Lemma

Lemma

bhavati

comes to be

17 verses



Morphology

3 sg. pres.3 sg. pres. (√bhū)3 sg. pres. √bhū3sg. pres.3sg. pres. ind.3sg. pres. √bhū
  1. Verses on the Recognition of the Lord 2.10
    तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः ॥१०॥

    comes to be

  2. Karpūrādi Stotra 1.15
    श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्कार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥

    becomes

  3. The Great Liberation Tantra 2.33
    कृते विश्वहिते देवि विश्वेशः परमेश्वरि । प्रीतो भवति विश्वात्मा यतो विश्वं तदाश्रितम् ॥ ३३ ॥

    becomes

  4. The Great Liberation Tantra 3.6
    ज्ञेयं भवति तद्ब्रह्म सच्चिद्विश्वमयं परम् । तथा तत्त्वस्वरूपेण लक्षणैर्वा महेश्वरि ॥ ६ ॥

    is

  5. The Heart of Recognition 1.20
    तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ॥२०॥

    arises

  6. The Vision of Śiva 1.8
    विचित्ररचनानानाकार्यसृष्टिप्रवर्तने । भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः ॥८॥

    there arises

  7. The Vision of Śiva 3.59
    नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तिः काचन स्थितिः ॥५९॥

    is

  8. The Vision of Śiva 3.75
    स एव बुद्धरूपत्वे तथा भवति तत्क्षणम् । स एव संप्रजायेत तदनुष्ठानतत्परः ॥७५॥

    becomes

  9. The Vision of Śiva 5.26
    पुरा शक्तेरानयने चक्षुः शक्तं न वेति वा । तस्यापि शक्तेः कल्प्यत्वे भवत्यानन्त्यसंगमः ॥२६॥

    there arises

  10. The Vision of Śiva 5.80
    भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः । गमागमेन वायवादेः कान्या भवति चेतना ॥८०॥

    is there

  11. The Vision of Śiva 6.26
    स्वाविद्याप्रक्षयादर्हन्देवो भवति निश्चितम् । येषां देवो निराकारः शून्य एव किमुच्यते ॥२६॥

    becomes

  12. The Vision of Śiva 7.27
    ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा । भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥२७॥

    becomes

  13. The Vision of Śiva 7.106
    भवति शिवमयात्मा सर्वभावेन सर्वः ॥१०६॥

    becomes

  14. The Essence of the Tantra 13.28
    इति षोढा न्यासो भवति

    is, becomes

  15. The Essence of the Tantra 20.30
    यदि मार्गशीर्षादिक्रमेण यथासङ्ख्यं भवति आश्वयुजं वर्जयित्वा तदा विशेषविशेषः

    there occurs (the conjunction)

  16. The Essence of the Tantra 22.22
    अनुचक्रदेवतात्मकमरीचिगणपूरणाधिगतवीर्यम् । तच्छक्तितद्वदात्मकम् अन्योन्यसमुन्मुखं भवति

    becomes

  17. Vijñāna Bhairava Tantra 1.148
    एवमेव हि सर्वत्र भैरवो भैरवीप्रिये । सर्वत्र भावनाख्यानमुक्तं भवति शोभने ॥१४८॥

    comes to be