तत्र घटिका तिथिः मासो वर्षं च वर्षसमूहात्मा इति समस्तः कालः परिसमाप्यते । तत्र सपञ्चांशे अङ्गुले चषक इति स्थित्या घटिकोदयः घटिका हि षष्ट्या चषकैः तस्मात् द्वासप्तत्यङ्गुला भवति
Transliteration (IAST)
tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate | tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati
उसमें घटिका, तिथि, मास तथा वर्ष-समूह-रूप वर्ष — इस प्रकार समस्त काल समाप्त (समाहित) हो जाता है। उनमें सवा (एक और एक-पंचमांश) अँगुल में एक चषक — इस स्थिति से घटिका का उदय होता है; क्योंकि घटिका साठ चषकों की होती है, अतः वह बहत्तर अँगुल की होती है।