Lemma

Lemma

jñānam

knowledge, cognition

29 verses



Morphology

acc. sg. n.nom. sg. n.
  1. Verses on the Recognition of the Lord 1.4
    तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥४॥

    knowledge, cognition

  2. Verses on the Recognition of the Lord 1.5
    तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥५॥

    knowledge

  3. Verses on the Recognition of the Lord 2.1
    ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥१॥

    cognition

  4. Verses on the Recognition of the Lord 2.7
    ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत् अथापि जडम् एतस्य कथम् अर्थप्रकाशता ॥७॥

    cognition

  5. Verses on the Recognition of the Lord 14.12
    मुख्यत्वं कर्तृतायाश् च बोधस्य च चिदात्मनः शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥१२॥

    (the right) knowledge

  6. Verses on the Recognition of the Lord 15.4
    स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या मायातृतीये ते एव पशोः सत्त्वं रजस् तमः ॥४॥

    knowledge

  7. Parātrīśikā 1.23
    अणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते । तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः ॥२३॥

    knowledge, gnosis

  8. Śiva Sūtras 1.2
    ज्ञानं बन्धः ॥२॥

    (limited, dualistic) knowledge

  9. Śiva Sūtras 1.8
    ज्ञानं जाग्रत् ॥८॥

    (empirical) knowledge

  10. Śiva Sūtras 2.9
    ज्ञानमन्नम् ॥९॥

    (limited, dualistic) knowledge

  11. Śiva Sūtras 3.2
    ज्ञानं बन्धः ॥२॥

    (limited) knowledge

  12. The Vision of Śiva 1.3
    स यदास्ते चिदाह्लादमात्रानुभवतल्लयः । तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥३॥

    knowledge

  13. The Vision of Śiva 1.24
    घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥२४॥

    knowledge

  14. The Vision of Śiva 1.27
    सा बुद्धिर्यत् पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥२७॥

    the knowledge

  15. The Vision of Śiva 2.48
    अथ साधारणं ज्ञानं तादृक्किंचन पश्यति ॥४८॥

    cognition

  16. The Vision of Śiva 3.6
    मुञ्चतोऽपि निजां शक्तिं स्वातन्त्र्ये ज्ञानमापतेत् ॥६॥

    knowledge

  17. The Vision of Śiva 4.23
    ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते । न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥२३॥

    a cognition

  18. The Vision of Śiva 4.39
    तद्वन्न किं पृथिव्यादेर्बौद्धे ज्ञानमवस्थितम् । स्वान्यप्रकाशकं नान्यत्तद्वदन्यन्न किं भवेत् ॥३९॥

    knowledge, awareness

  19. The Vision of Śiva 4.107
    अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥१०७॥

    knowledge

  20. The Vision of Śiva 5.22
    इतश्च तेऽपि चिद्वन्तः स्वात्मनि ज्ञानयोगतः । स्वयमेव न चेज्ज्ञानमात्मन्येषां प्रजायते ॥२२॥

    knowledge

  21. The Vision of Śiva 5.52
    सन्निधानादथाग्नेश्च चुल्ल्यादेः सन्निधिर्न किम् । धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥५२॥

    the cognition

  22. The Vision of Śiva 5.57
    वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं जज्जन्यं तस्य दृष्टवत् ॥५७॥

    cognition

  23. The Vision of Śiva 5.89
    एवमिन्द्रियशक्तीनां ज्ञानमन्तः प्रवेशनात् । सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥८९॥

    knowledge

  24. The Vision of Śiva 6.33
    विज्ञानवादिनां ज्ञानं सत्यं प्रत्येत्यसत्यताम् । बहिः कथं नह्यसत्यं सत्याद्भवितुमर्हति ॥३३॥

    cognition

  25. The Vision of Śiva 6.46
    प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते । विद्यारूपादनाशित्वं नहि तत्त्वं विनश्वरम् ॥४६॥

    cognition

  26. The Essence of the Tantra 1.4
    इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं सङ्कुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासङ्कुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् । ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः सङ्कलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत्

    knowledge, cognition

  27. The Essence of the Tantra 7.2
    तद् उक्तं न प्रक्रियापरं ज्ञानम् इति

    knowledge (the liberating gnosis)

  28. The Essence of the Tantra 8.30
    अनेन च मायाकलाप्रकृतिबुद्ध्यादिविषयं साक्षात्काररूपं ज्ञानं ये भजन्ते ते ऽपि सिद्धाः सिद्धा एव

    knowledge

  29. The Essence of the Tantra 16.18
    मनुष्यस् तु तदैव ज्ञानं योगं दीक्षां विवेकं वा लभते

    knowledge