Lemma

Lemma

te

ಅವು

49 verses



Morphology

dat. sg.dat. sg. f.gen. sg.gen. sg. f.gen./dat.gen./dat. sg.nom. pl. m.nom. pl. m. dem.
  1. Verses on the Recognition of the Lord 11.5
    तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदा भिन्नार्थकारिणस् ते पदं ध्वनेः ॥५॥

    ಅವು

  2. Verses on the Recognition of the Lord 14.6
    शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥६॥

    ಅವರು

  3. Verses on the Recognition of the Lord 14.7
    बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥७॥

    ಅವರು

  4. Verses on the Recognition of the Lord 14.9
    बोधानाम् अपि कर्तृत्वजुषां कार्ममलक्षतौ भिन्नवेद्यजुषां मायामलो विद्येश्वराश् च ते ॥९॥

    ಅವರು

  5. Verses on the Recognition of the Lord 15.7
    ये ऽप्य् असामयिकेदन्तापरामर्शभुवः प्रभोः ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥७॥

    ಅವು

  6. Verses on the Recognition of the Lord 15.8
    ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥८॥

    ಅವು (ಆ ಅರ್ಥಗಳು)

  7. Karpūrādi Stotra 1.1
    कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १॥

    ನಿನ್ನ

  8. Karpūrādi Stotra 1.2
    ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनमपि च चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे ॥ २॥

    ನಿನ್ನ

  9. Karpūrādi Stotra 1.3
    ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति । द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ॥ ३॥

    ನಿನ್ನ

  10. Karpūrādi Stotra 1.5
    वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा । मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५॥

    ಅವರು

  11. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    ನಿನ್ನ ಬಗ್ಗೆ

  12. Karpūrādi Stotra 1.13
    अनेके सेवन्ते भवदधिगिर्वाणनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥

    ಅವರು

  13. Karpūrādi Stotra 1.19
    सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मैषं नरमहिषयोश्छागमपि वा । बलिं ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥

    ನಿನಗೆ

  14. The Great Liberation Tantra 1.29
    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारवर्तिनः । स्वैः स्वैर्धर्मैर्यजन्तस्ते निस्तारपदवीं गताः ॥ २९ ॥

    ಅವರು

  15. The Great Liberation Tantra 1.60
    परस्त्रीधर्षकाः केचिद्दस्यवो - बहवो भुवि । न करिष्यन्ति ते मत्ताः पापायोनिविचारणम् ॥ ६० ॥

    ಅವರು

  16. The Great Liberation Tantra 2.11
    आमनन्ति च ते सर्वे मत्पदं लोकपावनम् । मन्मार्गविमुखा लोकाः पाषण्डा ब्रह्मघातिनः ॥ ११ ॥

    ಅವು

  17. The Great Liberation Tantra 2.15
    निर्वीर्याः श्रौतजातीया विषहीनोरगा इव । सत्यादौ सफला आसन् कलौ ते मृतका इव ॥ १५ ॥

    ಅವು

  18. The Great Liberation Tantra 2.32
    यतो जगन्मङ्गलाय त्वयाऽहं विनियोजितः । अतस्ते कथयिष्यामि यद्विश्वहितकृद्भवेत् ॥ ३२ ॥

    ನಿನಗೆ

  19. The Great Liberation Tantra 2.42
    स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया । त्वं परा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ ४२ ॥

    ಅವರು

  20. The Great Liberation Tantra 3.27
    तं दृष्ट्वा ते भयापन्नाः सिंहं दृष्ट्वा यथा गजाः । विद्रवन्ति च नश्यन्ति पतङ्गा इव पावके ॥ २७ ॥

    ಅವರು

  21. The Great Liberation Tantra 3.29
    ये द्रुह्यन्ति खलाः पापाः परब्रह्मोपदेशिने । स्वद्रोहं ते प्रकुर्वन्ति नातिरिक्ता यतः सतः ॥ २९ ॥

    ಅವರು

  22. The Great Liberation Tantra 3.66
    इति ते कथितं देवि पञ्चरत्नं महेशितुः । कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् । पठनाद्धारणाद् यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ ६६ ॥

    ನಿನಗೆ

  23. The Great Liberation Tantra 3.72
    इत्येतत् परमब्रह्मकवचं ते प्रकाशितम् । दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ॥ ७२ ॥

    ನಿನಗೆ

  24. The Great Liberation Tantra 3.94
    ये त्यजन्ति नरा मूढा महामन्त्रेण संस्कृतम् । अन्नतोयादिकं भद्रे पितॄंस्ते पातयन्त्यधः ॥ ९४ ॥

    ಅವರು

  25. The Great Liberation Tantra 3.137
    उत्तिष्ठ वत्स मुक्तोऽसि ब्रह्मज्ञानपरो भव । जितेन्द्रियः सत्यवादी वलारोग्यं सदाऽस्तु ते ॥ १३७ ॥

    ನಿನಗೆ

  26. The Great Liberation Tantra 3.140
    इति संक्षेपतो ब्रह्मदीक्षा ते कथिता प्रिये । गुरुकारुण्यमात्रेण ब्रह्मदीक्षां समाश्रयेत् ॥ १४० ॥

    ನಿನಗೆ

  27. The Great Liberation Tantra 3.151
    ये च तानवमन्यन्ते ते नरा ब्रह्मघातिनः । पतन्ति घोरनरके यावद्भास्करतारकम् ॥ १५१ ॥

  28. The Vision of Śiva 2.2
    इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥२॥

    ಅವರು

  29. The Vision of Śiva 2.33
    नचानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥३३॥

    ನಿಮಗೆ

  30. The Vision of Śiva 2.64
    प्रतिभा कथिता या वा सानुमानं न तच्च ते ॥६४॥

    ನಿಮಗೆ (ಸಮ್ಮತ)

  31. The Vision of Śiva 2.71
    तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥७१॥

    ನಿಮಗೆ

  32. The Vision of Śiva 3.56
    तत्र का शान्तता ब्रूहि शक्तेः किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥५६॥

    ನಿಮಗೆ

  33. The Vision of Śiva 3.91
    उपलादेर्जडत्वेऽपि शिवत्वं ते कथं स्थितम् ॥९१॥

    ನಿಮಗೆ (ನಮ್ಮ ಮತದಲ್ಲಿ)

  34. The Vision of Śiva 4.11
    व्यवहारस्य सत्यत्वे सर्वत्रासत्यतैव ते ॥११॥

    ನಿಮಗೆ

  35. The Vision of Śiva 4.40
    बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते । नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥४०॥

    ಅವರು (ಮೀಮಾಂಸಕರು)

  36. The Vision of Śiva 4.48
    स्वयम् च न प्रजायेत केनान्येन प्रजन्यते । व्यतिरिक्तेन कर्त्राद्या यदि स्युस्ते तदात्मकाः ॥४८॥

    ಅವೂ

  37. The Vision of Śiva 4.93
    शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः । स्थिरता नोपपन्ना ते प्रत्यक्षेणापिच स्थिता ॥९३॥

    ನಿಮಗೆ

  38. The Vision of Śiva 5.31
    विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता । चक्षुषा चेदर्पितं मे मनसात्मन्यथार्प्यते ॥३१॥

    ನಿಮಗೆ

  39. The Vision of Śiva 5.40
    व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ । यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥४०॥

    ಅವು

  40. The Vision of Śiva 5.45
    धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥

    ನಿಮಗೆ

  41. The Vision of Śiva 5.53
    कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता । अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥५३॥

    ನಿಮಗೆ

  42. The Vision of Śiva 5.87
    ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः । अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥८७॥

    ಅವು

  43. The Vision of Śiva 6.5
    तथाविधा विभिन्नास्ते सर्वदा निजभावतः । विभिन्ना एव ते नैक्यं मृत्पिंडात् प्रागवस्थितेः ॥५॥

    ಅವು (ಆತ್ಮ-ಕಾರ್ಯಗಳು)

  44. The Vision of Śiva 6.25
    प्रतिदेहं न विभवः ते प्रबुद्धास्तु तन्मयाः । इत्येवमाहुस्तेषामप्यविद्यायोगकल्पनम् ॥२५॥

    ಅವು (ಜೀವಗಳು)

  45. The Vision of Śiva 6.32
    स्वर्गमुक्तिवादिनां तु बन्धमोक्षौ व्यवस्थितौ । ये बाह्यवादिनो बौद्धास्ते भेदं समुपाश्रिताः ॥३२॥

    ಅವರು

  46. The Vision of Śiva 6.72
    विरोधे दण्डघटयोर्दृष्टान्तोऽस्ति न ते क्वचित् । तेजसा तमसो यस्मान्न विनाशस्त्वयेष्यते ॥७२॥

    ನಿಮಗೆ

  47. The Vision of Śiva 6.73
    अकार्यत्वाद्विनाशस्य प्रतिबन्धो नचापि ते । स्थिरस्य प्रतिबन्ध्यत्वात् क्षणिकस्य न युज्यते ॥७३॥

    ನಿಮಗೆ

  48. The Vision of Śiva 6.117
    दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा? ॥११७॥

    ನಿಮಗೆ

  49. The Vision of Śiva 7.8
    तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते । सर्व एवात् एवैतद्भावनाकरणाच्च्युतम् ॥८॥

    ಅವು (ಎಲ್ಲ ಭಾವಗಳು)