Lemma

Lemma

śaktiḥ

ಶಕ್ತಿ — ಶಕ್ತಿ, ಸಾಮರ್ಥ್ಯ

16 verses



Morphology

nom. sg. f.
  1. Parātrīśikā 1.2
    एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो । हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥२॥

    ಶಕ್ತಿ — ಶಕ್ತಿ, ಸಾಮರ್ಥ್ಯ

  2. The Vision of Śiva 3.2
    न शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥२॥

    ಶಕ್ತಿ

  3. The Vision of Śiva 3.5
    शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥५॥

    ಶಕ್ತಿ

  4. The Vision of Śiva 3.64
    तदैक्यं खेटपालोऽपि प्राह या काचन स्थिता । शक्तिः पदार्थ जातस्य देवदेवस्य साखिला ॥६४॥

    ಶಕ್ತಿ

  5. The Vision of Śiva 4.2
    अथैकस्याधिका शक्तिर्न्यूनशक्तिनिबन्धिनी ॥२॥

    ಶಕ್ತಿ

  6. The Vision of Śiva 5.28
    शक्तिर्घटेऽत्र किं कुर्यागृहित्वान्तरथाविशेत् । बुध्नोदरादिकं तत्तु गृहीत्वा नच युज्यते ॥२८॥

    ಶಕ್ತಿಯು

  7. The Vision of Śiva 5.30
    अन्तर्विंशति चेच्छक्तिरन्तरप्युपलम्भनम् । अप्रवेशान्न मनसः सम्बन्ध उपपद्यते ॥३०॥

    ಶಕ್ತಿಯು

  8. The Vision of Śiva 6.83
    अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते । तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥८३॥

    ಶಕ್ತಿ

  9. The Vision of Śiva 7.23
    भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका । ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥२३॥

    ಶಕ್ತಿ

  10. The Vision of Śiva 7.28
    तस्यापि शक्तिर्मृत्पिण्डघटवद्विश्वतां गता । यावद्यावत्तरेद्विद्यामायादिघनपार्थिवम् ॥२८॥

    ಶಕ್ತಿ

  11. The Essence of the Tantra 3.26
    एवं विसर्ग एव विश्वजनने भगवतः शक्तिः

    ಶಕ್ತಿ

  12. The Essence of the Tantra 6.1
    स एव स्थानप्रकल्पनशब्देन उक्तः तत्र त्रिधा स्थानं प्राणवायुः शरीरं बाह्यं च तत्र प्राणे तावत् विधिः सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्यते तस्य क्रमाक्रमकलनैव कालः स च परमेश्वर एव अन्तर्भाति तद्भासनं च देवस्य काली नाम शक्तिः भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः

    ಶಕ್ತಿ

  13. The Essence of the Tantra 7.22
    सा शक्तिर् व्याप्य यतो विश्वम् अध्वानम् अन्तर्बहिर् आस्ते तस्माद् व्यापिनी

    ಆ ಶಕ್ತಿ

  14. The Essence of the Tantra 9.7
    तत्र शक्तिभेदाद् एव प्रमातॄणां भेदः स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते तत्र सकलस्य विद्याकले शक्तिः तद्विशेषरूपत्वात् बुद्धिकर्माक्षशक्तीनां प्रलयाकलस्य तु ते एव निर्विषयत्वात् अस्फुटे

    ಶಕ್ತಿ (ಇರುತ್ತದೆ)

  15. The Essence of the Tantra 13.5
    ह्रीं न फ ह्रीं ह्रीं आ क्ष ह्रीं इत्य् आभ्यां शक्तिशक्तिमद्वाचकाभ्यां मालिनीशब्दराशिमन्त्राभ्याम् एकेनैव आदौ शक्तिः ततः शक्तिमान् इति मुक्तौ पादाग्राच् छिरोऽन्तम् भुक्तौ तु सर्वो विपर्ययः

    ಶಕ್ತಿ

  16. Vijñāna Bhairava Tantra 1.21
    न व्रजेन्न विशेच्चक्तिर्मरुद्रूपा विकासिते । निर्विकल्पतया मध्ये तया भैरवरूपता ॥२१॥

    ಶಕ್ತಿ