Lemma

Lemma

evam

এনে, এইদৰে

49 verses



Morphology

adv.indeclindecl.
  1. Verses on the Recognition of the Lord 2.5
    यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥५॥

    এনে, এইদৰে

  2. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    এইদৰে

  3. Verses on the Recognition of the Lord 3.6
    एवम् अन्योन्यभिन्नानाम् अपरस्परवेदिनाम् ज्ञानानाम् अनुसंधानजन्मा नश्येज् जनस्थितिः ॥६॥

    এইদৰে, এই মতত

  4. Verses on the Recognition of the Lord 6.7
    तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥७॥

    এইদৰে, এই প্ৰকাৰে

  5. Verses on the Recognition of the Lord 6.8
    एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे ज्ञाने वाप्य् अन्तराभासः स्थित एवेति निश्चितम् ॥८॥

    এইদৰে

  6. Verses on the Recognition of the Lord 7.12
    एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥१२॥

    এইদৰে, একেদৰে

  7. Verses on the Recognition of the Lord 9.8
    किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः तथा विज्ञातृविज्ञेयभेदो यद् अवभास्यते ॥८॥

    এনেদৰে

  8. Verses on the Recognition of the Lord 12.1
    एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून् भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा ॥१॥

    এনেদৰে

  9. Verses on the Recognition of the Lord 12.5
    एवम् एका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः एकस्यैवोभयाकारसहिष्णोर् अपपादिता ॥५॥

    এইদৰে

  10. Verses on the Recognition of the Lord 12.18
    एकात्मनो विभेदश् च क्रिया कालक्रमानुगा तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥१८॥

    এইদৰে

  11. Verses on the Recognition of the Lord 12.19
    न च युक्तं जडस्यैवं भेदाभेदविरोधतः आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥१९॥

    এইদৰে

  12. Verses on the Recognition of the Lord 12.21
    इत्थं तथा घटपटाद्याभासजगदात्मना तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया ॥२१॥

    এইদৰে

  13. Verses on the Recognition of the Lord 13.1
    एवम् अन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा मातुर् एव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥१॥

    এইদৰে

  14. Verses on the Recognition of the Lord 15.15
    एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा जानन् यथेप्सितान् पश्यञ् जानाति च करोति च ॥१५॥

    এইদৰে

  15. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    এইদৰে

  16. The Great Liberation Tantra 3.47
    शनैःशनैस्त्यजेद्वायुं जपन् षोडशधा मनुम् । वामनासापुटेऽप्येवं पूरकुम्भकरेचकम् ॥ ४७ ॥

    একেদৰে

  17. The Great Liberation Tantra 3.76
    एवं संपूज्य मतिमान् स्वजनैर्बान्धवैः सह । महाप्रसादं स्वीकुर्याद् ब्रह्मणः परमात्मनः ॥ ७६ ॥

    এনেদৰে

  18. Parātrīśikā 1.19
    अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः । स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः ॥१९॥

    এইদৰে, এনেদৰে

  19. The Vision of Śiva 1.6
    एवं न जातुचित्तस्य वियोगस्त्रितयात्मना ॥६॥

    এনেদৰে

  20. The Vision of Śiva 1.22
    एवं सर्वसमुत्पत्तिकाले शक्तित्रयात्मता । न निवृत्ता, नचौन्मुख्यं निवृत्तं, नापि निर्वृतिः ॥२२॥

    এনেদৰে

  21. The Vision of Śiva 1.29
    तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥२९॥

    এনেদৰে

  22. The Vision of Śiva 1.38
    क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः । तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥३८॥

    এনেদৰে

  23. The Vision of Śiva 1.46
    एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥४६॥

    এনেদৰে

  24. The Vision of Śiva 1.48
    एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र श्रद्दधानैरुदाहृतः ॥४८॥

    এনেদৰে

  25. The Vision of Śiva 1.49
    एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानारूपेऽपि सत्यता ॥४९॥

    এনেদৰে

  26. The Vision of Śiva 2.8
    यस्मात्तैरुच्यते सद्भिरेवं वस्तुप्रवृत्तये ॥८॥

    এনেদৰে

  27. The Vision of Śiva 2.11
    अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥११॥

    এনেদৰে

  28. The Vision of Śiva 2.71
    तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥७१॥

    এনেদৰে

  29. The Vision of Śiva 2.86
    तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः । एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥८६॥

    এনেদৰে

  30. The Vision of Śiva 3.22
    नानाविकाररूपेण जडतैवमवस्थिता । तथा सावयवत्वं च पराधीनत्वमेव च ॥२२॥

    এনেদৰে

  31. The Vision of Śiva 3.25
    एवं सति समग्रस्य व्यवहारस्य भङ्गिता । तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥२५॥

    এনেদৰে

  32. The Vision of Śiva 3.51
    एवं प्रवर्तने तस्य न निमित्तसमुद्गमः ॥५१॥

    এইদৰে

  33. The Vision of Śiva 3.58
    निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥५८॥

    এনেদৰে

  34. The Vision of Śiva 4.3
    स्वकार्यविषये सर्वः शक्त एव निबन्धनम् । शक्तस्य शक्यते कर्तुमेवं ४चेन्नान्यशक्तता ॥३॥

    এনে

  35. The Vision of Śiva 4.14
    नाभाष्य व्यवहारार्थमेवं वस्त्विति निश्चितम् । तथैवास्तु शिवावस्था केनासौ विनिवारिता ॥१४॥

    এনেদৰে

  36. The Vision of Śiva 4.115
    मनसा किं किमक्षेण तेन चेत्तत्परम्परा । एवं तदन्धपारम्पर्यत्वरूपमिदं स्फुटम् ॥११५॥

    এনেদৰে

  37. The Vision of Śiva 5.37
    इच्छावत्त्वमनेनैव न्यायेनास्य निजां क्रियाम् । अनिच्छुर्न करोत्येवमत एवास्ति निर्वृतिः ॥३७॥

    এনেদৰে

  38. The Vision of Śiva 5.65
    शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयः । स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥६५॥

    এনেদৰে

  39. The Vision of Śiva 5.89
    एवमिन्द्रियशक्तीनां ज्ञानमन्तः प्रवेशनात् । सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥८९॥

    এনেদৰে

  40. The Vision of Śiva 5.110
    एवं सर्वेषु भावेषु सर्वसाम्ये व्यवस्थिते । तेन सर्वगतं सर्वं शिवरूपं निरूपितम् ॥११०॥

    এনেদৰে

  41. The Vision of Śiva 6.12
    इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः । इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुद्ध्यते ॥१२॥

    এনেদৰে

  42. The Vision of Śiva 7.3
    सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥३॥

    এনে

  43. The Vision of Śiva 7.114
    सिद्धस्तद्वत्सुतोत्पत्त्या सिद्धा एवं चतुर्दश । यावत्पञ्चदशः पुत्रः सर्वशास्त्रविशारदः ॥११४॥

    এনেদৰে

  44. The Vision of Śiva 7.121
    करोमि स्म प्रकरणं शिवदृष्ट्यभिधानकम् । एवमेषां त्र्यम्बकाख्या तेरम्बा देशभाषया ॥१२१॥

    এনেদৰে

  45. Stanzas on the Divine Pulsation 1.13
    अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥१३॥

    এইদৰে, এনেকৈ

  46. Stanzas on the Divine Pulsation 3.7
    अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥७॥

    এনেদৰে

  47. The Essence of the Tantra 3.6
    एवं यथा एतत् प्रतिबिम्बितं भाति तथैव विश्वं परमेश्वरप्रकाशे

    এইদৰে

  48. The Essence of the Tantra 14.12
    ते ऽपि हि एवम् अनुगृहीता भवन्ति इति कारुणिकतया पशुविधौ न विचिकित्सेत्

    এনেদৰে

  49. The Essence of the Tantra 21.1
    एवं समस्तं नित्यं नैमित्तिकं कर्म निरूपितम्

    এনেদৰে