Lemma

Lemma

kim

how, why (impermanent)?

49 verses



Morphology

indecl.indecl. interrog.interrog.
  1. Verses on the Recognition of the Lord 2.7
    ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत् अथापि जडम् एतस्य कथम् अर्थप्रकाशता ॥७॥

    how, why (impermanent)?

  2. Verses on the Recognition of the Lord 3.4
    स्मृतितैव कथं तावद् भ्रान्तेश् चार्थस्थितिः कथम् पूर्वानुभवसंकारापेक्षा च किम् इतीष्यते ॥४॥

    why (is it admitted)?

  3. Verses on the Recognition of the Lord 5.5
    न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥५॥

    what?

  4. Verses on the Recognition of the Lord 5.6
    स्याद् एतद् अवभासेषु तेष्व् एवावसिते सति व्यवहारे किम् अन्येन बाह्येनानुपपत्तिना ॥६॥

    what (use)?

  5. Verses on the Recognition of the Lord 11.16
    प्रमातरि पुराणे तु सर्वदा भातविग्रहे किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥१६॥

    what?

  6. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    what

  7. Karpūrādi Stotra 1.12
    प्रसूते संसारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च । अतस्त्वं धात्रीसि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥

    how (interrog.)

  8. The Great Liberation Tantra 1.14
    श्रीसदाशिव उवाच । किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे । यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥ १४ ॥

    what

  9. The Great Liberation Tantra 1.15
    तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् । किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥

    what

  10. The Great Liberation Tantra 1.16
    मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम । सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

    what / why

  11. The Great Liberation Tantra 2.31
    किं वेदैः किं पुराणैश्च किं शास्त्रैर्बहुभिः शिवे । विज्ञातेऽस्मिन् महातन्त्रे सर्वसिद्धीश्वरो भवेत् ॥ ३१ ॥

    what (use)

  12. The Great Liberation Tantra 3.3
    केनोपायेन भगवन् परमात्मा प्रसीदति । किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥

    what

  13. The Great Liberation Tantra 3.4
    किं ध्यानं किं विधानञ्च परेशस्य परात्मनः । तत्त्वेन श्रोतुमिच्छामि कृपया कथय प्रभो ॥ ४ ॥

    what

  14. The Great Liberation Tantra 3.21
    अस्मत्कुले कुलश्रेष्ठो जातो ब्रह्मोपदेशिकः । किमस्माकं गयापिण्डैः किं तीर्थैः श्राद्धतर्पणैः ॥ २१ ॥

    what

  15. The Great Liberation Tantra 3.22
    किं दानैः किं जपैर्होमैः किमन्यैर्बहुसाधनैः । वयमक्षयतृप्ताः स्म सत्पुत्रस्यास्य साधनात् ॥ २२ ॥

    what need

  16. The Great Liberation Tantra 3.25
    किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः । पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः । तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥ २५ ॥

    what

  17. The Great Liberation Tantra 3.26
    रक्षितो ब्रह्ममन्त्रेण प्रावृतो ब्रह्मतेजसा । किं विभेति ग्रहादिभ्यो मार्तण्ड इव चापरः ॥ २६ ॥

    why

  18. The Great Liberation Tantra 3.85
    किं पुनर्मनुजादीनां वक्तव्यं देववन्दिते । परमेशस्य नैवेद्यसेवनाद् यत् फलं भवेत् ॥ ८५ ॥

    what

  19. The Great Liberation Tantra 3.97
    किं तस्य वैदिकाचारैस्तान्त्रिकैर्वाऽपि तस्य किम् । ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः ॥ ९७ ॥

    what need

  20. The Vision of Śiva 2.28
    अविद्यास्याः स्वधर्मः किं परधर्मोऽथवा भवेत् ॥२८॥

    is it

  21. The Vision of Śiva 2.41
    पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥४१॥

    whether

  22. The Vision of Śiva 2.43
    प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता ॥४३॥

    whether

  23. The Vision of Śiva 2.50
    संहृतः क्रम इत्यस्यां संहर्ता जायते परः । यया क्रमः संहृतो वा किमात्मन्यपरत्र वा ॥५०॥

    whether

  24. The Vision of Śiva 2.51
    आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः । किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥५१॥

    whether

  25. The Vision of Śiva 2.56
    पश्यन्तं सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥५६॥

    whether

  26. The Vision of Śiva 2.70
    पश्यन्त्याश्चेदविद्यात्वं तद्भोगौन्मुख्ययोगतः । मध्यमादेर्जडायाः किं भोगेन शबलात्मना ॥७०॥

    what

  27. The Vision of Śiva 3.18
    पिण्डे वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥१८॥

    is it not

  28. The Vision of Śiva 3.56
    तत्र का शान्तता ब्रूहि शक्तेः किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥५६॥

    is there not

  29. The Vision of Śiva 3.57
    अङ्गाररूपे किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था न क्रिया ज्ञानरूपिणी ॥५७॥

    is there

  30. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    what

  31. The Vision of Śiva 3.73
    किमर्थं गुरुशास्त्रादि चेत्तथा तदवस्थितेः । देवस्य शास्त्राद्बोधेन किं प्रयोजनमेव च ॥७३॥

    what

  32. The Vision of Śiva 3.83
    तथात्वेनैव कॢप्तत्वात्तदेतत्कल्पना भवेत् । तदेव तत्कल्पितं किं सत्ये नामास्तु कल्पना ॥८३॥

    why

  33. The Vision of Śiva 3.84
    कटकेऽस्ति सुवर्णत्वं कुण्डले कल्पनास्ति किम् । चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥८४॥

    is there

  34. The Vision of Śiva 3.90
    यत्रात्मानुभवानिष्ठा तत्रेच्छा च न किं भवेत् ॥९०॥

    is it not the case that

  35. The Vision of Śiva 4.12
    तस्यापि किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥१२॥

    is there

  36. The Vision of Śiva 4.15
    मिथ्यात्वं क्रियते कस्य किं काले यत्र तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥१५॥

    at what

  37. The Vision of Śiva 4.16
    अकाले जननं किंचिद्बाध्यते वा जनिक्रिया । कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥१६॥

    what

  38. The Vision of Śiva 4.35
    सत्कार्यं नोपपन्नं चेत्सतः किं करणेन यत् । अभिव्यक्तिरथास्यात्र क्रियते सापि किं सती ॥३५॥

    what (need)

  39. The Vision of Śiva 4.51
    इतोऽपि विद्धि सत्कार्यं मृत्पिण्डात्किं घटः पृथक् ॥५१॥

    is it?

  40. The Vision of Śiva 4.55
    किं शिवत्वेन तद्व्याप्तमव्याप्तं वाभिधीयताम् ॥५५॥

    whether

  41. The Vision of Śiva 4.102
    नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः । संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥१०२॥

    what

  42. The Vision of Śiva 4.105
    यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥१०५॥

    is it?

  43. The Vision of Śiva 5.86
    दृश्यत्वं तेषु संघातात् किं तेषां रूपताक्षतिः । स्वरूपमिश्रीभावो वा नैवं चेत्तर्ह्यमूर्तता ॥८६॥

    is it?

  44. The Vision of Śiva 6.63
    विकल्पा अथवा नश्येदसावेतावदेव सत् । तत्रापि किंचित्कुर्वन्किं स नश्यति तथाविधाः ॥६३॥

    is it?

  45. The Vision of Śiva 6.78
    घटमानयशब्दस्य प्रतिषेधेन वाच्यता । अघटादेरपोहेन किं घटं प्रतिपद्यसे ॥७८॥

    is it that?

  46. The Vision of Śiva 6.111
    अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् । अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥१११॥

    is it?

  47. The Vision of Śiva 7.101
    शिव एव फलावस्था व्यापार इति साधुषु । भावनाकरणाभ्यां किं शिवस्य सततोदितेः ॥१०१॥

    what (need)?

  48. Vijñāna Bhairava Tantra 1.2
    अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥२॥

    what?

  49. Vijñāna Bhairava Tantra 1.4
    नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः । चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् ॥४॥

    is it?