Lemma

Lemma

devi

O Goddess

25 verses



Morphology

voc. sg. f.
  1. Karpūrādi Stotra 1.6
    प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥

    O Goddess

  2. The Great Liberation Tantra 1.16
    मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम । सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

    O goddess

  3. The Great Liberation Tantra 2.12
    अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् । निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥

    O goddess

  4. The Great Liberation Tantra 2.33
    कृते विश्वहिते देवि विश्वेशः परमेश्वरि । प्रीतो भवति विश्वात्मा यतो विश्वं तदाश्रितम् ॥ ३३ ॥

    O goddess

  5. The Great Liberation Tantra 2.41
    विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया । इन्द्रादयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ ४१ ॥

    O goddess

  6. The Great Liberation Tantra 2.47
    तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् । तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ ४७ ॥

    O goddess

  7. The Great Liberation Tantra 3.23
    शृणु देवि जगद्वन्द्ये सत्यं सत्यं मयोच्यते । परब्रह्मोपासकानां किमन्यैः साधनान्तरैः ॥ २३ ॥

    O goddess

  8. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    O goddess

  9. The Great Liberation Tantra 3.34
    एकमद्वैतमीशानि वृहत्त्वाद्ब्रह्म गीयते । मन्त्रार्थः कथितो देवि साधकाभीष्टसिद्धिदः ॥ ३४ ॥

    O goddess

  10. The Great Liberation Tantra 3.58
    स्तोत्रं शृणु महेशानि ब्रह्मणः परमात्मनः । यत् श्रुत्वा साधको देवि ब्रह्मसायुज्यमश्नुते ॥ ५८ ॥

    O goddess

  11. The Great Liberation Tantra 3.66
    इति ते कथितं देवि पञ्चरत्नं महेशितुः । कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् । पठनाद्धारणाद् यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ ६६ ॥

    O goddess

  12. The Great Liberation Tantra 3.84
    आनीतं श्वपचेनापि श्वमुखादपि निःसृतम् । तदन्नं पावनं देवि देवानामपि दुर्लभम् ॥ ८४ ॥

    O goddess

  13. The Great Liberation Tantra 3.107
    अष्टोत्तरशतं देवि गायत्रीजपमाचरेत् । जपं समर्प्य विधिवत् पूर्ववत् प्रणमेत् सुधीः ॥ १०७ ॥

    O goddess

  14. The Great Liberation Tantra 3.120
    सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः । न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च । महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

    O goddess

  15. The Great Liberation Tantra 3.125
    कलौ नास्त्येव नास्त्येव सत्यं सत्यं मयोच्यते । ब्रह्मदीक्षां विना देवि कैवल्याय सुखाय च ॥ १२५ ॥

    O goddess

  16. The Great Liberation Tantra 3.142
    अहं मृत्युञ्जयो देवि देवदेवो जगद्गुरुः । स्वेच्छाचारी निर्विकल्पो मन्त्रस्याऽस्य प्रसादतः ॥ १४२ ॥

    O goddess

  17. Parātrīśikā 1.3
    ताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् । श्रीभैरव उवाच । शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् ॥३॥

    O Goddess

  18. Parātrīśikā 1.4
    कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् । कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः ॥४॥

    O Goddess

  19. Vijñāna Bhairava Tantra 1.9
    यत्परं निष्कलं देवि सर्वतत्त्वातिगोचरम् । तत्तु शक्यं न तेनेह वक्तुं शक्यं तदिच्छया ॥९॥

    O Goddess

  20. Vijñāna Bhairava Tantra 1.10
    देवि प्रकृतिरूपा या तस्याः किं रूपमुच्यते । सकलत्वे विकल्पानां सकलाद्वैतकल्पना ॥१०॥

    O Goddess

  21. Vijñāna Bhairava Tantra 1.51
    क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् । तज्ज्ञानं चित्तसहितं देवि शून्यालयो भवेत् ॥५१॥

    O Goddess

  22. Vijñāna Bhairava Tantra 1.66
    चलासने स्थितस्याथ शनैर्वा देहचालनात् । प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् ॥६६॥

    O Goddess

  23. Vijñāna Bhairava Tantra 1.67
    आकाशं विमलं पश्यन्कृत्वा दृष्टिं निरन्तराम् । स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात् ॥६७॥

    O Goddess

  24. Vijñāna Bhairava Tantra 1.73
    अबिन्दुमविसर्गं च अकारं जपतो महान् । उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥७३॥

    O Goddess

  25. Vijñāna Bhairava Tantra 1.160
    सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च । रुद्रयामलमासाद्य देवि त्वत्तो मयोदितम् ॥१६०॥

    O Goddess