Lemma

Lemma

tatra

of these two, in that case

48 verses



Morphology

adv.indecl.
  1. Verses on the Recognition of the Lord 1.5
    तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥५॥

    of these two, in that case

  2. Verses on the Recognition of the Lord 7.10
    किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥१०॥

    there (on the ground)

  3. Verses on the Recognition of the Lord 10.2
    तत्रैकम् आन्तरं तत्त्वं तद् एवेन्द्रियवेद्यताम् संप्राप्यानेकतां याति देशकालस्वभावतः ॥२॥

    of these, in that case

  4. Verses on the Recognition of the Lord 11.8
    तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः ॥८॥

    there, in that case

  5. Verses on the Recognition of the Lord 14.1
    तत्रैतन् मातृतामात्रस्थितौ रुद्रो ऽधिदैवतम् भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥१॥

    there, in that case

  6. Verses on the Recognition of the Lord 15.2
    तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना अहंकारपरामर्शपदम् नीतम् अनेन तत् ॥२॥

    there, therein

  7. Verses on the Recognition of the Lord 15.3
    स्वस्वरूपापरिज्ञानमयो ऽनेकः पुमान् मतः तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥३॥

    there, for him

  8. The Great Liberation Tantra 1.5
    सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते । तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ५ ॥

    there

  9. The Great Liberation Tantra 1.28
    नाऽकालमृत्युस्तत्रासीत् न दुर्भिक्षं न वा रुजः । हृष्टाः पुष्टाः सदारोग्यास्तेजोरूपगुणान्विताः । स्त्रियो न व्यभिचारिण्यः पतिभक्तिपरायणः ॥ २८ ॥

    there, then

  10. The Great Liberation Tantra 1.37
    न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः । नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम् ॥ ३७ ॥

    therein

  11. The Great Liberation Tantra 1.58
    कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः । लोभात्तत्र पतिष्यन्ति न करिष्यन्ति साधनम् ॥ ५८ ॥

    therein

  12. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    therein

  13. The Great Liberation Tantra 3.10
    स्वरूपबुद्ध्या यद्वेद्यं तदेव लक्षणैः शिवे । लक्षणैराप्तुमिच्छूनां विहितं तत्र साधनम् ॥ १० ॥

    therein

  14. Parātrīśikā 1.30
    तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः । सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् ॥३०॥

    there, thereupon

  15. Śiva Sūtras 3.14
    यथा तत्र तथान्यत्र ॥१४॥

    there (in his own body)

  16. The Vision of Śiva 2.53
    आत्मानमात्मना हन्ति देवदत्तो यथा यथा । भविष्यत्यत्र तत्रास्य स्वाङ्गैरेव विभागिता ॥५३॥

    there

  17. The Vision of Śiva 3.15
    तत्र वा तदुपायत्वात्परत्वेनोपचारिता ॥१५॥

    there

  18. The Vision of Śiva 3.19
    न भूषणे कुडलादौ यथा तत्र स्वशक्तितः । रूपकत्वं गतं हेम न शक्त्यैव स्वतन्त्रया ॥१९॥

    there

  19. The Vision of Śiva 3.24
    यत्रोपरि न हस्तादि नेयमीश्वरसंनिधौ । तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥२४॥

    there

  20. The Vision of Śiva 3.38
    तत्र विचित्वमापन्नं न जलं जलमुच्यते । न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥३८॥

    there

  21. The Vision of Śiva 3.54
    निमित्तं कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥५४॥

    there

  22. The Vision of Śiva 3.56
    तत्र का शान्तता ब्रूहि शक्तेः किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥५६॥

    there

  23. The Vision of Śiva 3.90
    यत्रात्मानुभवानिष्ठा तत्रेच्छा च न किं भवेत् ॥९०॥

    there

  24. The Vision of Śiva 4.61
    व्यतिरेकोऽवयविनस्तदेवेदं विचार्यताम् । भिन्नेष्वैक्यमभेदश्च यथा तत्र व्यवस्थितम् ॥६१॥

    there

  25. The Vision of Śiva 4.62
    तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् । अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥६२॥

    therein

  26. The Vision of Śiva 4.91
    सोऽप्यन्यथा प्रदर्श्येताक्षयतो रागद्वेषयोः । पित्रादेरप्यसत्यत्वं तत्रान्यत्र न निश्चयः ॥९१॥

    in that case

  27. The Vision of Śiva 4.105
    यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥१०५॥

    therein

  28. The Vision of Śiva 5.45
    धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥

    there

  29. The Vision of Śiva 5.48
    तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् । धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥४८॥

    there

  30. The Vision of Śiva 5.57
    वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं जज्जन्यं तस्य दृष्टवत् ॥५७॥

    there

  31. The Vision of Śiva 5.59
    महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः । तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥५९॥

    there

  32. The Vision of Śiva 5.63
    यत्र देशे च काले च प्रवृत्तिस्तत्र संगमः । तत्रैव व्यवहारित्वसम्बन्धान्तरतायतः ॥६३॥

    there

  33. The Vision of Śiva 5.82
    तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः । तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥८२॥

    there

  34. The Vision of Śiva 5.87
    ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः । अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥८७॥

    there

  35. The Vision of Śiva 6.31
    अव्याप्तिरन्तःकृत्यादेर्भवेत्षड्धामवादिनाम् । तत्र चित्पक्षपातश्चेत् प्राप्नुयात् सततं ग्रहः ॥३१॥

    there

  36. The Vision of Śiva 6.47
    अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता । कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥४७॥

    there

  37. The Vision of Śiva 6.59
    अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके । तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥५९॥

    there

  38. The Vision of Śiva 6.100
    वर्तते यदि तत्रान्यो न व्याप्तोऽसौ पुरापरैः । आकाशबुद्धिचित्तादेः कथमेकत्र चेत् स्थितिः ॥१००॥

    there

  39. The Vision of Śiva 6.104
    तत्र कर्म निमित्तं चेद्योगेनाप्यत्र संक्रमः । एकबोधो बोधशतैरभिभूतो भवेत्तदा ॥१०४॥

    there

  40. The Vision of Śiva 6.119
    स्थितेऽपि वार नानात्वे कैवल्ये न विशेषता । एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥११९॥

    there

  41. The Vision of Śiva 6.123
    वैलक्षण्यं गवादीनां न तथेहास्ति किंचन । मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥१२३॥

    there

  42. The Vision of Śiva 7.113
    तन्नाम्ना चिह्नितं तत्र ससर्ज मनसा सुतम् । खमुत्पपात संसिद्धस्तत्पुत्रोऽपि तथा तथा ॥११३॥

    there

  43. Stanzas on the Divine Pulsation 1.12
    नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥१२॥

    there (in that void)

  44. Stanzas on the Divine Pulsation 1.14
    अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥१४॥

    there (in that pair)

  45. Stanzas on the Divine Pulsation 1.22
    अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥२२॥

    there (in that state)

  46. The Essence of the Tantra 20.34
    तत्र गुरुः तद्वर्ग्यः ससन्तानः तत्त्ववित् कन्या अन्त्या वेश्या अरुणा तत्त्ववेदिनी वा इति चक्रयागे मुख्यपूज्याः विशेषात् सामस्त्येन

    there (in that rite)

  47. The Essence of the Tantra 20.41
    तत्र आषाढशुक्लात् कुलपूर्णिमादिनान्तं कार्यं पवित्रकम् तत्र कार्त्तिककृष्णपञ्चदशी कुलचक्रं नित्याचक्रं पूरयति इति श्रीनित्यातन्त्रविदः

    in that (rite); as to that

  48. The Essence of the Tantra 20.44
    तत्र विभवेन देवं पूजयित्वा आहुत्या तर्पयित्वा पवित्रकं दद्यात् सौवर्णमुक्तारत्नविरचितात् प्रभृति पटसूत्रकार्पासकुशगर्भान्तम् अपि कुर्यात्

    therein, on that occasion