Lemma
sadā
always
Morphology
adv.indecl.
Occurrences
Read in context →- Verses on the Recognition of the Lord 8.5भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥
always
- Verses on the Recognition of the Lord 8.7चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥७॥
always
- Karpūrādi Stotra 1.6प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥
always
- Karpūrādi Stotra 1.8शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥
always
- Karpūrādi Stotra 1.11समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥
always
- The Great Liberation Tantra 1.11श्रीपार्वत्युवाच । देवदेव जगन्नाथ मन्नाथ करुणानिधे । त्वदधीनाऽस्मि देवेश तवाऽज्ञाकारिणी सदा ॥ ११ ॥
always
- The Great Liberation Tantra 1.24लोष्टवत् परवित्तेषु पश्यन्तो मानवास्तदा । आसन् स्वधर्मनिरताः सदा सन्मार्गवर्त्तिनः ॥ २४ ॥
always
- The Great Liberation Tantra 1.32त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः । वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले ॥ ३२ ॥
ever
- The Great Liberation Tantra 1.39उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा । कामुका लोलुपाः क्रूरा निष्ठुरा दुर्मुखाः शठाः ॥ ३९ ॥
always
- The Great Liberation Tantra 1.48नैव पानादिनियमो भक्ष्याभक्ष्यविवेचनम् । धर्मशास्त्रे सदा निन्दा साधुद्रोही निरन्तरम् ॥ ४८ ॥
always
- The Great Liberation Tantra 1.55दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा । द्वन्द्वातीतो वीतरागः सर्वभूतसमः क्षमी ॥ ५५ ॥
always
- The Great Liberation Tantra 3.33मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः । सच्छब्देन सदा स्थायि चिच्चैतन्यं प्रकीर्तितम् ॥ ३३ ॥
ever
- The Great Liberation Tantra 3.78अस्नातो वा कृतस्नानो भुक्तो वाऽपि बुभुक्षितः । पूजयेत् परमात्मानं सदा निर्मलमानसः ॥ ७८ ॥
always
- The Great Liberation Tantra 3.123अल्पायुषः स्वल्पवृत्ता अन्नाधीनासवः प्रिये । लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥ १२३ ॥
ever
- The Vision of Śiva 1.27सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥
always
- The Vision of Śiva 7.62सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः । विशेषममतावेशप्रवेशवशतो महान् ॥६२॥
ever
- Stanzas on the Divine Pulsation 1.13अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥१३॥
always
- Stanzas on the Divine Pulsation 2.4तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥
always