Lemma

Lemma

sadā

സദാ — എപ്പോഴും

18 verses



Morphology

adv.indecl.
  1. Verses on the Recognition of the Lord 8.5
    भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥

    സദാ — എപ്പോഴും

  2. Verses on the Recognition of the Lord 8.7
    चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥७॥

    സദാ — എപ്പോഴും

  3. Karpūrādi Stotra 1.6
    प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥

    എപ്പോഴും

  4. Karpūrādi Stotra 1.8
    शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥

    എപ്പോഴും

  5. Karpūrādi Stotra 1.11
    समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥

    എപ്പോഴും

  6. The Great Liberation Tantra 1.11
    श्रीपार्वत्युवाच । देवदेव जगन्नाथ मन्नाथ करुणानिधे । त्वदधीनाऽस्मि देवेश तवाऽज्ञाकारिणी सदा ॥ ११ ॥

    സദാ — എപ്പോഴും

  7. The Great Liberation Tantra 1.24
    लोष्टवत् परवित्तेषु पश्यन्तो मानवास्तदा । आसन् स्वधर्मनिरताः सदा सन्मार्गवर्त्तिनः ॥ २४ ॥

    സദാ — എപ്പോഴും

  8. The Great Liberation Tantra 1.32
    त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः । वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले ॥ ३२ ॥

    സദാ — എപ്പോഴും

  9. The Great Liberation Tantra 1.39
    उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा । कामुका लोलुपाः क्रूरा निष्ठुरा दुर्मुखाः शठाः ॥ ३९ ॥

    സദാ — എപ്പോഴും

  10. The Great Liberation Tantra 1.48
    नैव पानादिनियमो भक्ष्याभक्ष्यविवेचनम् । धर्मशास्त्रे सदा निन्दा साधुद्रोही निरन्तरम् ॥ ४८ ॥

    സദാ — എപ്പോഴും

  11. The Great Liberation Tantra 1.55
    दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा । द्वन्द्वातीतो वीतरागः सर्वभूतसमः क्षमी ॥ ५५ ॥

    സദാ — എപ്പോഴും

  12. The Great Liberation Tantra 3.33
    मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः । सच्छब्देन सदा स्थायि चिच्चैतन्यं प्रकीर्तितम् ॥ ३३ ॥

    സദാ — സദാ

  13. The Great Liberation Tantra 3.78
    अस्नातो वा कृतस्नानो भुक्तो वाऽपि बुभुक्षितः । पूजयेत् परमात्मानं सदा निर्मलमानसः ॥ ७८ ॥

    സദാ — എപ്പോഴും

  14. The Great Liberation Tantra 3.123
    अल्पायुषः स्वल्पवृत्ता अन्नाधीनासवः प्रिये । लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥ १२३ ॥

    സദാ — എപ്പോഴും

  15. The Vision of Śiva 1.27
    सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥

    എപ്പോഴും

  16. The Vision of Śiva 7.62
    सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः । विशेषममतावेशप्रवेशवशतो महान् ॥६२॥

    എപ്പോഴും

  17. Stanzas on the Divine Pulsation 1.13
    अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥१३॥

    സദാ, എപ്പോഴും

  18. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    സദാ, എപ്പോഴും