Lemma

Lemma

katham

ಹೇಗೆ?

49 verses



Morphology

adv. interrog.indecl.indecl. interrog.interrog. indecl.
  1. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    ಹೇಗೆ?

  2. Verses on the Recognition of the Lord 2.7
    ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत् अथापि जडम् एतस्य कथम् अर्थप्रकाशता ॥७॥

    ಹೇಗೆ?

  3. Verses on the Recognition of the Lord 3.4
    स्मृतितैव कथं तावद् भ्रान्तेश् चार्थस्थितिः कथम् पूर्वानुभवसंकारापेक्षा च किम् इतीष्यते ॥४॥

    ಹೇಗೆ (ನಿಲ್ಲಬಹುದು)?

  4. Verses on the Recognition of the Lord 5.19
    साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥१९॥

    ಹೇಗೆ ಇಲ್ಲದಿದ್ದರೆ (ಇಲ್ಲದಿದ್ದರೆ ಹೇಗೆ)?

  5. Verses on the Recognition of the Lord 7.9
    विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः तत् कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥९॥

    ಹೇಗೆ

  6. The Great Liberation Tantra 1.56
    कलिकल्मषयुक्तानां सर्वदाऽस्थिरचेतसाम् । निद्रालस्यप्रसक्तानां भावशुद्धिः कथं भवेत् ॥ ५६ ॥

    ಹೇಗೆ

  7. Parātrīśikā 1.1
    श्रीदेव्य् उवाच । अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् । येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥१॥

    ಕಥಂ — ಹೇಗೆ, ಯಾವ ರೀತಿಯಲ್ಲಿ

  8. The Vision of Śiva 1.11
    कुत्सितेऽकुत्सितस्य स्यात्कथमुन्मुखतेति चेत् ॥११॥

    ಹೇಗೆ

  9. The Vision of Śiva 1.26
    बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा । न च तस्य तया योग इति चेदपरस्थितौ ॥२६॥

    ಹೇಗೆ

  10. The Vision of Śiva 2.22
    गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥२२॥

    ಹೇಗೆ

  11. The Vision of Śiva 2.32
    अवाच्यत्वेन भवतां तस्या रूपं गतम् । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥३२॥

    ಹೇಗೆ

  12. The Vision of Śiva 2.45
    अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ॥४५॥

    ಹೇಗೆ

  13. The Vision of Śiva 2.47
    भविष्यन्तं वर्तमानं कथं पश्यन्त्यनागतम् ॥४७॥

    ಹೇಗೆ

  14. The Vision of Śiva 2.60
    स्फोटस्यासत्यरूपैर्हि पदाद्यैर्व्यङ्ग्यता कथम् । पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥६०॥

    ಹೇಗೆ

  15. The Vision of Śiva 2.75
    अनन्तेऽवगमः कुत्र तेजस्त्वे शान्तता कथम् । असर्वगप्रमाणं हि मूर्तिर्नो लक्ष्यते चितः ॥७५॥

    ಹೇಗೆ

  16. The Vision of Śiva 2.85
    सा स्थिता पूर्वतस्तस्या इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥८५॥

    ಹೇಗೆ

  17. The Vision of Śiva 3.91
    उपलादेर्जडत्वेऽपि शिवत्वं ते कथं स्थितम् ॥९१॥

    ಹೇಗೆ

  18. The Vision of Śiva 4.6
    तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥

    ಹೇಗೆ

  19. The Vision of Śiva 4.12
    तस्यापि किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥१२॥

    ಹೇಗೆ

  20. The Vision of Śiva 4.18
    तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥१८॥

    ಹೇಗೆ

  21. The Vision of Śiva 4.31
    अमूर्ता न च वाणूनामन्तरेव प्रवेशिता । प्रतिपत्तुः कथं वेत्ति घटोऽयं प्रविभेदतः ॥३१॥

    ಹೇಗೆ

  22. The Vision of Śiva 4.46
    असत्त्वे कारकाणं हि समूहो न भवेत्तदा । कर्माख्यस्य ह्यसत्यत्वात्तत्संबन्धोऽसता कथम् ॥४६॥

    ಹೇಗೆ

  23. The Vision of Śiva 4.66
    घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः । योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥६६॥

    ಹೇಗೆ

  24. The Vision of Śiva 4.70
    तत्त्वस्यैक्यं विना न स्यादेकस्यैव विरुद्धता । सामान्येन विशेषेण कथमेकस्य योगिता ॥७०॥

    ಹೇಗೆ

  25. The Vision of Śiva 4.72
    तथात्मादेरदृष्टस्य तच्छब्दैर्योगिता कथम् ॥७२॥

    ಹೇಗೆ

  26. The Vision of Śiva 4.75
    तथाभिनवजातस्य तानाम्ना संगमः कथम् । तत्संगमस्यासत्यत्वे यन्त्रवश्यादिकं कथम् ॥७५॥

    ಹೇಗೆ

  27. The Vision of Śiva 4.82
    बालमूकादिविज्ञानसदृशी किदृशी क्रिया । सविकल्पस्य योगित्वाद्यथावस्तु ग्रहः कथम् ॥८२॥

    ಹೇಗೆ (ಅಪೋಹವಾದದಲ್ಲಿ)

  28. The Vision of Śiva 4.97
    क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपिवा । स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥९७॥

    ಹೇಗೆ

  29. The Vision of Śiva 4.98
    निर्भागत्वात्स्फोटतत्त्वे स्फोटतत्त्वात्मकात्कथम् । आभासरूपवस्तूनां शाब्दिकान्नो भवेद्ग्रहः ॥९८॥

    ಹೇಗೆ

  30. The Vision of Śiva 4.102
    नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः । संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥१०२॥

    ಹೇಗೆ

  31. The Vision of Śiva 4.106
    शाशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः । गुणिनो नीयतेऽन्यत्र तृषार्तैश्चाकृतिं प्रति? ॥१०६॥

    ಹೇಗೆ

  32. The Vision of Śiva 4.110
    वर्णनेन च चैतन्यमेतावन्मनसो यदि । स्वात्मशक्तिसमावेशादमूर्तावेशता कथम् ॥११०॥

    ಹೇಗೆ

  33. The Vision of Śiva 4.113
    संस्करोति तदात्मानममूर्ते संस्कृतिः कथम् । तद्रूपमात्मन्येतद्येनाश्लेषो यदि चोच्यते ॥११३॥

    ಹೇಗೆ

  34. The Vision of Śiva 4.120
    तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥१२०॥

    ಹೇಗೆ

  35. The Vision of Śiva 4.121
    द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् । अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥१२१॥

    ಹೇಗೆ

  36. The Vision of Śiva 5.1
    अथ चेत् सर्वभावानां न विना तत्त्वमेककम् । समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥१॥

    ಹೇಗೆ

  37. The Vision of Śiva 5.13
    प्रकाशज्ञानजननाज्जनः कर्ता जडे कथम् । जडेन व्यज्यते नापि चैतन्यमजडात्मकम् ॥१३॥

    ಹೇಗೆ

  38. The Vision of Śiva 5.14
    चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडो भवेत् ॥१४॥

    ಹೇಗೆ (ಇಲ್ಲದಿದ್ದರೆ)

  39. The Vision of Śiva 5.18
    घटादेर्भवता ज्ञातमाचैतन्यं कथं यदि । चेष्टोन्मेषाद्यभावात्तन्मूर्च्छिते किं करिष्यसि ॥१८॥

    ಹೇಗೆ

  40. The Vision of Śiva 5.56
    एष इत्यपदिश्येत तज्ज्ञानं जनयेत् कथम् । करणत्वे कर्त्रपेक्षा कर्तृत्वे तदपेक्षता ॥५६॥

    ಹೇಗೆ

  41. The Vision of Śiva 5.90
    कथमाकारघटना व्योम्नि नित्येव नीलता । आत्मेच्छातः स्थिता भावाः स्थितैवासावमूर्तता ॥९०॥

    ಹೇಗೆ (ಇಲ್ಲದಿದ್ದರೆ)

  42. The Vision of Śiva 6.33
    विज्ञानवादिनां ज्ञानं सत्यं प्रत्येत्यसत्यताम् । बहिः कथं नह्यसत्यं सत्याद्भवितुमर्हति ॥३३॥

    ಹೇಗೆ

  43. The Vision of Śiva 6.43
    उत्पत्तिकाले स्वात्मानं किमादौ वेत्ति वा बहिः । प्रतिभासस्य वैचित्र्याद्युगपद्ग्रहणं कथम् ॥४३॥

    ಹೇಗೆ

  44. The Vision of Śiva 6.49
    दीपचक्षुः क्रमफलदर्शनात्तदबाधकम् । भावे कथं विनाशित्वं स्याद्विना कारणान्तरम् ॥४९॥

    ಹೇಗೆ

  45. The Vision of Śiva 6.50
    अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् । उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥५०॥

    ಹೇಗೆ

  46. The Vision of Śiva 6.65
    दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् । बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥६५॥

    ಹೇಗೆ

  47. The Vision of Śiva 6.97
    तदर्थमुक्तमीशेन न परार्थविवक्षया । अनेकेषामणूनां च कथमेकत्र संस्थितिः ॥९७॥

    ಹೇಗೆ

  48. The Vision of Śiva 6.99
    व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् । परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥९९॥

    ಹೇಗೆ

  49. The Vision of Śiva 6.100
    वर्तते यदि तत्रान्यो न व्याप्तोऽसौ पुरापरैः । आकाशबुद्धिचित्तादेः कथमेकत्र चेत् स्थितिः ॥१००॥

    ಹೇಗೆ