Lemma

Lemma

tadā

ત્યારે

35 verses



Morphology

adv.corr. adv.indecl.
  1. Bhagavad Gītā (Kashmirian recension) 1.2
    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥

    ત્યારે

  2. Karpūrādi Stotra 1.11
    समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥

    ત્યારે

  3. The Great Liberation Tantra 1.12
    विनाऽज्ञया मया किञ्चिद्भाषितुं नैव शक्यते । कृपावलेशो मयि चेत् स्नेहोऽस्ति यदि मां प्रति । तदा निवेद्यते किञ्चिन्मनसा यद्विचारितम् ॥ १२ ॥

    તો

  4. The Great Liberation Tantra 1.24
    लोष्टवत् परवित्तेषु पश्यन्तो मानवास्तदा । आसन् स्वधर्मनिरताः सदा सन्मार्गवर्त्तिनः ॥ २४ ॥

    ત્યારે

  5. The Great Liberation Tantra 1.33
    तदा त्वं प्रकटीकृत्य तपः स्वाध्यायदुर्बलान् । लोकानतारयः पापात् दुःखशोकामयप्रदात् ॥ ३३ ॥

    ત્યારે

  6. The Great Liberation Tantra 1.38
    बहुलानां पुराणानां विनाशो भविता विभो । तदा लोका भविष्यन्ति धर्मकर्मवहिर्मुखाः ॥ ३८ ॥

    ત્યારે

  7. The Great Liberation Tantra 2.26
    यथा यथा कृताः प्रश्ना येन येन यदा यदा । तदा तस्योपकाराय तथैवोक्तं मया प्रिये ॥ २६ ॥

    ત્યારે

  8. The Great Liberation Tantra 3.16
    बहुजन्मार्जितैः पुण्यैः सद्गुरुर्यदि लभ्यते । तदा तद्वक्त्रतो ज्ञात्वा जन्मसाफल्यमाप्नुयात् ॥ १६ ॥

    તો

  9. Parātrīśikā 1.12
    मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः । स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः ॥१२॥

    ત્યારે

  10. The Heart of Recognition 1.20
    तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ॥२०॥

    ત્યારે

  11. Śiva Sūtras 3.42
    भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥४२॥

    ત્યારે

  12. The Vision of Śiva 1.4
    सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते । चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ॥४॥

    ત્યારે

  13. The Vision of Śiva 1.14
    आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते । व्रजतो मुष्टितां पाणेः पूर्वः कम्पस्तदेक्ष्यते ॥१४॥

    ત્યારે

  14. The Vision of Śiva 3.7
    मन्त्रस्तम्भनतायां हि नासौ वह्निस्तदोच्यते ॥७॥

    ત્યારે

  15. The Vision of Śiva 3.30
    पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥३०॥

    ત્યારે

  16. The Vision of Śiva 4.22
    यत्र काले सरजतो देशोऽभूत्स गतस्तदा । कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥२२॥

    ત્યારે

  17. The Vision of Śiva 4.25
    अज्ञानत्वे परिज्ञाते तदा स्यात्स्वविरोधिता । अज्ञानत्वे स्वभावेन विरोधः केन वार्यते ॥२५॥

    ત્યારે

  18. The Vision of Śiva 4.46
    असत्त्वे कारकाणं हि समूहो न भवेत्तदा । कर्माख्यस्य ह्यसत्यत्वात्तत्संबन्धोऽसता कथम् ॥४६॥

    ત્યારે

  19. The Vision of Śiva 4.58
    इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता । असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥५८॥

    ત્યારે

  20. The Vision of Śiva 5.45
    धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥

    ત્યારે

  21. The Vision of Śiva 5.99
    सर्वज्ञत्वादशेषस्य तदहर्जातदारके । क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥९९॥

    તે સમયે

  22. The Vision of Śiva 7.2
    वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् । अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥२॥

    તો

  23. Stanzas on the Divine Pulsation 1.9
    निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥९॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  24. Stanzas on the Divine Pulsation 1.10
    तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस्तदेप्सितं सर्वं जानाति च करोति च ॥१०॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  25. Stanzas on the Divine Pulsation 1.12
    नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥१२॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  26. Stanzas on the Divine Pulsation 1.16
    न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्योपलब्धिलोपोऽस्ति तदा ह्यन्योऽनुपलम्भकः ॥१६॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  27. Stanzas on the Divine Pulsation 1.25
    तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥२५॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  28. Stanzas on the Divine Pulsation 3.11
    दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥११॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  29. Stanzas on the Divine Pulsation 3.19
    यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥१९॥

    ત્યારે — કાળવાચક નિત્યસંબંધી

  30. The Essence of the Tantra 6.40
    श्रीकण्ठनाथश् च तदा संहर्ता

    ત્યારે

  31. The Essence of the Tantra 20.31
    अन्यविशेषश् चेत् अन्यपर्वणि तदा तत् अनुपर्व इत्य् आहुः

    તો

  32. The Essence of the Tantra 20.47
    यदा प्राप्यापि विज्ञानं दूषितं परमेशशासनं तदा प्रायश्चित्ती

    ત્યારે

  33. Vijñāna Bhairava Tantra 1.11
    तदा तस्मिन्महाव्योम्नि प्रलीने शशिभास्करे । मग्नवत्तामसी निद्रा बभूव खिलगोचरे ॥११॥

    ત્યારે

  34. Vijñāna Bhairava Tantra 1.15
    शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्यात्शैवी मुखमिहोच्यते ॥१५॥

    ત્યારે

  35. Vijñāna Bhairava Tantra 1.75
    व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् । निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा ॥७५॥

    ત્યારે