Lemma

Lemma

tasmāt

ତାହାଠାରୁ, ତେଣୁ

40 verses



Morphology

abl. adv.abl. sg. m.abl. sg. m. dem.abl. sg. n.indecl.
  1. Verses on the Recognition of the Lord 5.10
    स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम् अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ॥१०॥

    ତାହାଠାରୁ, ତେଣୁ

  2. The Great Liberation Tantra 3.88
    अश्वमेधादिभिर्यज्ञैरिष्ट्वा यत् फलमश्नुते । भक्षिते ब्रह्म नैवेद्ये तस्मात् कोटिगुणं लभेत् ॥ ८८ ॥

    ତାହାଠାରୁ

  3. The Great Liberation Tantra 3.150
    ब्राह्मणा यतयः साक्षादितरे ब्राह्मणैः समाः । तस्मात् सर्वे पूजयेयुर्ब्रह्मज्ञान् ब्रह्मदीक्षितान् ॥ १५० ॥

    ଅତଏବ

  4. The Great Liberation Tantra 3.152
    यत् पापं स्त्रीवधे प्रोक्तं यत्पापं भ्रूणघातने । तस्मात् कोटिगुणं पापं ब्रह्मोपासकनिन्दनात् ॥ १५२ ॥

    ତାହାଠାରୁ

  5. The Vision of Śiva 1.23
    यदेकतरनिर्याणे कार्यं जातु न जायते । तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम् ॥२३॥

    ତେଣୁ

  6. The Vision of Śiva 2.16
    तस्माद्धिरण्यगर्भादियोगसांख्येतिहासताम् ॥१६॥

    ତେଣୁ

  7. The Vision of Śiva 2.71
    तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥७१॥

    ତେଣୁ

  8. The Vision of Śiva 2.90
    तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्त्मात्सर्वं शिवात्मकम् ॥९०॥

    ତେଣୁ

  9. The Vision of Śiva 3.17
    तस्मात्समग्राकारेषु सर्वासु प्रतिपत्तिषु । विज्ञेयं शिवरूपत्वं स्वशक्त्यावेशनात्मकम् ॥१७॥

    ତେଣୁ

  10. The Vision of Śiva 3.99
    पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥

    ତେଣୁ

  11. The Vision of Śiva 4.5
    तस्मादनेकभावाभिः शक्तिभिस्तदभेदतः । एक एव स्थितः शक्तः शिव एव तथा तथा ॥५॥

    ତେଣୁ

  12. The Vision of Śiva 4.29
    तस्मादवस्थितं सर्वं सत्त्वं चिद्व्यक्तियोगिता । यत्र यत्र तत्र तत्र सत्यत्वं विश्वरूपता ॥२९॥

    ତେଣୁ

  13. The Vision of Śiva 4.40
    बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते । नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥४०॥

    ତେଣୁ

  14. The Vision of Śiva 4.47
    तस्मात्स एव भगवान्स्वयमेव प्रकल्पते । तथातथाभावरूपैः सन्नेव परमेश्वरः ॥४७॥

    ତେଣୁ

  15. The Vision of Śiva 4.66
    घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः । योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥६६॥

    ତେଣୁ

  16. The Vision of Śiva 4.76
    तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते । व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥७६॥

    ତେଣୁ

  17. The Vision of Śiva 4.92
    तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥

    ତେଣୁ

  18. The Vision of Śiva 4.99
    तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥९९॥

    ତେଣୁ

  19. The Vision of Śiva 4.118
    तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् । तथा स्मरणयोगाच्च स्मर्यते किं तथाविधम् ॥११८॥

    ତେଣୁ

  20. The Vision of Śiva 4.122
    तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् । एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥१२२॥

    ତେଣୁ

  21. The Vision of Śiva 4.123
    परस्परेण चाप्यत्र तेषां रूपेण वान्यथा । तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥१२३॥

    ତେଣୁ

  22. The Vision of Śiva 4.124
    शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् । परचित्तपरिज्ञानात्तस्माज्ज्ञेयैक्यता ततः ॥१२४॥

    ସେଥିରୁ

  23. The Vision of Śiva 5.34
    प्रतिबिम्बेष्वसत्यत्वादमूर्तेष्वेष्वगोचरात् । तस्माद्घटः स्वमात्मानमवगच्छन्नवस्थितः ॥३४॥

    ତେଣୁ

  24. The Vision of Śiva 5.43
    न चान्यावयवैः सार्द्धं सम्बन्धग्रहणं पुरा । तस्मान्नान्येन गृह्यन्ते प्रत्यक्षेण कदाचन ॥४३॥

    ତେଣୁ

  25. The Vision of Śiva 5.60
    तस्मात्तद्व्यपदेशे न वह्निः स्वं विनिवेदयेत् । वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥६०॥

    ତେଣୁ

  26. The Vision of Śiva 5.68
    न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते । तस्माद्वर्णनिकैवेयं परस्यान्ध्याय कल्पिता ॥६८॥

    ତେଣୁ

  27. The Vision of Śiva 5.77
    व्यापकत्वाच्छिवत्वस्य सर्वज्ञत्वाद्भवेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥७७॥

    ତେଣୁ

  28. The Vision of Śiva 6.76
    स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः । भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥७६॥

    ତେଣୁ

  29. The Vision of Śiva 6.83
    अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते । तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥८३॥

    ତେଣୁ

  30. The Vision of Śiva 6.86
    शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् । अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥८६॥

    ତେଣୁ

  31. The Vision of Śiva 6.114
    तथा तस्य यथान्येषां यथान्येषां तथास्य तु । तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥११४॥

    ତେଣୁ

  32. The Vision of Śiva 6.115
    तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता । मोक्षता चोपपद्येत निर्मलं समलं तथा ॥११५॥

    ତେଣୁ

  33. The Vision of Śiva 7.8
    तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते । सर्व एवात् एवैतद्भावनाकरणाच्च्युतम् ॥८॥

    ତେଣୁ

  34. The Vision of Śiva 7.12
    तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये । ततः स्वात्मक्रियौन्मुख्यमिच्छाप्रथमकोद्गमः ॥१२॥

    ତେଣୁ

  35. The Vision of Śiva 7.16
    नचापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते । तस्मादित्थमिह ज्ञेयं शाक्तं रूपभेदवत् ॥१६॥

    ତେଣୁ

  36. The Vision of Śiva 7.92
    तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः । पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥९२॥

    ତେଣୁ

  37. The Vision of Śiva 7.120
    आनन्दसंज्ञकस्तस्मादुद्बभूव तथाविधः । तस्मादस्मि समुद्भूतः सोमानन्दाख्य ईदृशः ॥१२०॥

    ତାଙ୍କଠାରୁ

  38. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    ତାହାରୁ, ଅତଏବ

  39. The Essence of the Tantra 6.79
    तस्मात् स्पन्दान्तरं यावत् न उदितं तावत् एकम् एव ज्ञानम्

    ଅତଏବ, ସେଥିପାଇଁ

  40. Vijñāna Bhairava Tantra 1.103
    तस्मादनुसन्धेयं तत्तदङ्गं विशेषतः । एकत्र ज्ञानं संश्रित्य योगसिद्धिमवाप्नुयात् ॥१०३॥

    ସେଥିପାଇଁ