Lemma

Lemma

sthitā

स्थित

18 verses



Morphology

nom. sg. f.
  1. The Vision of Śiva 1.48
    एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र श्रद्दधानैरुदाहृतः ॥४८॥

    स्थित

  2. The Vision of Śiva 2.12
    आदौ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥१२॥

    स्थित

  3. The Vision of Śiva 2.41
    पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥४१॥

    स्थित

  4. The Vision of Śiva 2.43
    प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता ॥४३॥

    स्थित

  5. The Vision of Śiva 2.85
    सा स्थिता पूर्वतस्तस्या इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥८५॥

    स्थित

  6. The Vision of Śiva 2.87
    स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः । इष्यते ब्रह्मरूपत्वं घटादेरपि कथ्यताम् ॥८७॥

    स्थित

  7. The Vision of Śiva 3.64
    तदैक्यं खेटपालोऽपि प्राह या काचन स्थिता । शक्तिः पदार्थ जातस्य देवदेवस्य साखिला ॥६४॥

    स्थित

  8. The Vision of Śiva 3.67
    साऽरोदीदिति वेदेऽस्ति नार्थवादो निरर्थकः । विध्यङ्गत्वेन चेत्सत्ता नासत्यस्याङ्गता स्थिता ॥६७॥

    ठहरता

  9. The Vision of Śiva 4.38
    इत्यभ्युपगमोऽस्माकं नैकेनान्यत्र तुल्यता । कल्प्या वैशेषिकाणां हि कर्तृतैवेश्वरे स्थिता ॥३८॥

    स्थित

  10. The Vision of Śiva 4.41
    बहूनां कल्पनीयात्र नच वा व्यतिरेकतः । व्यक्तिः स्थिता पदार्थानां घटो व्यक्तोऽभिधीयते ॥४१॥

    स्थित

  11. The Vision of Śiva 4.65
    मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता । सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥६५॥

    स्थित (प्रश्न)

  12. The Vision of Śiva 4.93
    शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः । स्थिरता नोपपन्ना ते प्रत्यक्षेणापिच स्थिता ॥९३॥

    स्थित

  13. The Vision of Śiva 5.4
    विभेदेष्वपि तद्व्याप्त्याभेदेष्वप्येकता स्थिता । इच्छावन्तः सर्व एव व्यापकाश्च समस्तकाः ॥४॥

    स्थित

  14. The Vision of Śiva 6.59
    अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके । तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥५९॥

    स्थित

  15. The Vision of Śiva 6.90
    घटात्मककटात्मादेः पदार्थपदयोगतः । अभावस्य कपालादिरूपत्वाद्वस्तुता स्थिता ॥९०॥

    सिद्ध है

  16. The Vision of Śiva 6.110
    तन्निष्ठत्वात् पञ्चविधकृत्यस्योन्मुखतैव नो । भवेन्मुक्तात्मभेऽपि सा त्वनादौ शिवे स्थिता ॥११०॥

    अवस्थित

  17. The Vision of Śiva 7.50
    तद्वदन्यत्र भावादौ स्वात्मशक्त्या किलाधिपः । सर्वभावेषु सद्योगात्सत्यत्वे शिवता स्थिता ॥५०॥

    अवस्थित

  18. The Vision of Śiva 7.122
    स्थिता शिष्यप्रशिष्याद्यैर्विस्तीर्णा मठिकोदिता । तदेवमेतद्विहितं मया प्रकरणं मनाक् ॥१२२॥

    स्थापित