Lemma

Lemma

yathā

जैसे

47 verses



Morphology

adv.indecl.rel. adv.
  1. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    जैसे

  2. Verses on the Recognition of the Lord 7.7
    विविक्तभूतलज्ञानं घटाभावमतिर् यथा तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥७॥

    जैसे

  3. Verses on the Recognition of the Lord 7.11
    पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥११॥

    जैसे

  4. Verses on the Recognition of the Lord 8.9
    उल्लेखस्य सुखादेश् च प्रकाशो बहिर् आत्मना इच्छातो भर्तुर् अध्यक्षरूपो ऽक्षादिभुवां यथा ॥९॥

    जैसे

  5. Verses on the Recognition of the Lord 11.7
    पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा अविरुद्धावभासानाम् एककार्या तथैक्यधीः ॥७॥

    जैसे

  6. Verses on the Recognition of the Lord 13.6
    भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥६॥

    जैसे, के समान

  7. Verses on the Recognition of the Lord 15.13
    मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥१३॥

    जैसे, के समान

  8. Verses on the Recognition of the Lord 15.16
    इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति ॥१६॥

    जैसा कि

  9. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    जैसे

  10. The Great Liberation Tantra 2.16
    पाञ्चालिका यथा भित्तौ सर्वेन्द्रियसमन्विताः । अमूरशक्ताः कार्येषु तथान्ये मन्त्रराशयः ॥ १६ ॥

    जैसे

  11. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    के समान

  12. The Great Liberation Tantra 2.20
    नान्यः पन्था मुक्तिहेतुरिहामुत्र सुखाप्तये । यथा तन्त्रोदितो मार्गो मोक्षाय च सुखाय च ॥ २० ॥

    जैसा

  13. The Great Liberation Tantra 2.30
    यथा नरेषु तन्त्रज्ञाः सरितां जान्हवी यथा । यथाऽहं त्रिदिवेशानामागमानामिदं तथा ॥ ३० ॥

    जैसे

  14. The Great Liberation Tantra 2.48
    तरोर्मूलाभिषेकेण यथा तद्भुजपल्लवाः । तृप्यन्ति तदनुष्ठानात् तथा सर्वेऽमरादयः ॥ ४८ ॥

    जैसे

  15. The Great Liberation Tantra 2.49
    यथा तवार्चनाद्ध्यानात् पूजनाज्जपनात् प्रिये । भवन्ति तुष्टाः सुन्दर्यस्तथा जानीहि सुव्रते ॥ ४९ ॥

    जैसे

  16. The Great Liberation Tantra 2.50
    यथा गच्छन्ति सरितोऽवशेनापि सरित्पतिम् । तथार्चादीनि कर्माणि तदुद्देश्यानि पार्वति ॥ ५० ॥

    जैसे

  17. The Great Liberation Tantra 3.27
    तं दृष्ट्वा ते भयापन्नाः सिंहं दृष्ट्वा यथा गजाः । विद्रवन्ति च नश्यन्ति पतङ्गा इव पावके ॥ २७ ॥

    जैसे

  18. The Great Liberation Tantra 3.153
    यथा ब्रह्मोपदेशेन विमुक्तः सर्वपातकैः । गच्छन्ति ब्रह्मसायुज्यं तथैव तव साधनात् ॥ १५३ ॥

    जैसे

  19. Parātrīśikā 1.24
    सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः । यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ॥२४॥

    जैसे, जिस प्रकार

  20. Śiva Sūtras 3.14
    यथा तत्र तथान्यत्र ॥१४॥

    यथा — जैसा (अव्यय)

  21. The Vision of Śiva 1.37
    यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥३७॥

    जैसे

  22. The Vision of Śiva 1.46
    एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥४६॥

    जैसे

  23. The Vision of Śiva 2.19
    विमर्शानुभवेनैषा यथा वाक् प्रथमं श्रिता । लक्ष्यते बोधरूपेण न तथा चरणादिकम् ॥१९॥

    जैसे

  24. The Vision of Śiva 2.84
    यथा कर्तुः कुलालादेर्घटः कार्य इतीदृशः । विमर्श इच्छारूपेण तद्वदत्रापि संस्थितम् ॥८४॥

    जैसे

  25. The Vision of Śiva 2.88
    यथा सर्वपदार्थानां भगवच्छिवरूपता । तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा ॥८८॥

    जैसे

  26. The Vision of Śiva 3.19
    न भूषणे कुडलादौ यथा तत्र स्वशक्तितः । रूपकत्वं गतं हेम न शक्त्यैव स्वतन्त्रया ॥१९॥

    जैसे

  27. The Vision of Śiva 3.36
    यथा न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥३६॥

    जैसे

  28. The Vision of Śiva 4.1
    अथेदानीं प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥१॥

    किस प्रकार

  29. The Vision of Śiva 4.43
    यथा सतः क्रियाव्यक्तिर्व्यक्तेः सत्त्वे तथा कृतिः । एकेनापरतुल्यत्वान्नच वाऽसत उद्भवः ॥४३॥

    जैसे

  30. The Vision of Śiva 4.61
    व्यतिरेकोऽवयविनस्तदेवेदं विचार्यताम् । भिन्नेष्वैक्यमभेदश्च यथा तत्र व्यवस्थितम् ॥६१॥

    जैसे

  31. The Vision of Śiva 4.63
    क्व पाणिपादं क्व शिरो यथैक्यं भिन्नदेशगम् ॥६३॥

    जैसे

  32. The Vision of Śiva 4.68
    बौद्धस्य चेन्न सामान्यमनुमानं निवर्तते । यथा सुवर्णभाण्डेषु न तथा हेमताम्रयोः ॥६८॥

    जैसे

  33. The Vision of Śiva 5.2
    तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते । यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥२॥

    किस प्रकार

  34. The Vision of Śiva 6.3
    यथा प्रकल्पिता चित्रा चित्रब्रह्मादिवादिता । नानात्मवादितां यावत्तत्सर्वं प्रविचार्यताम् ॥३॥

    जैसे

  35. The Vision of Śiva 6.55
    यत्सत्तत्क्षणिकत्वेऽपि सत्त्वमप्यक्षगोचरं । सादृश्याद्भ्रान्तमक्षं चेददुष्टं प्राग्ग्रहे यथा ॥५५॥

    उसी प्रकार

  36. The Vision of Śiva 6.74
    कपालादिकजन्यत्वमभावस्तस्य संगता । सत्यस्य कारणापेक्षा घटादिजनने यथा ॥७४॥

    जैसे

  37. The Vision of Śiva 6.112
    तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥११२॥

    जैसे

  38. The Vision of Śiva 6.117
    दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा? ॥११७॥

    जैसे

  39. The Vision of Śiva 6.122
    शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा । तासु व्यक्तिषु रूपादिसंनिवेशादिभेदतः ॥१२२॥

    जैसे

  40. The Vision of Śiva 7.110
    मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् । नोच्छिद्येत यथा शास्त्रं रहस्यं कुरु तादृशम् ॥११०॥

    जिस प्रकार

  41. Stanzas on the Divine Pulsation 3.4
    यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥४॥

    जैसे, जिस प्रकार (सम्बन्धवाचक अव्यय)

  42. Stanzas on the Divine Pulsation 3.5
    तथा यत्परमार्थेन येन यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥५॥

    जैसे, जिस प्रकार (सम्बन्धवाचक अव्यय)

  43. Stanzas on the Divine Pulsation 3.7
    अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥७॥

    जैसे, जिस प्रकार (सम्बन्धवाचक अव्यय)

  44. The Essence of the Tantra 3.6
    एवं यथा एतत् प्रतिबिम्बितं भाति तथैव विश्वं परमेश्वरप्रकाशे

    जैसे, यथा

  45. The Essence of the Tantra 15.3
    ततः पूर्वोक्तक्रमेण योजनिकार्थं पूर्णाहुतिं दद्यात् यथा पूर्णाहुत्यन्ते जीवो निष्क्रान्तः परमशिवाभिन्नो भवति

    जिससे, यथा

  46. Vijñāna Bhairava Tantra 1.8
    गुह्यातिगुह्यगोप्तृ त्वं यद्यपीदं वरानने । तथापि कथयिष्यामि यथा वेत्सि तथा शृणु ॥८॥

    जैसा, जिस प्रकार (सम्बन्धवाचक अव्यय)

  47. Vijñāna Bhairava Tantra 1.16
    यथालोकेन दीपस्य किरणैर्भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥१६॥

    जैसे, जिस प्रकार (सम्बन्धवाचक अव्यय)