द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि लोकवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥
११-३५ ॥
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi lokavīrān |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||
11-35 ||
द्रोण को, भीष्म को, जयद्रथ को, कर्ण को, तथा अन्य लोकवीरों को भी, जो मेरे द्वारा (पहले से) मारे जा चुके हैं, तू मार; व्यथित मत हो। युद्ध कर, तू रण में शत्रुओं को जीतेगा।