Lemma

Lemma

evam

ഏവം — ഇപ്രകാരം

20 verses



Morphology

adv.indeclindecl.
  1. Verses on the Recognition of the Lord 2.5
    यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥५॥

    ഏവം — ഇപ്രകാരം

  2. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    ഏവം — ഇപ്രകാരം

  3. Verses on the Recognition of the Lord 3.6
    एवम् अन्योन्यभिन्नानाम् अपरस्परवेदिनाम् ज्ञानानाम् अनुसंधानजन्मा नश्येज् जनस्थितिः ॥६॥

    ഏവം — ഇപ്രകാരം

  4. Verses on the Recognition of the Lord 6.7
    तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥७॥

    ഏവം — ഇപ്രകാരം

  5. Verses on the Recognition of the Lord 6.8
    एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे ज्ञाने वाप्य् अन्तराभासः स्थित एवेति निश्चितम् ॥८॥

    ഏവം — ഇപ്രകാരം

  6. Verses on the Recognition of the Lord 7.12
    एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥१२॥

    ഏവം — ഇപ്രകാരം

  7. Verses on the Recognition of the Lord 9.8
    किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः तथा विज्ञातृविज्ञेयभेदो यद् अवभास्यते ॥८॥

    ഏവം — ഇപ്രകാരം

  8. Verses on the Recognition of the Lord 12.1
    एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून् भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा ॥१॥

    ഏവം — ഇപ്രകാരം

  9. Verses on the Recognition of the Lord 12.5
    एवम् एका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः एकस्यैवोभयाकारसहिष्णोर् अपपादिता ॥५॥

    ഏവം — ഇപ്രകാരം

  10. Verses on the Recognition of the Lord 12.18
    एकात्मनो विभेदश् च क्रिया कालक्रमानुगा तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥१८॥

    ഏവം — ഇപ്രകാരം

  11. Verses on the Recognition of the Lord 12.19
    न च युक्तं जडस्यैवं भेदाभेदविरोधतः आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥१९॥

    ഏവം — ഇപ്രകാരം

  12. Verses on the Recognition of the Lord 12.21
    इत्थं तथा घटपटाद्याभासजगदात्मना तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया ॥२१॥

    ഏവം — ഇപ്രകാരം

  13. Verses on the Recognition of the Lord 13.1
    एवम् अन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा मातुर् एव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥१॥

    ഏവം — ഇപ്രകാരം

  14. Verses on the Recognition of the Lord 15.15
    एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा जानन् यथेप्सितान् पश्यञ् जानाति च करोति च ॥१५॥

    ഏവം — ഇപ്രകാരം (അവ്യയം)

  15. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    ഏവം — ഇപ്രകാരം (അവ്യയം)

  16. The Great Liberation Tantra 3.47
    शनैःशनैस्त्यजेद्वायुं जपन् षोडशधा मनुम् । वामनासापुटेऽप्येवं पूरकुम्भकरेचकम् ॥ ४७ ॥

    ഏവം — ഇപ്രകാരം

  17. The Great Liberation Tantra 3.76
    एवं संपूज्य मतिमान् स्वजनैर्बान्धवैः सह । महाप्रसादं स्वीकुर्याद् ब्रह्मणः परमात्मनः ॥ ७६ ॥

    ഏവം — ഇപ്രകാരം

  18. Parātrīśikā 1.19
    अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः । स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः ॥१९॥

    ഇപ്രകാരം, ഇങ്ങനെ

  19. Stanzas on the Divine Pulsation 1.13
    अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥१३॥

    ഇപ്രകാരം, ഇങ്ങനെ

  20. Stanzas on the Divine Pulsation 3.7
    अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥७॥

    ഏവം — ഇങ്ങനെ