Lemma

Lemma

saḥ

ಅವನು (ಮಹೇಶ್ವರ, ಪ್ರಮಾತೃ)

51 verses



Morphology

m.nom.sg pronnom. sg. m.nom. sg. m. dem.
  1. Verses on the Recognition of the Lord 4.1
    स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥१॥

    ಅವನು (ಮಹೇಶ್ವರ, ಪ್ರಮಾತೃ)

  2. Verses on the Recognition of the Lord 5.12
    आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥१२॥

    ಅವನು

  3. Verses on the Recognition of the Lord 6.1
    अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥

    ಅದು (ವಿಕಲ್ಪ)

  4. Verses on the Recognition of the Lord 6.5
    प्रमातृत्वेनाहम् इति विमर्शो ऽन्यव्यपोहनात् विकल्प एव स परप्रतियोग्य् अवभासजः ॥५॥

    ಪರ (ಇತರ)ವನ್ನು ಪ್ರತಿಯೋಗಿಯಾಗಿ ಹೊಂದಿದ

  5. Verses on the Recognition of the Lord 6.9
    किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु ॥९॥

    ಅದು (ಆ ಆಂತರಿಕ ಆಭಾಸ)

  6. Verses on the Recognition of the Lord 6.10
    स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि यथाभिमतसंस्थानाभासनाद् बुद्धिगोचरे ॥१०॥

    ಅದು (ಆ ಆಂತರಿಕ ಆಭಾಸ)

  7. Verses on the Recognition of the Lord 7.1
    या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥१॥

    ಅವನು

  8. Verses on the Recognition of the Lord 7.11
    पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥

    ಅದು (ಆ ವಸ್ತು)

  9. Verses on the Recognition of the Lord 8.10
    तदैक्येन विना न स्यात् संविदां लोकपद्धतिः प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥१०॥

    ಅವನು

  10. Verses on the Recognition of the Lord 9.3
    कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥३॥

    ಅದು (ಕಾಲ)

  11. Verses on the Recognition of the Lord 11.2
    सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता ॥२॥

    ಅದು (ಆ ಆಭಾಸ)

  12. Verses on the Recognition of the Lord 12.7
    मातैव कारणं तेन स चाभासद्वयस्थितौ कार्यस्य स्थित एवैकस् तद् एकस्य क्रियोदिता ॥७॥

    ಅವನು

  13. Verses on the Recognition of the Lord 13.9
    यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥९॥

    ಅವನು

  14. Verses on the Recognition of the Lord 14.17
    सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ॥१७॥

    ಅದು

  15. Karpūrādi Stotra 1.2
    ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनमपि च चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे ॥ २॥

    ಅವನು

  16. Karpūrādi Stotra 1.15
    श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥

    ಅವನು

  17. Karpūrādi Stotra 1.17
    स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् । स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी- नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥

    ಅವನು

  18. Karpūrādi Stotra 1.18
    त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥

    ಅವನು

  19. Karpūrādi Stotra 1.20
    वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः । परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥ २०॥

    ಅವನು

  20. Karpūrādi Stotra 1.22
    कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥

    ಅವನು

  21. The Great Liberation Tantra 2.13
    मूढो मन्मतमुत्सृज्य योऽन्यन्मतमुपाश्रयेत् । ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः ॥ १३ ॥

    ಅವನು

  22. The Great Liberation Tantra 2.19
    मद्वक्त्रादुदितं धर्मं हित्वाऽन्यद्धर्ममीहते । अमृतं स्वगृहे त्यक्त्वा क्षीरमार्कं स वाञ्छति ॥ १९ ॥

    ಅವನು

  23. The Great Liberation Tantra 2.34
    स एक एव सद्रूपः सत्योऽद्वैतः परात्परः । स्वप्रकाशः सदापूर्णः सच्चिदानन्दलक्षणः ॥ ३४ ॥

    ಅವನು

  24. The Great Liberation Tantra 2.37
    लोकातीतो लोकहेतुरवाङ्मनसगोचरः । स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ ३७ ॥

    ಅವನು

  25. The Great Liberation Tantra 2.40
    कारणं सर्वभूतानां स एकः परमेश्वरः । लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥ ४० ॥

    ಅವನು

  26. The Great Liberation Tantra 2.51
    यो यो यान् यान् यजेद्देवान् श्रद्धया यद्यदाप्तये । तत्तद्ददाति सोऽध्यक्षस्तैस्तैर्देवगणैः शिवे ॥ ५१ ॥

    ಅವನು

  27. The Great Liberation Tantra 3.18
    स धन्यः स कृतार्थश्च स कृती स च धार्मिकः । स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ १८ ॥

    ಅವನು

  28. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    ಅವನು

  29. The Great Liberation Tantra 3.70
    यः पठेद् ब्रह्मकवचं ऋषिन्यासपुरःसरम् । स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ॥ ७० ॥

    ಅವನು

  30. The Great Liberation Tantra 3.92
    जातिभेदो न कर्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥

    ಅವನು

  31. The Heart of Recognition 1.7
    स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ॥७॥

    ಸಃ — ಅವನು (ಅನುಭವಿ)

  32. The Vision of Śiva 1.3
    स यदास्ते चिदाह्लादमात्रानुभवतल्लयः । तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥३॥

    ಅವನು

  33. The Vision of Śiva 1.16
    किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥

    ಅವನು

  34. The Vision of Śiva 2.5
    सर्वतःक्रमसंहारमात्रमाकारवर्जितम् । ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव सः ॥५॥

    ಅದು

  35. The Vision of Śiva 2.6
    आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया । मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥६॥

  36. The Vision of Śiva 4.15
    मिथ्यात्वं क्रियते कस्य किं काले यत्र तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥१५॥

    ಅದು

  37. The Vision of Śiva 4.22
    यत्र काले सरजतो देशोऽभूत्स गतस्तदा । कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥२२॥

  38. The Vision of Śiva 4.26
    नैवमत्र स्वभावत्वे विरोधो बाधनात्मकः । स विवेकदृशा ज्ञेयो न स्वभावेन कुत्रचित् ॥२६॥

    ಆ (ವಿರೋಧ)

  39. The Vision of Śiva 4.50
    नासंबद्धस्य करणं सत्कार्याच्चेत्स विद्यते । सन्नप्यसावसंवेद्यो व्यञ्जकस्याप्यभावतः ॥५०॥

    ಅದು

  40. The Vision of Śiva 4.58
    इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता । असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥५८॥

    ಆ (ವಸ್ತು)

  41. The Vision of Śiva 5.33
    चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् । भावानां प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥३३॥

    ಅದು

  42. The Vision of Śiva 5.97
    एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता । क्षणभङ्गान्नचैवं हि स निवार्य इहाग्रतः ॥९७॥

    ಆ (ಕ್ಷಣಭಂಗವಾದ)

  43. The Vision of Śiva 7.49
    स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥४९॥

    ಅವನು

  44. The Vision of Śiva 7.76
    चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु । अविनाश्येकपिण्डे वा स भवेदजरामरः ॥७६॥

    ಅವನು

  45. The Vision of Śiva 7.115
    स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥

    ಅವನು

  46. Stanzas on the Divine Pulsation 1.15
    कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिँल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥१५॥

    ಅದು (ಪ್ರಯತ್ನ) — ಪು.ಕರ್ತ.ಏಕ.

  47. Stanzas on the Divine Pulsation 2.5
    इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥५॥

    ಅವನು — ಪು.ಕರ್ತ.ಏಕ.

  48. Stanzas on the Divine Pulsation 3.9
    एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥९॥

    ಅವನು — ಪು.ಕರ್ತ.ಏಕ.

  49. Stanzas on the Divine Pulsation 3.13
    शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ॥१३॥

    ಅವನು — ಪು.ಕರ್ತ.ಏಕ.

  50. Stanzas on the Divine Pulsation 3.14
    परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥१४॥

    ಅವನು — ಪು.ಕರ್ತ.ಏಕ.

  51. The Essence of the Tantra 9.1
    स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः

    ಅದು (ಮೇಲಿನ ವಿಷಯ, ಪ್ರಮಾತೃ ಭೇದ)