Lemma
saḥ
ସେ (ଈଶ୍ୱର, ଜ୍ଞାତା)
Morphology
m.nom.sg pronnom. sg. m.nom. sg. m. dem.
Occurrences
Read in context →- Verses on the Recognition of the Lord 4.1स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥१॥
ସେ (ଈଶ୍ୱର, ଜ୍ଞାତା)
- Verses on the Recognition of the Lord 5.12आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥१२॥
ସେ (ଆତ୍ମା)
- Verses on the Recognition of the Lord 6.1अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥१॥
ସେ (ବିକଳ୍ପ)
- Verses on the Recognition of the Lord 6.5प्रमातृत्वेनाहम् इति विमर्शो ऽन्यव्यपोहनात् विकल्प एव स परप्रतियोग्य् अवभासजः ॥५॥
ସେ (ବିମର୍ଶ)
- Verses on the Recognition of the Lord 6.9किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु ॥९॥
ସେ (ଅନ୍ତର-ଆଭାସ)
- Verses on the Recognition of the Lord 6.10स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि यथाभिमतसंस्थानाभासनाद् बुद्धिगोचरे ॥१०॥
ସେ (ଅନ୍ତର-ଆଭାସ)
- Verses on the Recognition of the Lord 7.1या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥१॥
ସେ
- Verses on the Recognition of the Lord 7.11पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥
ସେ (ପିଶାଚ)
- Verses on the Recognition of the Lord 8.10तदैक्येन विना न स्यात् संविदां लोकपद्धतिः प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥१०॥
ସେ ହିଁ (ଈଶ୍ୱର)
- Verses on the Recognition of the Lord 9.3कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥३॥
ସେ (କାଳ)
- Verses on the Recognition of the Lord 11.2सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता ॥२॥
ସେ (ଆଭାସ)
- Verses on the Recognition of the Lord 12.7मातैव कारणं तेन स चाभासद्वयस्थितौ कार्यस्य स्थित एवैकस् तद् एकस्य क्रियोदिता ॥७॥
ସେ
- Verses on the Recognition of the Lord 13.9यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥९॥
ସେ
- Verses on the Recognition of the Lord 14.17सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ॥१७॥
ସେ
- Karpūrādi Stotra 1.2ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनमपि च चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे ॥ २॥
ରାଜା
- Karpūrādi Stotra 1.15श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥
ଅଷ୍ଟ-ସିଦ୍ଧି-ସମ୍ପନ୍ନ
- Karpūrādi Stotra 1.17स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् । स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी- नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥
ଯୁବତୀ
- Karpūrādi Stotra 1.18त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥
ଭଜନ କରୁଥିବା
- Karpūrādi Stotra 1.20वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः । परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥ २०॥
ଭକ୍ତି-ସମ୍ପନ୍ନ
- Karpūrādi Stotra 1.22कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥
ଜୀବନ୍-ମୁକ୍ତ (ଜୀବିତ ଅବସ୍ଥାରେ ମୁକ୍ତ)
- The Great Liberation Tantra 2.13मूढो मन्मतमुत्सृज्य योऽन्यन्मतमुपाश्रयेत् । ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः ॥ १३ ॥
ସେ
- The Great Liberation Tantra 2.19मद्वक्त्रादुदितं धर्मं हित्वाऽन्यद्धर्ममीहते । अमृतं स्वगृहे त्यक्त्वा क्षीरमार्कं स वाञ्छति ॥ १९ ॥
ସେ
- The Great Liberation Tantra 2.34स एक एव सद्रूपः सत्योऽद्वैतः परात्परः । स्वप्रकाशः सदापूर्णः सच्चिदानन्दलक्षणः ॥ ३४ ॥
ସେ
- The Great Liberation Tantra 2.37लोकातीतो लोकहेतुरवाङ्मनसगोचरः । स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ ३७ ॥
ସେ
- The Great Liberation Tantra 2.40कारणं सर्वभूतानां स एकः परमेश्वरः । लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥ ४० ॥
ସେ
- The Great Liberation Tantra 2.51यो यो यान् यान् यजेद्देवान् श्रद्धया यद्यदाप्तये । तत्तद्ददाति सोऽध्यक्षस्तैस्तैर्देवगणैः शिवे ॥ ५१ ॥
ସେ
- The Great Liberation Tantra 3.18स धन्यः स कृतार्थश्च स कृती स च धार्मिकः । स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ १८ ॥
ସେ
- The Great Liberation Tantra 3.30स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥
ସେ
- The Great Liberation Tantra 3.70यः पठेद् ब्रह्मकवचं ऋषिन्यासपुरःसरम् । स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ॥ ७० ॥
ସେ
- The Great Liberation Tantra 3.92जातिभेदो न कर्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥
ସେ
- The Heart of Recognition 1.7स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ॥७॥
ସେ (ଅନୁଭବକର୍ତ୍ତା)
- The Vision of Śiva 1.3स यदास्ते चिदाह्लादमात्रानुभवतल्लयः । तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥३॥
ସେ
- The Vision of Śiva 1.16किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥
ସେ
- The Vision of Śiva 2.5सर्वतःक्रमसंहारमात्रमाकारवर्जितम् । ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव सः ॥५॥
ତାହା (ସେମାନଙ୍କ ପାଇଁ)
- The Vision of Śiva 2.6आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया । मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥६॥
ସେହି
- The Vision of Śiva 4.15मिथ्यात्वं क्रियते कस्य किं काले यत्र तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥१५॥
ତାହା
- The Vision of Śiva 4.22यत्र काले सरजतो देशोऽभूत्स गतस्तदा । कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥२२॥
ସେହି
- The Vision of Śiva 4.26नैवमत्र स्वभावत्वे विरोधो बाधनात्मकः । स विवेकदृशा ज्ञेयो न स्वभावेन कुत्रचित् ॥२६॥
ସେହି (ବିରୋଧ)
- The Vision of Śiva 4.50नासंबद्धस्य करणं सत्कार्याच्चेत्स विद्यते । सन्नप्यसावसंवेद्यो व्यञ्जकस्याप्यभावतः ॥५०॥
ତାହା
- The Vision of Śiva 4.58इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता । असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥५८॥
ସେହି (ବସ୍ତୁ)
- The Vision of Śiva 5.33चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् । भावानां प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥३३॥
ତାହା
- The Vision of Śiva 5.97एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता । क्षणभङ्गान्नचैवं हि स निवार्य इहाग्रतः ॥९७॥
ସେହି (ସିଦ୍ଧାନ୍ତ)
- The Vision of Śiva 7.49स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥४९॥
ସେ
- The Vision of Śiva 7.76चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु । अविनाश्येकपिण्डे वा स भवेदजरामरः ॥७६॥
ସେ
- The Vision of Śiva 7.115स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥
ସେ
- Stanzas on the Divine Pulsation 1.15कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिँल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥१५॥
ତାହା (ପ୍ରଯତ୍ନ) — ପୁ.କର୍ତ୍ତା.ଏକ.
- Stanzas on the Divine Pulsation 2.5इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥५॥
ସେ — ପୁ.କର୍ତ୍ତା.ଏକ.
- Stanzas on the Divine Pulsation 3.9एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥९॥
ସେ — ପୁ.କର୍ତ୍ତା.ଏକ.
- Stanzas on the Divine Pulsation 3.13शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ॥१३॥
ସେ — ପୁ.କର୍ତ୍ତା.ଏକ.
- Stanzas on the Divine Pulsation 3.14परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥१४॥
ସେ — ପୁ.କର୍ତ୍ତା.ଏକ.
- The Essence of the Tantra 9.1स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः
ସେହି (ପୂର୍ବୋକ୍ତ ବିଷୟ — ପ୍ରମାତୃ-ଭେଦ)