Lemma

Lemma

sarvam

ਸਾਰਾ

25 verses



Morphology

acc. sg. n.n.acc.sgnom. sg. n.
  1. The Great Liberation Tantra 2.38
    तदधीनं जगत् सर्वं त्रैलोक्यं सचराचरम् । तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ ३८ ॥

    ਸਾਰਾ

  2. The Great Liberation Tantra 3.120
    सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः । न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च । महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

    ਸਭ ਕੁਝ

  3. Parātrīśikā 1.18
    यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति । मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा ॥१८॥

    ਸਭ ਕੁਝ

  4. The Vision of Śiva 1.21
    ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥२१॥

    ਸਾਰਾ

  5. The Vision of Śiva 2.90
    तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्त्मात्सर्वं शिवात्मकम् ॥९०॥

    ਸਭ ਕੁਝ

  6. The Vision of Śiva 3.20
    तथेच्छया समाविष्टस्तथा शक्तित्रयेण च । तथा तथा स्थितो भावैरतः सर्वं शिवात्मकम् ॥२०॥

    ਸਭ ਕੁਝ

  7. The Vision of Śiva 3.53
    शक्तित्रयस्वरूपत्वं सर्वं यत्रास्त्यवस्थितम् ॥५३॥

    ਸਭ

  8. The Vision of Śiva 3.61
    अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥६१॥

    ਸਭ

  9. The Vision of Śiva 3.77
    व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः । स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥७७॥

    ਸਭ

  10. The Vision of Śiva 3.78
    सर्वमेकेन रूपेण यद्विचार्यं तथाग्रतः ॥७८॥

    ਸਭ

  11. The Vision of Śiva 3.99
    पातञ्जलादीश्वरेण न साम्यमविभेदतः । इह तद्वन्न विज्ञेयं तस्मात्सर्वं स्थितः शिवः ॥९९॥

    ਸਭ

  12. The Vision of Śiva 4.1
    अथेदानीं प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥१॥

    ਸਭ

  13. The Vision of Śiva 4.29
    तस्मादवस्थितं सर्वं सत्त्वं चिद्व्यक्तियोगिता । यत्र यत्र तत्र तत्र सत्यत्वं विश्वरूपता ॥२९॥

    ਸਭ

  14. The Vision of Śiva 4.66
    घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः । योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥६६॥

    ਸਭ

  15. The Vision of Śiva 4.76
    तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते । व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥७६॥

    ਸਭ

  16. The Vision of Śiva 5.98
    स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥९८॥

    ਸਭ

  17. The Vision of Śiva 5.108
    सर्वस्य सर्वमस्तीह नानाभावात्मरूपकैः । मद्रूपत्वं घटस्यास्ति ममास्ति गह्टरूपता ॥१०८॥

    ਸਭ ਕੁਝ

  18. The Vision of Śiva 5.110
    एवं सर्वेषु भावेषु सर्वसाम्ये व्यवस्थिते । तेन सर्वगतं सर्वं शिवरूपं निरूपितम् ॥११०॥

    ਸਭ ਕੁਝ

  19. The Vision of Śiva 7.59
    संकल्पप्रभवं सर्वं जगदेतदनन्तकम् । सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥५९॥

    ਸਾਰਾ

  20. The Vision of Śiva 7.78
    ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते । भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी ॥७८॥

    ਸਭ ਕੁਝ

  21. The Vision of Śiva 7.94
    लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता । पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥९४॥

    ਸਭ

  22. Stanzas on the Divine Pulsation 1.10
    तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस्तदेप्सितं सर्वं जानाति च करोति च ॥१०॥

    ਸਭ ਕੁਝ — ਨਪੁੰ.ਕਰਮ/ਕਰਤਾ.ਇਕ.

  23. Stanzas on the Divine Pulsation 3.12
    प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥१२॥

    ਸਭ ਕੁਝ — ਨਪੁੰ.ਕਰਮ/ਕਰਤਾ.ਇਕ.

  24. Vijñāna Bhairava Tantra 1.1
    श्रीदेव्युवाच । श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् । त्रिकभेदमशेषेण सारात्सारविभागशः ॥१॥

    ਸਾਰਾ, ਸਮੁੱਚਾ

  25. Vijñāna Bhairava Tantra 1.68
    लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् । तत्सर्वं भैरवाकारतेजस्तत्त्वं समाविशेत् ॥६८॥

    ਸਾਰਾ