Lemma
sthitam
is established
Morphology
n.nom.sg pplnom. sg. n.nom. sg. n. ppp.ppp. nom. sg. n.
Occurrences
Read in context →- Verses on the Recognition of the Lord 8.10तदैक्येन विना न स्यात् संविदां लोकपद्धतिः प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥१०॥
is established
- Verses on the Recognition of the Lord 14.11कलोद्बलितम् एतच् च चित्तत्त्वं कर्तृतामयम् अचिद्रूपस्य शून्यादेर् मितं गुणतया स्थितम् ॥११॥
remains, abides
- The Vision of Śiva 1.21ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥
stands, is established
- The Vision of Śiva 2.32अवाच्यत्वेन भवतां तस्या रूपं गतम् । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥३२॥
is established
- The Vision of Śiva 3.91उपलादेर्जडत्वेऽपि शिवत्वं ते कथं स्थितम् ॥९१॥
is established
- The Vision of Śiva 4.94स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥९४॥
is established
- The Vision of Śiva 5.55स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥५५॥
established
- The Vision of Śiva 5.98स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥
is established
- The Vision of Śiva 6.66नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् । मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥६६॥
established
- The Vision of Śiva 6.76स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः । भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥७६॥
is established
- The Vision of Śiva 6.126अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु । स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥१२६॥
stands established
- The Vision of Śiva 7.74व्याप्तं किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम् । जडरूपो भवामीति चिन्तया मरणं स्थितम् ॥७४॥
is brought about
- Stanzas on the Divine Pulsation 1.2यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥२॥
stands established
- Stanzas on the Divine Pulsation 3.5तथा यत्परमार्थेन येन यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥५॥
established
- Vijñāna Bhairava Tantra 1.78माया विमोहिनी नाम कलायाः कलनं स्थितम् । इत्यादिधर्मं तत्त्वानां कलयन्न पृथग्भवेत् ॥७८॥
stands