Lemma

Lemma

tataḥ

அப்போது

43 verses



Morphology

abl. adv.adv.indecl.
  1. Bhagavad Gītā (Kashmirian recension) 1.13
    ततः शङ्खाश्च भीर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३ ॥

    அப்போது

  2. Bhagavad Gītā (Kashmirian recension) 1.14
    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४ ॥

    பின்னர்

  3. Verses on the Recognition of the Lord 2.6
    ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् संस्कारात् स्मृइतिसिद्धौ स्यात् स्मर्ता द्रष्टेव कल्पितः ॥६॥

    ஆதலின், எனவே

  4. Verses on the Recognition of the Lord 3.5
    भ्रान्तित्वे चावसायस्य न जडाद् विषयस्थितिः ततो ऽजाड्ये निजोल्लेखनिष्ठान् नार्थस्थितिस् ततः ॥५॥

    அதிலிருந்து, ஆதலின்

  5. Verses on the Recognition of the Lord 8.5
    भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥

    ஆதலின்

  6. Verses on the Recognition of the Lord 8.8
    विकल्पे यो ऽयम् उल्लेखः सो ऽपि बाह्यः पृथक्प्रथः प्रमात्रैकात्म्यम् आन्तर्यं ततो भेदो हि बाह्यता ॥८॥

    அதிலிருந்து

  7. Verses on the Recognition of the Lord 12.2
    जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥२॥

    ஆதலின்

  8. The Great Liberation Tantra 1.35
    ततोऽपि द्वापरे प्राप्ते स्मृत्युक्तसुकृतोज्झिते । धमार्द्धलोपे मनुजे आधिव्याधिसमाकुले । संहिताद्युपदेशेन त्वयैवोद्धारिता नराः ॥ ३५ ॥

    அதன்பின்

  9. The Great Liberation Tantra 3.41
    तारं सच्चिदेकमिति ब्रह्मेति सकलं ततः । अङ्गुष्ठतर्जनीमध्यानामिकासु महेश्वरि ॥ ४१ ॥

    பின்

  10. The Great Liberation Tantra 3.44
    प्राणायामं ततः कुर्यान् मूलेन प्रणवेन वा । मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्वति ॥ ४४ ॥

    பின்

  11. The Great Liberation Tantra 3.46
    अङ्गुष्ठेन दक्षनासां धृत्वा कुम्भकयोगतः । जपेद्द्वात्रिंशताऽवृत्त्या ततो दक्षिणनासया ॥ ४६ ॥

    பின்

  12. The Great Liberation Tantra 3.49
    ततो ध्यानं प्रकुर्वीत साधकाभीष्टसाधनम् ॥ ४९ ॥

    பின்

  13. The Great Liberation Tantra 3.53
    ततो जप्त्वा महामन्त्रं मनसा साधकोत्तमः । समर्प्य ब्रह्मणे पश्चाद्वहिःपूजां समारभेत् ॥ ५३ ॥

    பின்

  14. The Great Liberation Tantra 3.57
    ततो नेत्रे समुन्मील्य जप्त्वा मूलं स्वशक्तितः । तज्जपं ब्रह्मसात् कृत्वा स्तोत्रञ्च कवचं पठेत् ॥ ५७ ॥

    பின்

  15. The Great Liberation Tantra 3.133
    ततः शिष्यस्य शिरसि ऋषिन्यासपुरःसरम् । जपेदष्टशतं मन्त्रं साधकस्येष्टसिद्धये ॥ १३३ ॥

    பின்

  16. The Great Liberation Tantra 3.136
    ततः श्रीगुरुपादाब्जे दण्डवत् पतितं शिशुम् । उत्थापयेद् गुरुः स्नेहादिमं मन्त्रमुदीरयन् ॥ १३६ ॥

    பின்

  17. The Great Liberation Tantra 3.138
    तत उत्थाय गुरवे यथाशक्त्यनुसारतः । दक्षिणां स्वं फलं वाऽपि दद्यात् साधकसत्तमः । गुरोराज्ञावशीभूत्वा विहरेद्देववद् भुवि ॥ १३८ ॥

    பின்

  18. Parātrīśikā 1.28
    तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये । शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः ॥२८॥

    பின்னர், அதன்பின்

  19. Parātrīśikā 1.30
    तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः । सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् ॥३०॥

    அதன்பின்

  20. Parātrīśikā 1.32
    ततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् । पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत् ॥३२॥

    பின்னர், அதன்பின்

  21. The Vision of Śiva 1.18
    गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥१८॥

    அதனாலேயே

  22. The Vision of Śiva 1.21
    ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥

    அதிலிருந்து

  23. The Vision of Śiva 2.80
    अथ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः । ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥८०॥

    ஆகவே

  24. The Vision of Śiva 3.1
    अथ शक्तेः परावस्था यैर्भक्त्या परिगीयते । युक्त्या प्रकाशितो देवस्ततः शक्तिदशा यतः ॥१॥

    அவனிலிருந்து

  25. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    அப்போது

  26. The Vision of Śiva 4.6
    तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥

    ஆகவே

  27. The Vision of Śiva 4.124
    शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् । परचित्तपरिज्ञानात्तस्माज्ज्ञेयैक्यता ततः ॥१२४॥

    அதனால்

  28. The Vision of Śiva 6.11
    प्रतिबिम्बतया चान्ये ये वा सर्गमुखे स्वयम् । ब्रह्मैव गृह्णात्यात्मानं ततो भेदोपपादनम् ॥११॥

    அதனின்று

  29. The Vision of Śiva 7.12
    तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये । ततः स्वात्मक्रियौन्मुख्यमिच्छाप्रथमकोद्गमः ॥१२॥

    அதில், முதலில்

  30. The Vision of Śiva 7.23
    भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका । ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥२३॥

    அதனின்று

  31. The Vision of Śiva 7.27
    ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा । भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥२७॥

    அதனின்று

  32. The Vision of Śiva 7.45
    आत्मनो महिमा ज्ञेयस्ततः सृष्टेरनन्तता । स्थूलभावादविभ्रान्तदृष्टिपातात्तदेकताम् ॥४५॥

    அதனின்று

  33. The Vision of Śiva 7.111
    ततः स भगवान् देवादादेशं प्राप्य यत्नवान् । ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥१११॥

    அப்போது

  34. The Vision of Śiva 7.115
    स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥११५॥

    பின்

  35. The Vision of Śiva 7.118
    ब्राह्मणेन विवाहेन ततो जातस्तथाविधः । तेन यः स च कालेन कश्मीरेष्वागतो भ्रमन् ॥११८॥

    அப்போது

  36. Stanzas on the Divine Pulsation 3.12
    प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥१२॥

    அதனால், பிறகு — ஐந்தாம் வேற்.வினையடை

  37. Stanzas on the Divine Pulsation 3.19
    यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥

    அதனால், பிறகு — ஐந்தாம் வேற்.வினையடை

  38. The Essence of the Tantra 1.2
    विततस् तन्त्रालोको विगाहितुं नैव शक्यते सर्वैः । ऋजुवचनविरचितम् इदं तु तन्त्रसारं ततः शृणुत

    ஆகவே, எனவே

  39. The Essence of the Tantra 14.24
    ततः शिष्यो गुरुं दक्षिणाभिः पूर्ववत् पूजयेत्

    thereafter

  40. The Essence of the Tantra 15.3
    ततः पूर्वोक्तक्रमेण योजनिकार्थं पूर्णाहुतिं दद्यात् यथा पूर्णाहुत्यन्ते जीवो निष्क्रान्तः परमशिवाभिन्नो भवति

    thereupon

  41. The Essence of the Tantra 17.5
    ततो ऽस्य अधिवासादि प्राग्वत्

    thereafter

  42. The Essence of the Tantra 20.17
    ततो मुद्राप्रदर्शनं जपः तन्निवेदनम्

    then

  43. Vijñāna Bhairava Tantra 1.76
    किञ्चिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः । तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥७६॥

    பிறகு (வினையடை)