Lemma

Lemma

śivaḥ

शिव

20 verses



Morphology

m.nom.sgnom. sg. m.
  1. Verses on the Recognition of the Lord 15.14
    सर्वथा त्व् अन्तरालीनानन्ततत्त्वौघनिर्भरः शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥१४॥

    शिव

  2. The Vision of Śiva 1.1
    अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे । शिवः करोतु निजया नमः शक्त्या ततात्मने ॥१॥

    शिव

  3. The Vision of Śiva 1.2
    आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः । अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥२॥

    शिव

  4. The Vision of Śiva 1.17
    औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता । नैचान्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥१७॥

    शिव

  5. The Vision of Śiva 1.39
    इत्थं शिवो बोधमयः स एव परनिर्वृतिः । सैव चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ॥३९॥

    शिव

  6. The Vision of Śiva 2.86
    तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः । एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥८६॥

    शिव

  7. The Vision of Śiva 3.2
    न शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥२॥

    शिव

  8. The Vision of Śiva 3.3
    शिवः शक्तस्तथा भावानिच्छया कर्तुमीहते । शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ॥३॥

    शिव

  9. The Vision of Śiva 3.30
    पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥३०॥

    शिव

  10. The Vision of Śiva 3.58
    निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥५८॥

    शिव

  11. The Vision of Śiva 3.99
    पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥

    शिव

  12. The Vision of Śiva 4.6
    तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥

    शिव

  13. The Vision of Śiva 5.98
    स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥

    शिव

  14. The Vision of Śiva 5.106
    सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना । शिवात्मना यज्ञदत्तो यज्ञदत्तात्मना शिवः ॥१०६॥

    शिव

  15. The Vision of Śiva 7.21
    मध्यव्योमशान्तबोधभरलब्धोदयः शिवः । तस्यापि विद्युदालोकवदभेदवती चला ॥२१॥

    शिव

  16. The Vision of Śiva 7.99
    भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥९९॥

    शिव

  17. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    शिव

  18. The Essence of the Tantra 9.52
    तत्र स्वरूपसकलौ १ प्रलयाकलः २ विज्ञानाकलः ३ मन्त्रतदीशतन्महेशवर्गः ४ शिवः ५ इति पञ्चदशभेदे पञ्च अवस्थाः

    शिव

  19. Vijñāna Bhairava Tantra 1.16
    यथालोकेन दीपस्य किरणैर्भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥१६॥

    शिव (जाणला जातो)

  20. Vijñāna Bhairava Tantra 1.25
    क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् । स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥२५॥

    शिव (प्राप्त होतो)