Lemma

Lemma

iha

here (in this world)

23 verses



Morphology

adv.indecl.
  1. The Great Liberation Tantra 2.20
    नान्यः पन्था मुक्तिहेतुरिहामुत्र सुखाप्तये । यथा तन्त्रोदितो मार्गो मोक्षाय च सुखाय च ॥ २० ॥

    here (in this world)

  2. The Great Liberation Tantra 3.17
    चतुर्वर्गं करे कृत्वा परत्रेह च मोदते ॥ १७ ॥

    in this world

  3. The Heart of Recognition 1.18
    विकल्पक्षयशक्तिसङ्कोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ॥१८॥

    here (in this teaching)

  4. The Vision of Śiva 2.72
    भवतामप्रस्तुतेन न केवलमिहोदितम् ॥७२॥

    here

  5. The Vision of Śiva 3.36
    यथा न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥३६॥

    here

  6. The Vision of Śiva 3.61
    अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥६१॥

    here

  7. The Vision of Śiva 3.63
    नानावादैर्नो विरोधः कथनीयमिहाग्रतः । उक्तं वा कालपादादावागोपालाङ्गनादिना ॥६३॥

    here

  8. The Vision of Śiva 3.99
    पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥

    here

  9. The Vision of Śiva 4.90
    आप्तवाक्यादथास्तीह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥९०॥

    here

  10. The Vision of Śiva 4.99
    तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥९९॥

    here

  11. The Vision of Śiva 4.122
    तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् । एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥१२२॥

    here

  12. The Vision of Śiva 5.2
    तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते । यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥२॥

    here

  13. The Vision of Śiva 5.24
    गोलकं न प्रयातीह शक्तेरव्यतिरेकतः । शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥२४॥

    here

  14. The Vision of Śiva 5.108
    सर्वस्य सर्वमस्तीह नानाभावात्मरूपकैः । मद्रूपत्वं घटस्यास्ति ममास्ति गह्टरूपता ॥१०८॥

    here

  15. The Vision of Śiva 6.23
    अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम् । पक्षे द्वितीये ताद्रूप्यं जडत्वादिह तस्य कः ॥२३॥

    here

  16. The Vision of Śiva 6.87
    सर्वस्य सर्वभावत्वादिहासौ नोपपद्यते । चर्मोपमश्चेदित्यादि यद्बौद्धैः समुदाहृतम् ॥८७॥

    here (for us)

  17. The Vision of Śiva 6.117
    दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा? ॥११७॥

    here (in our view)

  18. The Vision of Śiva 6.123
    वैलक्षण्यं गवादीनां न तथेहास्ति किंचन । मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥१२३॥

    here

  19. The Vision of Śiva 7.3
    सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥३॥

    here

  20. The Vision of Śiva 7.16
    नचापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते । तस्मादित्थमिह ज्ञेयं शाक्तं रूपभेदवत् ॥१६॥

    here

  21. The Vision of Śiva 7.97
    शिव एवानया स्थित्या सत्यया याग उत्तमः । येन येन यत्र यत्र यैर्यैर्यदिह चेज्यते ॥९७॥

    here

  22. Vijñāna Bhairava Tantra 1.9
    यत्परं निष्कलं देवि सर्वतत्त्वातिगोचरम् । तत्तु शक्यं न तेनेह वक्तुं शक्यं तदिच्छया ॥९॥

    here (in words)

  23. Vijñāna Bhairava Tantra 1.15
    शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्यात्शैवी मुखमिहोच्यते ॥१५॥

    here, in this teaching