Lemma

Lemma

sthitam

स्थित — स्थापित (भूत कृदन्त)

15 verses



Morphology

n.nom.sg pplnom. sg. n.nom. sg. n. ppp.ppp. nom. sg. n.
  1. Verses on the Recognition of the Lord 8.10
    तदैक्येन विना न स्यात् संविदां लोकपद्धतिः प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥१०॥

    स्थित — स्थापित (भूत कृदन्त)

  2. Verses on the Recognition of the Lord 14.11
    कलोद्बलितम् एतच् च चित्तत्त्वं कर्तृतामयम् अचिद्रूपस्य शून्यादेर् मितं गुणतया स्थितम् ॥११॥

    स्थित रहता है (भूत कृदन्त)

  3. The Vision of Śiva 1.21
    ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥

    स्थित है

  4. The Vision of Śiva 2.32
    अवाच्यत्वेन भवतां तस्या रूपं गतम् । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥३२॥

    स्थित

  5. The Vision of Śiva 3.91
    उपलादेर्जडत्वेऽपि शिवत्वं ते कथं स्थितम् ॥९१॥

    स्थित

  6. The Vision of Śiva 4.94
    स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥९४॥

    स्थित

  7. The Vision of Śiva 5.55
    स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥५५॥

    स्थित

  8. The Vision of Śiva 5.98
    स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥

    स्थित

  9. The Vision of Śiva 6.66
    नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् । मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥६६॥

    स्थित (बनता)

  10. The Vision of Śiva 6.76
    स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः । भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥७६॥

    स्थित

  11. The Vision of Śiva 6.126
    अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु । स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥१२६॥

    अवस्थित

  12. The Vision of Śiva 7.74
    व्याप्तं किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम् । जडरूपो भवामीति चिन्तया मरणं स्थितम् ॥७४॥

    सिद्ध हो जाता है

  13. Stanzas on the Divine Pulsation 1.2
    यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥२॥

    स्थित है, प्रतिष्ठित है (कर्मवाच्य भूत कृदन्त)

  14. Stanzas on the Divine Pulsation 3.5
    तथा यत्परमार्थेन येन यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥५॥

    स्थित — विद्यमान (भूत कृदन्त, कर्ता कारक)

  15. Vijñāna Bhairava Tantra 1.78
    माया विमोहिनी नाम कलायाः कलनं स्थितम् । इत्यादिधर्मं तत्त्वानां कलयन्न पृथग्भवेत् ॥७८॥

    स्थित है (कर्मवाच्य भूत कृदन्त)