Lemma

Lemma

asti

ਹੈ

55 verses



Morphology

3 sg. pres.3 sg. pres. (√as)3sg. pres.verb 3.sg.pres √as
  1. Verses on the Recognition of the Lord 2.10
    तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः ॥१०॥

    ਹੈ

  2. Verses on the Recognition of the Lord 5.19
    साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥१९॥

    ਹੈ, ਮੌਜੂਦ ਹੈ

  3. Verses on the Recognition of the Lord 6.10
    स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि यथाभिमतसंस्थानाभासनाद् बुद्धिगोचरे ॥१०॥

    ਹੈ, ਮੌਜੂਦ ਹੈ

  4. Verses on the Recognition of the Lord 7.10
    किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥१०॥

    ਮੌਜੂਦ ਹੈ

  5. Verses on the Recognition of the Lord 14.8
    शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥८॥

    ਹੁੰਦਾ ਹੈ

  6. The Great Liberation Tantra 1.12
    विनाऽज्ञया मया किञ्चिद्भाषितुं नैव शक्यते । कृपावलेशो मयि चेत् स्नेहोऽस्ति यदि मां प्रति । तदा निवेद्यते किञ्चिन्मनसा यद्विचारितम् ॥ १२ ॥

    ਹੈ

  7. The Great Liberation Tantra 1.15
    तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् । किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥

    ਹੈ

  8. The Great Liberation Tantra 1.16
    मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम । सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

    ਹੈ

  9. The Great Liberation Tantra 1.34
    त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे । भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः ॥ ३४ ॥

    ਹੈ

  10. The Great Liberation Tantra 1.53
    पशुभावदिव्यभावौ स्वयमेव निवारितौ । कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

    ਟਿਕਦਾ, ਹੈ

  11. The Great Liberation Tantra 2.9
    कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते । न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

    ਹੈ

  12. The Great Liberation Tantra 2.10
    सर्वैर्वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः । प्रतिपाद्योऽस्मि नान्योऽस्ति प्रभुर्जगति मां विना ॥ १० ॥

    ਹੈ

  13. The Great Liberation Tantra 2.54
    न दिक्कालविचारोऽस्ति न मुद्रान्याससंहतिः । यत्साधने कुलेशानि तं विना कोऽन्यमाश्रयेत् ॥ ५४ ॥

    ਹੈ

  14. The Great Liberation Tantra 3.82
    नात्र वर्णविचारोऽस्ति नोच्छिष्टादिविवेचनम् । न कालनियमोऽप्यत्र शौचाशौचं तथैव च ॥ ८२ ॥

    ਹੈ

  15. The Vision of Śiva 1.18
    गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥१८॥

    ਹੁੰਦਾ ਹੈ

  16. The Vision of Śiva 1.44
    योगिनामिच्छया यद्वन्नानारूपोपपत्तिता । नचास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥४४॥

    ਹੁੰਦਾ ਹੈ

  17. The Vision of Śiva 2.89
    कण्ठादौ वदने वायौ व्यापारो वाग्रुतस्य सा । करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥८९॥

    ਹੈ

  18. The Vision of Śiva 3.36
    यथा न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥३६॥

    ਹੈ

  19. The Vision of Śiva 3.53
    शक्तित्रयस्वरूपत्वं सर्वं यत्रास्त्यवस्थितम् ॥५३॥

    ਹੈ

  20. The Vision of Śiva 3.58
    निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥५८॥

    ਹੈ

  21. The Vision of Śiva 3.60
    अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥६०॥

    ਹੈ

  22. The Vision of Śiva 3.67
    साऽरोदीदिति वेदेऽस्ति नार्थवादो निरर्थकः । विध्यङ्गत्वेन चेत्सत्ता नासत्यस्याङ्गता स्थिता ॥६७॥

    ਹੈ

  23. The Vision of Śiva 3.71
    नासत्ये सत्यबुद्धित्वखण्डनात्रास्ति काचन । कथनं सर्वसाम्याय विवादिहननाय च ॥७१॥

    ਹੈ

  24. The Vision of Śiva 3.72
    तदात्मत्वे नास्ति बन्धस्तदभावान्न मोक्षणम् ॥७२॥

    ਹੈ

  25. The Vision of Śiva 3.84
    कटकेऽस्ति सुवर्णत्वं कुण्डले कल्पनास्ति किम् । चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥८४॥

    ਹੈ

  26. The Vision of Śiva 3.88
    न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥८८॥

    ਹੈ

  27. The Vision of Śiva 3.93
    क्रियान्तरेच्छासंभूतौ तन्निमित्तमनन्तता । यतोऽस्ति शिवशक्तीनां ताश्च नित्यमवस्थिताः ॥९३॥

    ਹੈ

  28. The Vision of Śiva 4.62
    तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् । अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥६२॥

    ਹੈ

  29. The Vision of Śiva 4.67
    सामान्यरूपता वास्ति सा चाभिन्ना विशेषतः । भिन्नाभिन्नात्मकः क्वापि पदार्थस्तादृगिष्यते ॥६७॥

    ਹੈ

  30. The Vision of Śiva 4.80
    वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः । इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥८०॥

    ਹੈ

  31. The Vision of Śiva 4.90
    आप्तवाक्यादथास्तीह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥९०॥

    (ਯਥਾਰਥ ਗਿਆਨ) ਹੈ

  32. The Vision of Śiva 4.123
    परस्परेण चाप्यत्र तेषां रूपेण वान्यथा । तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥१२३॥

    ਹੈ

  33. The Vision of Śiva 5.1
    अथ चेत् सर्वभावानां न विना तत्त्वमेककम् । समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥१॥

    ਹੈ

  34. The Vision of Śiva 5.2
    तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते । यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥२॥

    ਹੈ

  35. The Vision of Śiva 5.10
    दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा । निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥१०॥

    ਹੈ

  36. The Vision of Śiva 5.12
    नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि । नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥१२॥

    ਹੈ

  37. The Vision of Śiva 5.21
    तथा वा शिवतत्त्वस्य सम्भूतेरथवातथा । एकैकशोऽस्ति चैतन्यमनभिव्यक्तरूपकम् ॥२१॥

    ਹੈ

  38. The Vision of Śiva 5.27
    प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् । मनसो नच बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥२७॥

    ਹੈ

  39. The Vision of Śiva 5.44
    तत्स्थान एव तज्ज्ञाना संविदेषा विमृश्यताम् । नचाप्यस्त्यनुमानेन परेषां ग्रहणं क्वचित् ॥४४॥

    ਹੈ

  40. The Vision of Śiva 5.47
    अत्रापि क्वापि वास्तीति कल्पना कल्पनैव हि । यत्र यत्र भवेद्धूमस्तत्राग्निरित्यनिश्चयात् ॥४७॥

    ਹੈ

  41. The Vision of Śiva 5.64
    न चापि स्थिरभावानां क्वाप्यस्ति व्यभिचारिता । सूर्यः प्रकाशकः क्वापि काले देशेऽन्यथा भवेत् ॥६४॥

    ਹੈ

  42. The Vision of Śiva 5.70
    न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः । विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥७०॥

    ਹੈ

  43. The Vision of Śiva 5.108
    सर्वस्य सर्वमस्तीह नानाभावात्मरूपकैः । मद्रूपत्वं घटस्यास्ति ममास्ति गह्टरूपता ॥१०८॥

    ਹੈ

  44. The Vision of Śiva 6.16
    पाञ्चरात्रविदश्चान्ये वदन्ति परिनिष्ठितम् । ब्रह्मास्ति वासुदेवाख्यं स एव जगदीश्वरः ॥१६॥

    ਹੈ

  45. The Vision of Śiva 6.27
    ये सांख्या आत्मस्वातन्त्र्यवादिनो येऽप्यनीश्वराः । तत्राप्यस्त्यविवेकाख्यो मलो बन्धविमोक्षता ॥२७॥

    ਹੈ

  46. The Vision of Śiva 6.28
    पृथक्त्वमीश्वरस्यास्ति सर्वात्मभ्यः पृथक्कुतः । न्यायवैशेषिकाणां तु बन्धमोक्षौ पृथक्स्थिती ॥२८॥

    ਹੈ

  47. The Vision of Śiva 6.42
    ज्ञानात्पूर्वमिच्छाजाते ज्ञातृकल्पनमुज्ज्वलम् । न घटो निर्विशेषोऽस्ति ग्रहे यज्ज्ञातृशुद्धता ॥४२॥

    ਹੈ

  48. The Vision of Śiva 6.91
    अभावस्यापि वस्तुत्वे न विनाशोऽस्ति कस्यचित् । अभावस्यपि करणे सम्पत्तिर्नोपपद्यते ॥९१॥

    ਹੈ

  49. The Vision of Śiva 6.103
    अकर्महेतुकेऽप्यस्ति योगिनोऽन्यशरीरके । न शवत्वं शरीरे स्यादन्यात्मस्फुरणस्थितेः ॥१०३॥

    ਹੈ (ਚੇਤਨਾ)

  50. The Vision of Śiva 6.117
    दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा? ॥११७॥

    ਹੈ (ਦ੍ਰਿਸ਼ਟੀਕੋਣ ਵਜੋਂ)

  51. The Vision of Śiva 7.15
    न द्रव्यव्यतिरिक्तास्ति क्रिया नच न विद्यते । न तयापि विना कार्यं किंचनापि हि जायते ॥१५॥

    ਹੈ

  52. The Vision of Śiva 7.58
    प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम् । ममत्वमानसे साधु साधूनां सक्तिमागते ॥५८॥

    ਹੈ

  53. Stanzas on the Divine Pulsation 1.5
    न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥

    ਹੈ, ਮੌਜੂਦ ਹੈ (ਵਰਤ.ਇਕ. √as)

  54. Stanzas on the Divine Pulsation 1.12
    नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥१२॥

    ਹੈ, ਮੌਜੂਦ ਹੈ (ਵਰਤ.ਇਕ. √as)

  55. Stanzas on the Divine Pulsation 1.16
    न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्योपलब्धिलोपोऽस्ति तदा ह्यन्योऽनुपलम्भकः ॥१६॥

    ਹੈ, ਮੌਜੂਦ ਹੈ (ਵਰਤ.ਇਕ. √as)