Lemma

Lemma

sarvatra

সকলোতে

22 verses



Morphology

adv.indeclindecl.
  1. Verses on the Recognition of the Lord 9.6
    सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥६॥

    সকলোতে

  2. The Great Liberation Tantra 3.8
    समाधियोगैस्तद्वेद्यं सर्वत्र समदृष्टिभिः । द्वन्द्वातीतैर्निर्विकल्पैर्देहात्माध्यासवर्जितैः ॥ ८ ॥

    সকলো ঠাইত

  3. The Great Liberation Tantra 3.77
    पूजने परमेशस्य नावाहनविसर्जने । सर्वत्र सर्वकालेषु साधयेद् ब्रह्मसाधनम् ॥ ७७ ॥

    সকলো ঠাইতে

  4. The Vision of Śiva 2.41
    पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥४१॥

    সকলো ঠাইত

  5. The Vision of Śiva 2.43
    प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता ॥४३॥

    সকলোতে

  6. The Vision of Śiva 4.11
    व्यवहारस्य सत्यत्वे सर्वत्रासत्यतैव ते ॥११॥

    সৰ্বত্ৰ

  7. The Vision of Śiva 5.8
    स्वल्पतेजसि दार्ढ्याद्वा सर्वत्र शिवतुल्यता । भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥८॥

    সৰ্বত্ৰ

  8. The Vision of Śiva 5.65
    शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयः । स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥६५॥

    সকলোতে

  9. The Vision of Śiva 5.81
    सर्वत्र देवतात्मत्वाज्जडेष्वप्युपवर्णिता । पोतादेश्चेदुपायेन दृष्टे दीपाद्युपायता ॥८१॥

    সকলো ঠাইতে

  10. The Vision of Śiva 6.88
    सर्वत्र सर्वसंवित्तेस्तत्सर्वं विनिवारितम् । विकल्पा येऽपि चार्वाकैरुक्तास्तेऽपि न बाधकाः ॥८८॥

    সকলো ঠাইত

  11. The Vision of Śiva 6.89
    सर्वत्र सारभूतत्वात्सर्वत्रैवाजडत्वतः । सर्वभावस्वभावत्वादभावस्यापि भावतः ॥८९॥

    সকলো ঠাইত

  12. The Vision of Śiva 6.126
    अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु । स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥१२६॥

    সকলো ঠাইত

  13. The Vision of Śiva 7.33
    पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि । सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥३३॥

    সকলো ঠাইত

  14. The Vision of Śiva 7.52
    यस्मात्पदार्थता तुल्या चित्ताभावोद्भवो मुहुः । सर्वत्र चित्ताभावेन सत्याकारतया स्थितेः ॥५२॥

    সকলো ঠাইত

  15. The Vision of Śiva 7.53
    सर्वत्रानुभवावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥५३॥

    সকলো ঠাইত

  16. Stanzas on the Divine Pulsation 1.7
    लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥७॥

    সৰ্বত্ৰ, সকলো ঠাইতে

  17. Stanzas on the Divine Pulsation 2.4
    तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥४॥

    সৰ্বত্ৰ, সকলো ঠাইতে

  18. Stanzas on the Divine Pulsation 3.7
    अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥७॥

    সৰ্বত্ৰ

  19. The Essence of the Tantra 20.24
    सर्वत्र परमेश्वराभेदाभिमान एव परमः संस्कारः

    সকলো ঠাইত

  20. The Essence of the Tantra 20.50
    ज्ञानलाभादौ लौकिकोत्सवान्ते ऽपि सर्वत्र संविदुल्लासाधिक्यं देवताचक्रसन्निधिः विशेषतो भवति इति तथाविधाधिक्यपर्यालोचनया तथाविधम् एव विशेषम् अनुयागादौ कुर्यात्

    সকলো ঠাইত

  21. Vijñāna Bhairava Tantra 1.55
    सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः । न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः ॥५५॥

    সৰ্বত্ৰ

  22. Vijñāna Bhairava Tantra 1.148
    एवमेव हि सर्वत्र भैरवो भैरवीप्रिये । सर्वत्र भावनाख्यानमुक्तं भवति शोभने ॥१४८॥

    সৰ্বত্ৰ