses on the Recognition of the Lord 11.17
    अप्रवर्तितपूर्वो ऽत्र केवलं मूढतावशात् शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते ॥१७॥

    here, in this case

  6. Verses on the Recognition of the Lord 13.5
    अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् परताहन्तयाच्छादात् परापरदशा हि सा ॥५॥

    here (at this level)

  7. Verses on the Recognition of the Lord 13.11
    त्रयोदशविधा चात्र बाह्यान्तःकरणावली कार्यवर्गश् च दशधा स्थूलसूक्ष्मत्वभेदतः ॥११॥

    here, among these

  8. Verses on the Recognition of the Lord 15.16
    इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति ॥१६॥

    here, in this (path)

  9. The Great Liberation Tantra 2.52
    बहुनाऽत्र किमुक्तेन तवाऽग्रे कथ्यते प्रिये । ध्येयः पूज्यः सुखाराध्यस्तं विना नास्ति मुक्तये ॥ ५२ ॥

    here

  10. The Great Liberation Tantra 3.15
    न तिथिर्न च नक्षत्रं न राशिगणनं तथा । कुलाकुलादिनियमो न संस्कारोऽत्र विद्यते । सर्वथा सिद्धमन्त्रोऽयं नात्र कार्या विचारणा ॥ १५ ॥

    herein

  11. The Great Liberation Tantra 3.96
    पुण्यायन्ते क्रियाः सर्वाः सुषुप्तिः सुकृतायते । स्वेच्छाचारोऽत्र विहितो महामन्त्रस्य साधने ॥ ९६ ॥

    herein

  12. The Great Liberation Tantra 3.115
    भक्ष्याभक्ष्यविचारोऽत्र त्याज्यं ग्राह्यं न विद्यते । न कालशुद्धिनियमो न वा स्थाननिरूपणम् ॥ ११५ ॥

    herein

  13. The Vision of Śiva 1.24
    घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥

    here

  14. The Vision of Śiva 1.45
    दृश्यन्तेऽत्र तदिच्छातो भावा भीत्यादियोगतः ॥४५॥

    here

  15. The Vision of Śiva 1.48
    एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र श्रद्दधानैरुदाहृतः ॥४८॥

    here

  16. The Vision of Śiva 2.15
    अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥१५॥

    here

  17. The Vision of Śiva 2.53
    आत्मानमात्मना हन्ति देवदत्तो यथा यथा । भविष्यत्यत्र तत्रास्य स्वाङ्गैरेव विभागिता ॥५३॥

    here

  18. The Vision of Śiva 3.21
    इत्युक्तेऽत्र समाक्षेपः पक्षस्यास्य विधीयते । आदौ तावद्विकारित्वं शिवतत्त्वस्य जायते ॥२१॥

    here

  19. The Vision of Śiva 3.26
    नानावादैः स्वसिद्धान्तैः साकमत्र विरोधिता । सर्वभावशिवत्वेन नास्तिता बन्धमोक्षयोः ॥२६॥

    here

  20. The Vision of Śiva 3.34
    क्षीरमायाप्रकृतिवद्यावतश्चैव यावती । शिवस्य तादृगात्ममुत्पद्येतात्र योगिवत् ॥३४॥

    here

  21. The Vision of Śiva 3.35
    इच्छया सर्वभावत्वमनेकात्मत्वमेव च । नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥३५॥

    here

  22. The Vision of Śiva 3.41
    न तथा जडता क्वापि तथाग्रे सुविचारितैः । वर्णयिष्याम एवात्र न च सावयवः क्वचित् ॥४१॥

    here

  23. The Vision of Śiva 3.47
    न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥

    here

  24. The Vision of Śiva 3.60
    अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥६०॥

    here

  25. The Vision of Śiva 3.62
    जलाहरणशक्तश्च घटो यदि न भण्यते । घटः केवल एवात्र तदेवंविधमुच्यताम् ॥६२॥

    here

  26. The Vision of Śiva 3.70
    विभिन्नशिवपक्षे तु सत्ये दार्ढ्यं परत्र नो । प्रतीतिमात्रमेवात्र तावता बन्धमोक्षता ॥७०॥

    here

  27. The Vision of Śiva 3.71
    नासत्ये सत्यबुद्धित्वखण्डनात्रास्ति काचन । कथनं सर्वसाम्याय विवादिहननाय च ॥७१॥

    here

  28. The Vision of Śiva 3.88
    न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥८८॥

    here

  29. The Vision of Śiva 4.26
    नैवमत्र स्वभावत्वे विरोधो बाधनात्मकः । स विवेकदृशा ज्ञेयो न स्वभावेन कुत्रचित् ॥२६॥

    here

  30. The Vision of Śiva 4.35
    सत्कार्यं नोपपन्नं चेत्सतः किं करणेन यत् । अभिव्यक्तिरथास्यात्र क्रियते सापि किं सती ॥३५॥

    here

  31. The Vision of Śiva 4.41
    बहूनां कल्पनीयात्र नच वा व्यतिरेकतः । व्यक्तिः स्थिता पदार्थानां घटो व्यक्तोऽभिधीयते ॥४१॥

    here

  32. The Vision of Śiva 4.58
    इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता । असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥५८॥

    here

  33. The Vision of Śiva 4.65
    मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता । सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥६५॥

    here

  34. The Vision of Śiva 4.77
    कथं न देवदत्तस्य यज्ञदत्तवदाख्यया । अत्र संकेतितत्वाच्चेत् संकेतेनात्र किं कृतम् ॥७७॥

    here

  35. The Vision of Śiva 4.86
    सादृश्यादथ चेन्नास्ति याथात्म्येन समागमः । नच वात्रानुमानत्वं धूमतः केवलाद्भवेत् ॥८६॥

    here

  36. The Vision of Śiva 4.88
    धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च । इतरेतरदोषोऽत्र दुर्निवारः प्रसज्यते ॥८८॥

    here

  37. The Vision of Śiva 4.109
    एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥१०९॥

    here

  38. The Vision of Śiva 4.116
    किमात्मप्रेरणेनात्र ज्ञातेऽज्ञातेऽथवा बहिः । ज्ञाते तु ज्ञानरूपत्वात् प्रेरणं केन हेतुना ॥११६॥

    here

  39. The Vision of Śiva 4.123
    परस्परेण चाप्यत्र तेषां रूपेण वान्यथा । तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥१२३॥

    here

  40. The Vision of Śiva 5.19
    प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् । सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥१९॥

    here

  41. The Vision of Śiva 5.23
    नान्यथा ग्रहणं तेषां देवदत्तेन चेद्भवेत् । देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥२३॥

    here

  42. The Vision of Śiva 5.28
    शक्तिर्घटेऽत्र किं कुर्यागृहित्वान्तरथाविशेत् । बुध्नोदरादिकं तत्तु गृहीत्वा नच युज्यते ॥२८॥

    here

  43. The Vision of Śiva 5.36
    अन्धादेरन्यदृष्ट्यात्र घटः किं प्रथते न चेत् । शिवत्वस्य तथा व्यक्तेर्घटस्येच्छा तथास्ति वा ॥३६॥

    here

  44. The Vision of Śiva 5.46
    देशोऽपि न गृहीतोऽत्र धूमलेखानुरूपतः । नचापि निम्ने ह्रस्वे वा निश्चयोऽत्रावगम्यते ॥४६॥

    here

  45. The Vision of Śiva 5.53
    कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता । अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥५३॥

    here

  46. The Vision of Śiva 5.55
    स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥५५॥

    here

  47. The Vision of Śiva 5.69
    यैरुक्तं सिद्धसाध्यत्वं सामान्ये तन्न दूषणम् । अत्रेति तत्प्रयोगत्वाद्दिग्देशाद्यैर्विशेषिता ॥६९॥

    here

  48. The Vision of Śiva 6.75
    नश्वरानश्वरत्वेऽपि स्वभावे प्रविकल्पनाः । अत्र नैव प्रवर्तन्ते हेतुसन्निधिनश्वराः ॥७५॥

    here (on our view)

  49. The Vision of Śiva 6.84
    शून्यस्य बोधाभावत्वात् कः केनात्र विबोध्यते । नहि शून्यस्य शून्येन बोधनं न च बाधनम् ॥८४॥

    here

  50. The Vision of Śiva 6.96
    बन्धमोक्षाद्यभावेन निर्मलोऽत्र करोति किम् । नच वा प्रत्ययं गच्छेत् झटित्येकोक्तिमात्रतः ॥९६॥

    here

  51. The Vision of Śiva 6.104
    तत्र कर्म निमित्तं चेद्योगेनाप्यत्र संक्रमः । एकबोधो बोधशतैरभिभूतो भवेत्तदा ॥१०४॥

    here

  52. The Vision of Śiva 6.115
    तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता । मोक्षता चोपपद्येत निर्मलं समलं तथा ॥११५॥

    here

  53. The Vision of Śiva 7.33
    पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि । सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥३३॥

    here

  54. The Vision of Śiva 7.78
    ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते । भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी ॥७८॥

    here

  55. The Vision of Śiva 7.86
    अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते । संकल्पाञ्जनयन्नस्मि स्थितः शब्दानतो मुखे ॥८६॥

    here

  56. Stanzas on the Divine Pulsation 1.14
    अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥१४॥

    here (in this Self)

  57. Stanzas on the Divine Pulsation 1.15
    कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिँल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥१५॥

    here (in deep sleep)

  58. The Essence of the Tantra 9.49
    अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्त्तिके च

    here, in this matter