एवं किञ्चित्कर्तृत्वं यत् मायाकार्यं तत्र किञ्चित् त्व् अविशिष्टं यत् कर्तृत्वं विशेष्यं तत्र व्याप्रियमाणा कला विद्यादिप्रसवहेतुः इति निरूपितम्
Transliteration (IAST)
evaṃ kiñcitkartṛtvaṃ yat māyākāryaṃ tatra kiñcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam
अशा प्रकारे जे किंचित् कर्तृत्व मायेचे कार्य आहे, तेथे 'किंचित्' हे अविशिष्ट (विशेषण) असून, 'कर्तृत्व' हे विशेष्य आहे; तेथे व्यापृत (कार्यरत) होणारी कला विद्या इत्यादींच्या प्रसवाचे कारण आहे — असे निरूपित केले.