Lemma

Lemma

rūpam

form/colour

11 verses



Morphology

acc. sg. n.n.nom.sgnom. sg. n.
  1. Stanzas on the Divine Pulsation 3.10
    अतो विन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥१०॥

    form/colour

  2. Vijñāna Bhairava Tantra 1.2
    अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥२॥

    form, nature

  3. Verses on the Recognition of the Lord 2.8
    अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥८॥

    form, image

  4. The Essence of the Tantra 6.2
    संविद् एव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततो ऽसौ चेतन इव भाति

    form

  5. The Essence of the Tantra 6.82
    संविद्रूपस्यात्मनः प्राणशक्तिं पश्यन् रूपं तत्रगं चातिकालम् । साकं सृष्टिस्थेमसंहारचक्रैर् नित्योद्युक्तो भैरवीभावम् एति

    the form

  6. The Vision of Śiva 1.30
    बिभर्ति रूपमिच्छातः कदाचिज्ज्ञानशक्तितः । सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं स्थितिम् ॥३०॥

    a form

  7. The Vision of Śiva 1.34
    तथा नानाशरीराणि भुवनानि तथा तथा । विसृज्य रूपं गृह्णाति प्रोत्कृष्टाधममध्यमम् ॥३४॥

    form

  8. The Vision of Śiva 2.32
    अवाच्यत्वेन भवतां तस्या रूपं गतम् । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥३२॥

    the (proper) nature

  9. The Vision of Śiva 3.52
    यदि स्वरूपविभ्रंशाच्छाक्तरूपादिकल्पना । तद्वक्तव्यं निमित्तत्वं किमर्थं रूपमूज्झति ॥५२॥

    its form

  10. The Vision of Śiva 4.106
    शाशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः । गुणिनो नीयतेऽन्यत्र तृषार्तैश्चाकृतिं प्रति? ॥१०६॥

    form (color)

  11. The Vision of Śiva 7.76
    चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु । अविनाश्येकपिण्डे वा स भवेदजरामरः ॥७६॥

    (its) form