Lemma
śivaḥ
Śiva
Morphology
m.nom.sgnom. sg. m.
Occurrences
Read in context →- Verses on the Recognition of the Lord 15.14सर्वथा त्व् अन्तरालीनानन्ततत्त्वौघनिर्भरः शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥१४॥
Śiva
- The Vision of Śiva 1.1अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे । शिवः करोतु निजया नमः शक्त्या ततात्मने ॥१॥
Śiva
- The Vision of Śiva 1.2आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः । अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥२॥
Śiva
- The Vision of Śiva 1.17औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता । नैचान्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥१७॥
Śiva
- The Vision of Śiva 1.39इत्थं शिवो बोधमयः स एव परनिर्वृतिः । सैव चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ॥३९॥
Śiva
- The Vision of Śiva 2.86तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः । एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥८६॥
Śiva
- The Vision of Śiva 3.2न शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥२॥
Śiva
- The Vision of Śiva 3.3शिवः शक्तस्तथा भावानिच्छया कर्तुमीहते । शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ॥३॥
Śiva
- The Vision of Śiva 3.30पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥३०॥
Śiva
- The Vision of Śiva 3.58निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥५८॥
Śiva
- The Vision of Śiva 3.99पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥
Śiva
- The Vision of Śiva 4.6तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥६॥
is Śiva
- The Vision of Śiva 5.98स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥
Śiva
- The Vision of Śiva 5.106सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना । शिवात्मना यज्ञदत्तो यज्ञदत्तात्मना शिवः ॥१०६॥
Śiva
- The Vision of Śiva 7.21मध्यव्योमशान्तबोधभरलब्धोदयः शिवः । तस्यापि विद्युदालोकवदभेदवती चला ॥२१॥
Śiva
- The Vision of Śiva 7.99भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥९९॥
Śiva
- Stanzas on the Divine Pulsation 2.4तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥
Śiva
- The Essence of the Tantra 9.52तत्र स्वरूपसकलौ १ प्रलयाकलः २ विज्ञानाकलः ३ मन्त्रतदीशतन्महेशवर्गः ४ शिवः ५ इति पञ्चदशभेदे पञ्च अवस्थाः
Śiva
- Vijñāna Bhairava Tantra 1.16यथालोकेन दीपस्य किरणैर्भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥१६॥
Śiva (is known)
- Vijñāna Bhairava Tantra 1.25क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् । स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥२५॥
Śiva (is attained)