Lemma

Lemma

bhāvānām

ഭാവാനാം — ഭാവങ്ങളുടെ, വസ്തുക്കളുടെ

14 verses



Morphology

gen. pl. m.
  1. Verses on the Recognition of the Lord 5.1
    वर्तमानावभासानां भावानाम् अवभासनम् अन्तःस्थितवताम् एव घटते बहिर् आत्मना ॥१॥

    ഭാവാനാം — ഭാവങ്ങളുടെ, വസ്തുക്കളുടെ

  2. Verses on the Recognition of the Lord 7.9
    विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः तत् कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥९॥

    ഭാവാനാം — ഭാവങ്ങളുടെ (ഷഷ്ഠി ബഹുവചനം)

  3. Verses on the Recognition of the Lord 11.14
    गुणैः शब्दादिभिर् भेदो जात्यादिभिर् अभिन्नता भावानाम् इत्थम् एकत्र प्रमातर्य् उपपद्यते ॥१४॥

    ഭാവാനാം — ഭാവങ്ങളുടെ

  4. Verses on the Recognition of the Lord 13.4
    इदंभावोपपन्नानां वेद्यभूमिम् उपेयुषाम् भावानां बोधसारत्वाद् यथावस्त्ववलोकनात् ॥४॥

    ഭാവാനാം — ഭാവങ്ങളുടെ, വസ്തുക്കളുടെ (ഷഷ്ഠി ബഹുവചനം)

  5. Verses on the Recognition of the Lord 13.5
    अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् परताहन्तयाच्छादात् परापरदशा हि सा ॥५॥

    ഭാവാനാം — ഭാവങ്ങളുടെ (ഷഷ്ഠി ബഹുവചനം)

  6. Verses on the Recognition of the Lord 14.16
    मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥१६॥

    ഭാവാനാം — ഭാവങ്ങളുടെ (ഷഷ്ഠി ബഹുവചനം)

  7. The Vision of Śiva 4.56
    नैवं यतो हि भावानां विनाशेऽस्मासु नेष्टता ॥५६॥

    ഭാവങ്ങളുടെ

  8. The Vision of Śiva 4.92
    तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥

    ഭാവങ്ങളുടെ

  9. The Vision of Śiva 4.96
    ततोऽप्येतच्छिवात्मत्वं भावानामुपपद्यते । तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥९६॥

    ഭാവങ്ങളുടെ

  10. The Vision of Śiva 4.101
    नचापि भेदे भावानां ग्रहणं ज्ञानमेव वा । संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥१०१॥

    ഭാവങ്ങളുടെ

  11. The Vision of Śiva 5.33
    चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् । भावानां प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥३३॥

    ഭാവങ്ങൾ

  12. The Vision of Śiva 5.71
    अतो नास्त्यनुमानस्य दूषणाद्यैः प्रभाषितैः । तेन पूर्वोक्तया नीत्या भावानां स्वग्रहः स्थितः ॥७१॥

    ഭാവങ്ങളുടെ

  13. The Vision of Śiva 5.87
    ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः । अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥८७॥

    ഭാവങ്ങളുടെ

  14. The Vision of Śiva 6.58
    भावानां चित्रशक्तीनामभेदो हेमभेदवत् । वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥५८॥

    ഭാവങ്ങൾക്ക്