Lemma

Lemma

eva

only, simply

26 verses



Morphology

indecl.particleptcl.ptcl. emph.
  1. Verses on the Recognition of the Lord 2.10
    तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः ॥१०॥

    only, simply

  2. Verses on the Recognition of the Lord 4.6
    स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः ॥६॥

    only, merely

  3. Verses on the Recognition of the Lord 5.1
    वर्तमानावभासानां भावानाम् अवभासनम् अन्तःस्थितवताम् एव घटते बहिर् आत्मना ॥१॥

    only, alone

  4. Verses on the Recognition of the Lord 12.13
    कार्यम् अव्यभिचार्यस्य लिङ्गम् अन्यप्रमातृगात् तदाभासस् तदाभासाद् एव त्व् अधिपतेः परः ॥१३॥

    only

  5. Verses on the Recognition of the Lord 13.6
    भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥६॥

    itself, very

  6. Karpūrādi Stotra 1.1
    कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १॥

    indeed, surely

  7. The Great Liberation Tantra 1.52
    शवासनं चितारोहो मुण्डसाधनमेव च । लतासाधनकर्माणि त्वयोक्तानि सहस्रशः ॥ ५२ ॥

    indeed

  8. The Great Liberation Tantra 1.57
    वीरसाधनकर्माणि पञ्चतत्त्वोदितानि च । मद्यं मांसं तथा मत्स्यमुद्रामैथुनमेव च । एतानि पञ्चतत्त्वानि त्वया प्रोक्तानि शङ्कर ॥ ५७ ॥

    indeed

  9. The Great Liberation Tantra 2.17
    अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा । न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

    only

  10. The Great Liberation Tantra 2.34
    स एक एव सद्रूपः सत्योऽद्वैतः परात्परः । स्वप्रकाशः सदापूर्णः सच्चिदानन्दलक्षणः ॥ ३४ ॥

    alone

  11. The Great Liberation Tantra 3.116
    अभुक्तो वाऽपि भुक्तो वा स्नातो वाऽस्नात एव वा । साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः ॥ ११६ ॥

    indeed

  12. The Great Liberation Tantra 3.120
    सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः । न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च । महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

    indeed

  13. The Heart of Recognition 1.5
    चितिरेव चेतनपदादवरूढा चेत्यसङ्कोचिनी चित्तम् ॥५॥

    indeed, alone

  14. The Heart of Recognition 1.13
    तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन चेतनपदाध्यारोहाच्चितिः ॥१३॥

    itself

  15. The Vision of Śiva 1.2
    आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः । अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥२॥

    alone, indeed

  16. The Vision of Śiva 1.16
    किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां याता यया सेच्छः स जायते ॥१६॥

    verily

  17. The Vision of Śiva 1.18
    गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥१८॥

    just

  18. The Vision of Śiva 1.24
    घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥

    precisely

  19. The Vision of Śiva 1.28
    न्यायादिभिर्न तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥२८॥

    alone

  20. The Vision of Śiva 1.48
    एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र श्रद्दधानैरुदाहृतः ॥४८॥

    verily

  21. The Vision of Śiva 2.3
    स एवात्मा सर्वदेहव्यापकत्वेन वर्तते । अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम् ॥३॥

    precisely

  22. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    indeed, alone

  23. Stanzas on the Divine Pulsation 2.6
    अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥६॥

    alone, indeed

  24. Stanzas on the Divine Pulsation 2.7
    इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥७॥

    alone, very

  25. Stanzas on the Divine Pulsation 3.11
    दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥११॥

    indeed

  26. Vijñāna Bhairava Tantra 1.28
    ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना । शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥२८॥

    alone