Lemma

Lemma

iyam

ഇയം — ഈ

12 verses



Morphology

f.nom.sg pronnom. sg. f.nom. sg. f. dem.
  1. Verses on the Recognition of the Lord 1.3
    किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥३॥

    ഇയം — ഈ

  2. Verses on the Recognition of the Lord 14.18
    हेया त्रयीयं प्राणादेः प्राधान्यात् कर्तृतागुणे तद्धानोपचयप्रायसुखदुःखादियोगतः ॥१८॥

    ഇയം — ഈ (പ്രഥമ ഏകവചനം സ്ത്രീ, സർവനാമം)

  3. Verses on the Recognition of the Lord 15.17
    तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥१७॥

    ഇയം — ഈ (പ്രഥമ ഏകവചനം സ്ത്രീ, സർവനാമം)

  4. Verses on the Recognition of the Lord 15.18
    जनस्यायत्नसिद्ध्यर्थम् उदयाकरसूनुना ईश्वरप्रत्यभिज्ञेयम् उत्पलेनोपपादिता ॥१८॥

    ഇയം — ഇത് (പ്രഥമ ഏകവചനം സ്ത്രീ, സർവനാമം)

  5. The Great Liberation Tantra 3.110
    तदनन्तरमीशानि तन्नो ब्रह्म प्रचोदयात् । इयं श्रीब्रह्मगायत्री चतुर्वर्गप्रदायिनी ॥ ११० ॥

    ഇയം — ഇത്

  6. Parātrīśikā 1.9
    इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा । चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् । तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः ॥९॥

    ഇത്

  7. The Vision of Śiva 3.24
    यत्रोपरि न हस्तादि नेयमीश्वरसंनिधौ । तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥२४॥

    ഇത്

  8. The Vision of Śiva 5.68
    न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते । तस्माद्वर्णनिकैवेयं परस्यान्ध्याय कल्पिता ॥६८॥

  9. Stanzas on the Divine Pulsation 1.7
    लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥७॥

    ഈ (സ്വാതന്ത്ര്യം) — സ്ത്രീ.കർത്താ.ഏക.

  10. Stanzas on the Divine Pulsation 1.11
    तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥११॥

    ഇവൾ, ഇത് — സ്ത്രീ.കർത്താ.ഏക.

  11. Stanzas on the Divine Pulsation 2.7
    इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥७॥

    ഈ (സമാപത്തി) — സ്ത്രീ.കർത്താ.ഏക.

  12. Stanzas on the Divine Pulsation 3.16
    सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥१६॥

    ഇവൾ, ഇത് — സ്ത്രീ.കർത്താ.ഏക.