Lemma

Lemma

yujyate

युक्त (सम्भव) होता है (कर्मवाच्य, √युज्)

11 verses



Morphology

3 sg. pres. pass. (√yuj)3sg. pres. pass.
  1. Verses on the Recognition of the Lord 12.19
    न च युक्तं जडस्यैवं भेदाभेदविरोधतः आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥१९॥

    युक्त (सम्भव) होता है (कर्मवाच्य, √युज्)

  2. The Vision of Śiva 4.59
    इतोऽपि नाशो नास्त्यस्य घटस्य करणात्पुनः । नाभावप्राप्तरूपस्य करणं युज्यते पुनः ॥५९॥

    उचित

  3. The Vision of Śiva 4.69
    सुवर्णमानयेत्युक्ते शून्यता किं प्रतीयते । विशेषस्पर्शविरहात्कदाचिदपि युज्यते ॥६९॥

    सम्भव होगा

  4. The Vision of Śiva 4.76
    तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते । व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥७६॥

    संगत होता है

  5. The Vision of Śiva 4.78
    संयोगश्चेन्न दूरेषु मूर्तामूर्तेषु युज्यते । शब्दस्योच्चारितध्वंसान्नष्टानष्टद्वये नच ॥७८॥

    सम्भव

  6. The Vision of Śiva 4.92
    तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥९२॥

    संगत

  7. The Vision of Śiva 4.105
    यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥१०५॥

    संगत होती है

  8. The Vision of Śiva 4.120
    तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥१२०॥

    संगत होता है

  9. The Vision of Śiva 5.73
    प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् । स्वातन्त्र्यं नच शब्दस्य रचनात्वेन युज्यते ॥७३॥

    उचित

  10. The Vision of Śiva 6.51
    नच नश्यदवस्थायां स्वाकार्यं तस्य युज्यते । कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥५१॥

    सम्भव

  11. The Vision of Śiva 6.86
    शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् । अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥८६॥

    युक्तियुक्त होता है