Lemma

Lemma

syāt

ಆಗಿರಬೇಕು, ಇರಬೇಕು

57 verses



Morphology

3 sg. opt.3 sg. opt. (√as)3 sg. opt. √as3rd sg. opt.3sg. opt.3sg. opt. √asverb 3.sg.opt √as
  1. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    ಆಗಿರಬೇಕು, ಇರಬೇಕು

  2. Verses on the Recognition of the Lord 2.5
    यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥५॥

    ಇದ್ದೀತು

  3. Verses on the Recognition of the Lord 2.6
    ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् संस्कारात् स्मृइतिसिद्धौ स्यात् स्मर्ता द्रष्टेव कल्पितः ॥६॥

    ಇದ್ದೀತು, ಆಗಬಹುದು

  4. Verses on the Recognition of the Lord 3.7
    न चेद् अन्तःकृतानन्तविश्वरूपो महेश्वरः स्याद् एकश् चिद्वपुर् ज्ञानस्मृत्यपोहनशक्तिमान् ॥७॥

    ಇರುತ್ತಿದ್ದನು (ಇದ್ದರೆ)

  5. Verses on the Recognition of the Lord 5.2
    प्रागिवार्थो ऽप्रकाशः स्यात् प्रकाशात्मतया विना न च प्रकाशो भिन्नः स्याद् आत्मार्थस्य प्रकाशता ॥२॥

    ಆಗಿರುತ್ತಿತ್ತು, ಆದೀತು

  6. Verses on the Recognition of the Lord 6.2
    भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥२॥

    ಆಗಬೇಕು, ಇರಬೇಕು

  7. Verses on the Recognition of the Lord 7.11
    पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥

    ಇರಬಹುದು

  8. Verses on the Recognition of the Lord 7.12
    एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥१२॥

    ಆಗದು, ಇರದು

  9. Verses on the Recognition of the Lord 8.4
    गाढम् उल्लिख्यमाने तु विकल्पेन सुखादिके तथा स्थितिस् तथैव स्यात् स्फुटम् अस्योपलक्षणात् ॥४॥

    ಆಗುತ್ತದೆ, ಇರುತ್ತದೆ

  10. Verses on the Recognition of the Lord 9.2
    सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः घटते न तु शाश्वत्याः प्राभव्याः स्यात् प्रभोर् इव ॥२॥

    ಆದೀತು, ಇರುತ್ತಿತ್ತು

  11. Verses on the Recognition of the Lord 10.7
    एवम् एवर्थसिद्धिः स्यान् मातुर् अर्थक्रियार्थिनः भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी ॥७॥

    ಆಗುತ್ತದೆ, ಉಂಟಾಗುತ್ತದೆ

  12. Verses on the Recognition of the Lord 11.9
    सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥९॥

    ಆದೀತು, ಆಗುತ್ತದೆ

  13. Verses on the Recognition of the Lord 12.18
    एकात्मनो विभेदश् च क्रिया कालक्रमानुगा तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥१८॥

    ಆಗುತ್ತದೆ, ಆದೀತು

  14. Karpūrādi Stotra 1.18
    त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥

    ಆಗುತ್ತಾನೆ

  15. Karpūrādi Stotra 1.20
    वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः । परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥ २०॥

    ಆಗುತ್ತಾನೆ

  16. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    ಆದೀತು

  17. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    ಆಗಬಲ್ಲನು

  18. The Great Liberation Tantra 3.32
    अतोऽस्यार्थञ्च चैतन्यं कथयामि शृणु प्रिये । अकारेण जगत्पाता संहर्ता स्यादुकारतः ॥ ३२ ॥

    ಆಗುತ್ತಾನೆ

  19. The Great Liberation Tantra 3.99
    अस्मिन् धर्मे महेशि स्यात् सत्यवादी जितेन्द्रियः । परोपकारनिरतो निर्विकारः सदाशयः ॥ ९९ ॥

    ಆಗಿರಬೇಕು

  20. The Great Liberation Tantra 3.101
    ब्रह्मश्रोता ब्रह्ममन्ता ब्रह्मान्वेषणमानसः । यतात्मा दृढबुद्धिः स्यात् साक्षाद्ब्रह्मेति भावयन् ॥ १०१ ॥

    ಆಗಿರಬೇಕು

  21. Śiva Sūtras 3.45
    भूयः स्यात्प्रतिमीलनम् ॥४५॥

    ಸ್ಯಾತ್ (ಇರಲಿ)

  22. The Vision of Śiva 1.11
    कुत्सितेऽकुत्सितस्य स्यात्कथमुन्मुखतेति चेत् ॥११॥

    ಆಗಬಹುದು, ಉಂಟಾಗಬಹುದು

  23. The Vision of Śiva 2.34
    सत्या वा स्यादसत्या वा न मध्यायाः समन्वयः । विद्या न भवतीत्येवं तत्तल्या काचिदापतेत् ॥३४॥

    ಆಗಿರಲಿ

  24. The Vision of Śiva 2.39
    नहि तस्या निमित्तं वा कारणं समवायि वा । निमित्तत्त्वे पृथक्त्वं स्यात्समवाये तदात्मता ॥३९॥

    ಬರುತ್ತದೆ

  25. The Vision of Śiva 2.45
    अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ॥४५॥

    ಆಗಬಲ್ಲಳು

  26. The Vision of Śiva 2.49
    तथापि तद्विभेदन भेदता तदभेदतः । न किंचन गृहीतं स्यात्तथान्या संहृतक्रमा ॥४९॥

    ಆಗುತ್ತದೆ

  27. The Vision of Śiva 2.51
    आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः । किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥५१॥

    ಬರುತ್ತದೆ

  28. The Vision of Śiva 2.57
    किंञ्चित्पश्यति वा सूक्ष्मं तदस्मद्दर्शनान्वयः । कर्मत्वे पारतन्त्र्यं स्यात्तस्या एव निजात्मनि ॥५७॥

    ಬರುತ್ತದೆ

  29. The Vision of Śiva 2.71
    तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥७१॥

    ಆಗಬಹುದು

  30. The Vision of Śiva 3.5
    शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥५॥

    ಆಗುತ್ತಾನೆ

  31. The Vision of Śiva 3.32
    विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् । शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥३२॥

    ಬರುತ್ತದೆ

  32. The Vision of Śiva 3.46
    तथैव स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥४६॥

    ಇರುತ್ತದೆ

  33. The Vision of Śiva 3.49
    हेमपिण्डे हेमतैव स्याच्चेन्न मुकुटादिके ॥४९॥

    ಇರುತ್ತದೆ

  34. The Vision of Śiva 3.54
    निमित्तं कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥५४॥

    ಆಗುತ್ತದೆ

  35. The Vision of Śiva 4.25
    अज्ञानत्वे परिज्ञाते तदा स्यात्स्वविरोधिता । अज्ञानत्वे स्वभावेन विरोधः केन वार्यते ॥२५॥

    ಬರುತ್ತದೆ

  36. The Vision of Śiva 4.32
    शशशृङ्गादिके नापि स्याद्विभक्त्या समन्वयः ॥३२॥

    ಆಗದು

  37. The Vision of Śiva 4.52
    अपृथग्वा पृथक्त्वे तु पटादेः करणं न किम् । अनुपादानतैव स्यादपृथक्त्वे स एव सः ॥५२॥

    ಬರುತ್ತದೆ

  38. The Vision of Śiva 4.99
    तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥९९॥

    ಇರುತ್ತದೆ

  39. The Vision of Śiva 4.100
    मूर्तचोदकवैकल्यान्मनश्चेत्प्रेर्यतास्य नो । एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥१००॥

    ಬರುತ್ತದೆ

  40. The Vision of Śiva 4.119
    यादृग्दृष्टं दृष्टता स्यादथवा ज्ञानमेव तत् । दृष्टस्मरणयोरैक्ये स्थिते तदुपपद्यते ॥११९॥

    ಇರುತ್ತದೆ

  41. The Vision of Śiva 5.74
    तत्रापि व्यञ्जकापेक्षा स्यात् परायत्ततैव हि । अर्थापत्त्यादिना नापि तदनर्होपयोगतः ॥७४॥

    ಇರುತ್ತದೆ

  42. The Vision of Śiva 6.49
    दीपचक्षुः क्रमफलदर्शनात्तदबाधकम् । भावे कथं विनाशित्वं स्याद्विना कारणान्तरम् ॥४९॥

    ಬಂದೀತು

  43. The Vision of Śiva 6.86
    शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् । अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥८६॥

    (ಅಸಂಗತಿ) ಬರುತ್ತದೆ

  44. The Vision of Śiva 6.103
    अकर्महेतुकेऽप्यस्ति योगिनोऽन्यशरीरके । न शवत्वं शरीरे स्यादन्यात्मस्फुरणस्थितेः ॥१०३॥

    ಬರುತ್ತದೆ

  45. The Vision of Śiva 6.116
    रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च । सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥११६॥

    ಆಗಬಲ್ಲದು

  46. The Vision of Śiva 7.59
    संकल्पप्रभवं सर्वं जगदेतदनन्तकम् । सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥५९॥

    ಆಗುತ್ತದೆ

  47. The Vision of Śiva 7.66
    कलने चिद्घनत्वं स्याद्वेदने सर्वचिद्गमः । स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥६६॥

    ಆಗುತ್ತದೆ

  48. The Vision of Śiva 7.69
    नैतच्छास्त्रं विना प्रोक्तं कायाकारेण कायिकम् । जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम् ॥६९॥

    ಆಗುತ್ತದೆ

  49. Stanzas on the Divine Pulsation 1.9
    निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥९॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  50. Stanzas on the Divine Pulsation 1.17
    तस्योपलब्धा सततं त्रिपदाव्यभिचारिणः । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥१७॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  51. Stanzas on the Divine Pulsation 1.25
    तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥२५॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  52. Stanzas on the Divine Pulsation 3.3
    अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥३॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  53. Stanzas on the Divine Pulsation 3.8
    ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ॥८॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  54. Stanzas on the Divine Pulsation 3.9
    एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥९॥

    ಆಗಬಹುದು, ಇರಲಿ (ವಿಧಿ.ಏಕ. √as)

  55. The Essence of the Tantra 9.33
    सौषुप्ते हि तत्त्वावेशवशाद् एव चित्रस्य स्वप्नस्य उदयः स्यात् गृहीतधराभिमानस् तु धरासकलः

    ಆಗಬಹುದು

  56. The Essence of the Tantra 16.5
    समुदितत्वे तु का कथा स्यात् इति परमेश्वरेण उक्तम्

    ಆಗುವುದು

  57. Vijñāna Bhairava Tantra 1.5
    परापरायाः सकलमपरायाश्च वा पुनः । परायाः यदि तद्वत्स्यात्परत्वं तद्विरुध्यते ॥५॥

    ಆಗಿರುತ್ತದೆ